"संस्कृतम्" इत्यस्य संस्करणे भेदः

→‎बाह्यानुबन्धाः: Link reviewed of epaper sudharma
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम् Android app edit
No edit summary
पङ्क्तिः ५०३:

अद्यत्वे संस्कृतभाषा उन्नतस्थाने विद्यते। अनेके जनाः संस्कृतभाषामधिगन्तुं प्रयतमानाः सन्ति। तत्प्रशंसायां न केवलम् जना: अग्रे भवन्ति अपि तु अनेके कार्यक्रमाः अपि प्रचलन्ति । परन्तु अपेक्षितपरिणामः नास्ति|

==संस्कृतं संवादभाषा ==
संस्कृतं संवादभाषा आसीत् अथवा न इति कश्चन प्रश्नः वारंवारम् उपोस्थाप्यते। अस्य प्रश्नस्य पृष्ठभूमि: एवम् -

१८तमे शतके आङ्ल् तत्व्अज्ञेषु केषाञ्चित् मतमेवम् आसीत् यत् संस्कृतं नाम कापि भाषा वस्तुत: नास्ति।एतत् ब्राह्मणानां कुटिलम् असत्यं प्रतिपादनं यत् संस्कृतं नाम प्राचीनतमा भाषा अस्ति इति।

अन्य: एक: आक्षेप: तदानीं कृतः यत् संस्कृतं नाम वैय्याकरणै: निर्मिता कृत्रिमा भाषा इति।

एताभ्याम् आक्षेपाभ्यं जातः अयं तृतीयः आक्षेपः यत् ‘एषा भाषा संवादभाषा आसीत् अथवा केवलं शास्त्रिपण्डितानां लिखिता भाषा आसीत्?’ दैनन्दिने व्यवहारे उपयुक्ता भाषा आसीत् अथवा केवलं वाङ्मयनिर्माणार्थं ब्राह्मणै: हेतुत: निर्मिता जटिला कठिना गूढा च भाषा आसीत्? एतस्य आक्षेपस्य विचार: संस्कृतज्ञैः जनैः विविधै: अङ्गै: कृत:।सः एवम्-

अ) ===भाषाशास्त्रदृष्ट्या – ===
१ प्रथमं वचनम् अनन्तरं लेखनम् इति नैसर्गिक: एष: नियम:।यत: वचनं निसर्गसिद्धं, लेखनं तु मनुष्यनिर्मितम् अत: कृत्रिमम्।अत: संस्कृतलेखनात् पूर्वं संस्कृतवचनं निसर्गत: एव सिद्धम्।

२ स्वराघाता: संवादभाषायाम् एव सम्भवन्ति, न तु लिखितभाषायाम्। स्वराघातानां सम्यक् ज्ञानं मौखिकरूपेण एव शक्यम्।लेखने स्वराघातानां चिह्नानि दर्शयितुं शक्यानि परं तेषां स्वराणाम् उच्चारा: कथं करणीया: इति तु साक्षात् उच्चारेण एव ज्ञायते।संस्कृते विद्यमानम् अतिप्राचीनं साहित्यं नाम ऋग्वेद:।एतस्मिन् ऋग्वेदे अपि स्वराघाता: सन्ति। तर्हि संस्कृतं संवादभाषा न आसीत् इति वक्तुं कथं शक्यते ?

वेदवाङ्मये स्वराघाता: आसन् अपि तु स्वरभेदेन अर्थभेद: अपि भवति स्म।एतत् तस्य उदाहरणद्वयम् –

१ एकस्मिन् यज्ञे इन्द्रशत्रु: इति शब्दस्य उच्चारे पुरोहितेन हेतुत: परिवर्तनं कृतम्।तेन यजमान: अत्यन्तं विरुद्धं फलं प्राप्तवान् इति कथा प्रसिद्धा।

२ असुरा: युद्धकाले हे अरय: हे अरय: इति देवान् सम्बोधयितुम् इच्छन्ति स्म।परं तेषाम् उच्चारा: अशुद्धा: आसन्।ते हेऽलय: हेऽलय: इति अवदन्।अशुद्धोच्चारेण तेषां पापां जातं, तेन तेषां युद्धे पराभव: अभवत्।
भाषायां शब्दोच्चाराणां स्वराघातानां च महत्त्वम् एतावत् प्रतिपादितम् अस्ति। अत: संस्कृतं तदा उच्चारे आसीत् इति स्पष्टम्।
भाषा स्वरबद्धा आसीत् एतदर्थम् इतोऽपि एकं प्रमाणं नाम पाणिनिना सङ्गीत-स्वरै: सह भाषास्वराणां सम्बन्ध: प्रतिपादित: अस्ति।भाषा संवादे आसीत् अत: एव एतत् शक्यम् अभवत्।अन्यथा या भाषा केवलं लेखने अस्ति, संवादे नास्ति तस्या: सङ्गीतस्वरै: सह सम्बन्ध: कथं भवेत् ?
वेदस्य ६ अङ्गानि सन्ति।तेषु शिक्षा इति एकम् अङ्गम्।एतस्मिन् अङ्गे शब्दोच्चाराणां विस्तृत: गभीर: च विचार: अस्ति।शब्दोच्चाराणां सूक्ष्मातिसूक्ष्मा: भेदा: अत्र वर्णिता:।

