"अद्वैतवेदान्तः" इत्यस्य संस्करणे भेदः

(लघु) 217.64.109.231 (Talk)इत्यस्य सम्पादनम् अपमर्ज्य 2401:4900:B8D:B3D2:0:50:8A6E:6B01 इति अन्तिमपुनरावृत्तिः ।
अङ्कनम् : वापस लिया
(लघु)No edit summary
 
पङ्क्तिः १:
[[File:Shri Shankaracharya.jpg|thumb|150px|[[शङ्कराचार्यः]]]]
'''अद्वैतवेदान्तः''' (Advaita[[:en:ISO Vedanta15919|ISO 15919]]: ''Advaitavēdāntaḥ'') [[भारतीयदर्शनशास्त्रम्|दर्शनेषु]] अन्यतमः। न द्वैतम् अद्वैतम् । [[ज्ञानम्|ज्ञानस्य]] चरमस्थितिरेव अद्वैतमित्युच्यते । [[शङ्कराचार्यः|शङ्कराचार्याणाम्]] आगमनात् प्रागपि अद्वैतसिद्धान्तः आसीत् । परन्तु शङ्कराचार्याणाम् आगमनानन्तरं प्रसिद्धिं गतम् एतत् दर्शनम् ।
अस्य मतस्य प्रवर्तकः [[शङ्कराचार्यः]] । अद्वैतदर्शनं [[शङ्कराचार्यः]] [[प्रस्थानत्रयम्|प्रस्थानत्रयेण]] [[श्रुतिः|श्रुति]] [[स्मृतयः|स्मृति]] [[सूत्रम्|सूत्रैः]] समर्थितवान् अस्ति। अतः अस्य दर्शनस्य "शाङ्करदर्शनम्" इत्यपि प्रसिद्धिः अस्ति। अस्मिन् दर्शने जीवब्रह्मणोः ऐक्यं प्रतिपादयन्ति। प्रपञ्चे जीवभावङ्गतस्य विवेकिनः प्रत्येकपुरुषस्य धर्मार्थकाममोक्षाख्याः चत्वारः पुरुषार्थाः सन्ति ।
चतुर्षु एतेषु आद्यास्त्रयः पाञ्चभौतिकेऽस्मिन् प्रपञ्चे भौतिकस्य जीवस्य कृते इहफलभोगत्वेन विहिताः भवन्ति । अन्तिमः मोक्षः परमसुखात्मकः इति कथनात् अयं परमपुरुषार्थः भवति । चतुर्णामेतेषां चतुर्वर्गत्वेन व्यवहारः। वर्गचतुष्टये आद्यास्त्रयः तत्तत्पुरुषमत्यनुसारम् उत्पन्नत्वात् एतेषाम् अनित्यत्वम् उच्यते । अन्तिमत्वेन निर्विशेषात्मकं सुखं प्राप्यते इत्यतः [[मोक्षः]] नित्यः इति शास्त्रेषु गीयते। नित्यभूतस्यास्य मौक्षस्वरूपस्य प्राप्त्यर्थं विभिन्नाः दर्शनकाराः भिन्नभिन्नप्रकारेण स्वमतं व्याचक्षुः । वेदान्तशास्त्रे केवलमात्मस्वरूपं प्रतिपाद्यते इति हेतोः मुमुक्षुः वेदान्तशास्त्रपठनश्रवणमननादिषु प्रवृत्तो भवति । तस्मात् एतत् शास्त्रं सर्वेषां शास्त्राणां शिरोमणिभूतं भवति । अस्मिन्नपि शास्त्रे [[आत्मा|आत्मनः]] स्वरूपप्रतिपादनं महता विस्तरेण प्रतिपादितमस्ति । यत्र समस्तवेदमन्त्राणां लक्ष्यत्वेन अन्तिमं तत्त्वमेकं वर्णितं भवति तत् वेदान्तशास्त्रमित्युच्यते ।<br />
"https://sa.wikipedia.org/wiki/अद्वैतवेदान्तः" इत्यस्माद् प्रतिप्राप्तम्