"कोडगुमण्डलम्" इत्यस्य संस्करणे भेदः

(लघु) Bot: removing exist language links in wp:wikidata: es, nl, ro, fr
No edit summary
 
पङ्क्तिः ४२:
 
[[कर्णाटकम्|कर्णाटकस्य]] वीरभूमिः [[भारतम्|भारतस्य]] स्काट्लैण्ड् इत्यादिरूपेण प्रसिद्धिः कोडगुप्रदेशस्य महत्त्वं सूचयति। पर्वतश्रेणीनां मध्ये सानुप्रदेशः निसर्गसुन्दरः अत्यन्तं रमणीयः च अस्ति । हर्मन् मौग्लिङ्ग् इत्यादयः आङ्गलाः अन्ये विदेशीयाः च कोडगुप्रदेशं मुक्तकण्ठेन सम्यक् वर्णितवन्तः सन्ति ।
[[कावेरी]]नद्याः जन्मस्थानं कोडगुमण्डले [[तलकावेरी]] स्थले अस्ति । कन्नडकवयः [[पञ्जे मङ्गेशरायः]], [[जी.पी.राजरत्नम्]], सालिरामयचन्द्ररायः कोडगुप्रदेशं मनसा काव्यैः वर्णितवन्तः सन्ति । समग्रं मण्डलम् अतीवसुन्दरं भारतस्य काश्मीरसदृशम् अस्ति । कोडगुमण्डलस्य विस्तारः ४१०० चतुरस्रकि.मी अस्ति । सागरस्तरतः ३००० पादोन्नते प्रदेशे कोडगुप्रदेशः अस्ति । काफी [[एला]] [[मरीचम्]] [[नारङ्गम्]] इत्येतेषां वृक्षाणां वाटिकाः मनमोहकाः भवन्ति । अतः एव कविः [[द.रा. बेन्द्रे]]वर्यः बहूनि गीतानि रचितवान् अस्ति ।
 
कोडगुप्रदेशं कोडवरनाडु इत्यपि कथयन्ति । जनाः युद्धकलाचतुराः सन्ति । प्रतिगृहं योधाः सन्ति । मेजर्फील्ड् मार्षल् [[जनरल् कारियप्पः|कारियप्पः]] भारतस्य प्रथम महादण्डनायकः आसीत् । जनरल् तिम्मय्यः अपि कोडगुप्रदेशीयः । कोडवजनाः दृढशरीराः व्यायामप्रियाः शूराः उन्नताः क्रिडा क्षेत्रेऽपि प्रसिद्धाः च भवन्ति । एतेषां वस्त्रधारणविधिः अपि भिना एव अस्ति ।
 
आवर्षम् अत्र शीतकालः इव उत्तमं वातावरणं भवति । फेब्रुवरीमासे मरीचस्य पक्वकालः । एप्रिल्मासे काफीसस्यानि पुष्पितानि भवन्ति । तदा तेषां सुगन्धः अत्यन्तम् आह्लादकरः भवति । मे मासे हरितानि बीजानि रक्तानि भवन्ति । काफी सस्ये फलानां पक्वभवनस्य कालः । मनमोहकं काफिवाटिकादृश्यं रमणीयं भवति ।
[[कावेरी]]नदी सदा जलपूर्णा प्रवहति । तत्र तत्र अनेके जलपाताः निर्मिताः सन्ति वर्षाकाले नदीजलं भयं जनयति । जलपातेषु अधिकं जलं तदा पतति । जूनमासे वर्षारम्भः भवति । नव रात्रिपर्यन्तं वृष्टिः भवति । तलकावेर्यां जलोद्गमः , दसरामहोत्सवः , हुत्तरिपर्व कोडगुमण्डले अतीव वैभवयुक्तानि पर्वाणि सन्ति ।
 
मडिकेरीतः [[तलकावेरी]] ४६ कि.मी दूरेऽसिदूरे अस्ति । अत्रैव कार्वर्याःकावेर्याः उद्गमस्थानम् अस्ति । इर्प्पुजलपातम्, अब्बी अब्बीफल्स्जलपातं, सदा जलपूर्णानि दर्शकाणां आनन्ददायकानि भवन्ति । कुशालनगरसमीपे कावेरीनिसर्गधाम सुन्दरम् अस्ति ।
कोडगुप्रदेशे पादचारणाय माकुट्ट, बर्पोळेबरपोळे, नीलं पोलेपोळे प्रदेशाः अतिजनप्रियाः । इग्गुतप्पइग्गुतप्पः, तडियण्ड् मोळ्तडियण्डमोळ्, चिन्ननप्प शिखरारोहणं साहसयात्रा एवास्ति । तडियण्ड् मोळ्तडियण्डमोळ् सागरस्तरतः ५००० पादोन्नतम् अस्ति । सोमवारपेटे पुष्पगिरि, कुमारपर्वतशिखरं च पादचारणाय विशिष्टानि सन्ति ।
 
==विस्तीर्णता==
"https://sa.wikipedia.org/wiki/कोडगुमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्