"दाडिमवृक्षः" इत्यस्य संस्करणे भेदः

स्थूलाक्षरम्
1
पङ्क्तिः २५:
== आयुर्वेदस्य अनुसारम् अस्य दाडिमस्य प्रयोजनानि ==
अस्मिन् दाडिमे २२.२% यावत् “ट्यानिन्” नामकः अंशः भवति । तथैव शर्करा, निर्यासः, १५% “पेक्विन्” नामकः अंशः, “पेलेक्ट्रिन्”, “ऐसोपेलेक्ट्रिन्”, “प्युनिकोट्यानिक्” इत्यादयः अंशाः अपि भवन्ति । अस्यः रसः कषायः, आम्लः च । विपाके अयं मधुरः भवति । अयं शीतवीर्यः चापि ।
 
१. अस्य दाडिमस्य पक्वानि मधुराणि फलानि दाहं (पिपासां) निवारयन्ति ।
 
२. अपक्वस्य अथवा अवर्धितस्य दाडिमफलस्य कषायः अतिसारं (सर्वविधम् अतिसारं) निवारयति । सः कषायः रक्तस्रावम् अपि शमयति ।
 
३. अस्य फलस्वरसः १ औन्स् यावत्, त्वचः कषायः ५ चमसान् यावत् सेवितुं शक्यते ।
 
४. अस्य फलं बलवर्धकम् । दुर्बलानां, निश्शक्तानां च हितकरम् ।
 
५. अस्य दाडिमस्य सेवनेन ज्वरः, निश्शक्तिः, मूत्रविकाराः च अपगच्छन्ति ।
 
६. इदं दाडिमं बुभुक्षां वर्धयति, मुखे जातान् पिटकान् अपि शमयति ।
 
७. दाडिमम् अरुचौ, क्रिमिबाधायां, आम्लपित्ते चापि उपयुज्यते ।
 
८. अनेन दाडिमेन निर्मितानि “दाडिमाष्टकचूर्णं”, “दाडिमावलेह्यं”, “दाडिमादिचूर्णम्” इत्यादिकानि आयुर्वेदस्य औषधानाम् आपणेषु उपलभ्यन्ते ।
[[वर्गः:औषधीयसस्यानि]]
"https://sa.wikipedia.org/wiki/दाडिमवृक्षः" इत्यस्माद् प्रतिप्राप्तम्