"ब्राह्मणः" इत्यस्य संस्करणे भेदः

भाषापरिष्कारः
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
पङ्क्तिः ८१:
==अन्यकार्यब्राह्मणाः==
 
ब्राह्मणाः न केवलं बैदिककार्याणिवैदिककार्याणि किन्तु अन्यत् कर्म अपि कुर्वन्ति स्म । पण्डिताः, यतयः, योधाः, उद्यमिनः अपि भवन्ति स्म इति कल्हणस्य राजतरङ्गिण्याम् उल्लिखितम् । येषां क्षत्रियाणां गुणाः भवन्ति तान् ब्रह्मक्षत्रियाः इति कथयन्ति । हेहयानाम् उपरि २१वारम् आक्रमणं कृतवान् परशुरामः ब्रह्मक्षत्रियः इति ख्यातः । ऋषिः परशुरामः युद्धकलां सम्यक् जानाति स्म । सः शस्त्रास्त्राणि विना युद्धं कर्तुं समर्थः आसीत् । अपि च तत् कौशलं अन्यान् अपि शिक्षयति स्म । परशुरामः यदा क्षत्रियान् नाशितवान् तदा तत्रैव भूमिहारब्राह्मणाः परशुरामेण आनीताः । कालान्तरे ते अर्चकवृत्तिं त्यक्त्वा कृषकाः वैद्याः च अभवन् । बैद्यः इति बङ्गालभाषया कथ्यमानाः गुप्ताः, दासगुप्ताः, सेनगुप्ताः अयुर्वेदस्य 'धन्वन्तरी देवस्य वंशजाः' एव ।
 
रजपूतानां राककुलेषु 'राजपुरोहिताः' इति ब्राह्मणाः आसन् । किन्तु ते राजकुमारेभ्यः युद्धविद्यां बोधयन्ति स्म । ते राज्ञः वंशावलेः इतिहासस्य च रक्षकाः च आसन् । यदि राजा अकालमृत्युं प्राप्नोति, तर्हि उत्तराधिकारिणः राजकुमारस्य तु बाल्ये सत्त्वात् राज्यरक्षणस्य दायित्वमपि एते ब्राह्मणाः स्वीकुर्वन्ति । ब्राह्मणानां क्षत्रियाणां च गुणान् प्राप्तवन्तः ते ब्रह्मक्षत्रियाः इति भवन्ति । पलवब्राह्मणाः वयं ब्रह्मक्षत्रियाः इति स्वयं कथयन्ति स्म । ब्राह्मणः ललितादित्यमुक्तपादः काश्मीरस्य राजा अभवत् । क्रि.श.६५७तमे वर्षे चम्पा(वियेट्नाम्)प्रदेशस्य राजा रुद्रवर्मा ब्राह्मणः एव । क्रि.श.७८१तमे वर्षे काम्बोजप्रशासकः राजा जयवर्मा कश्चित् ब्रह्मक्षत्रियः । वैश्यस्य अथवा वणिजः गुणयुक्तान् विप्रान् 'ब्रह्मवैश्यः' इति कथयन्ति स्म । बङ्गालराज्ये दक्षिणभारतस्य केषुचिद् राज्येषु वसन्तः अम्बस्थब्राह्मणाः ब्रह्मवैश्याः आसन् । ते आयुर्वेदम् अधीत्य वैद्यवृत्तिं कुर्वन्ति स्म ।
 
==ब्राह्मणानाम् आचरणपद्धतिः==
 
"https://sa.wikipedia.org/wiki/ब्राह्मणः" इत्यस्माद् प्रतिप्राप्तम्