३एष: मम अपराध: । एष: मम अपराध:? अस्मिन् वाक्यद्वये शब्दा: ते एव, तेषां क्रम: अपि स: एव।तथापि अर्थ: भिन्न:।एष: अर्थभेद: केवलम् उच्चारेण स्पष्ट: भवति।यस्यां भाषायाम् एकस्य एव वाक्यस्य केवलम् उच्चारभेदेन आशयभेद: भवति सा भाषा संवादभाषा अस्ति इति स्पष्टम्।
पाश्चात्यभाषाशास्त्रज्ञानां मते संस्कृतभाषा युरोभारतीयभाषासमूह-अन्तर्गता।एतस्मिन् समूहे या: अन्या: भाषा: सन्ति तासां विषये एषा संवादभाषा आसीत् वा? इति आक्षेप: कदापि न भवति।अत: वयं पृच्छाम: संस्कृतस्य विषये एव एष: आक्षेप: किमर्थम्? अत: भाषाशास्त्रदृष्ट्या वयं निश्चयेन वक्तुं शक्नुम: यत् संस्कृतभाषा संवादभाषा आसीत् ।

आ) व्याकरणदृष्ट्या
संस्कृतं वैय्याकरणै: कृत्रिमरीत्या निर्मिता भाषा अस्ति इति केचन पाश्चात्या: वदन्ति।यदि एवम् तर्हि संस्कृते नियमानाम् अपवादा: कथम्? वैकल्पिकं रूपं कथम्? या भाषा जनानां मुखे भवति तस्याम् एव अनियमितं रूपं भवन्ति, तस्याम् एव वैकल्पिकरूपाणि अपि सम्भवन्ति।अत: संस्कृतं नाम वैय्याकरणै: निर्मिता कृत्रिमा भाषा इति आरोप: निराधार:।

भिन्नभिन्नशब्दानां भिन्न-भिन्नदेशेषु उच्चारणं कथं भवति इति एतस्मिन् विषये व्याकरणमहाभाष्ये नैकानि उदाहरणानि सन्ति यथा अनुनासिकस्य उच्चार: कथं करणीय: इति एतस्य उदाहरणम् एवम् -

यथा सौराष्ट्रिका नारी तक्रँ इत्यभिभाषते

एतस्माद् उदाहरणात् स्पष्टं यत् सौराष्ट्रदेशे महिला: संस्कृतेन वदन्ति स्म।

निरुक्ते 2.2.8 तथा अष्टाध्याय्यां 4.1.157/4.1.160 इत्यत्र अपि स्थानविशेषेण उच्चारभेद: सूचित:।

डा. विण्टरनिट्झमहोदय: स्वनिरीक्षणं लिखति यत् पाणिनि: कात्यायन: तथा पतञ्जलि: इति एतेषां ग्रन्थेषु उच्चारितशब्दस्य एव विमर्श: प्राधान्येन विद्यते, न तु लिखितशब्दस्य।

यास्क: पाणिनि: च वैदिकभाषात: उक्तिभाषाया: पार्थक्यं दर्शयितुम् उक्तिभाषाया: उल्लेखं भाषाशब्देन कुरुत:।(प्रत्यये भायायां नित्यम्।- पाणिनि:।3.2.108)(निरुक्तम् 1.4.5.7/ 1.2.6.7/ )

यदि एषा उक्तिभाषा नास्ति तर्हि पाणिनिसूत्रं 8.4.48, तथा गणसूत्राणि 18,20,29 इति एतत् सर्वम् अनर्थकं स्यात्।

पतञ्जलिना वैयाकरण-रथचालकयो: संवाद: वर्णित:(महाभाष्यम् 2.4.56)। संस्कृतशब्दा: सामान्यजनानां जीवनै: सह सम्बद्धा: एव इति तत्र दर्शितम्।

अत: व्याकरणदृष्ट्या अपि संस्कृतं संवादभाषा आसीद् इति सिद्ध्यति।

इ) === वाङ्मयदृष्ट्या ===
जगत: आद्यं वाङ्मयं नाम ऋग्वेद:।एतस्मिन् वेदे अपि संवादसूक्तानि सन्ति, यथा पुरुरवा-ऊर्वशीसूक्तम्, यमयमीसंवाद:, पणिसरमासंवाद:।अत: तदा अपि एषा भाषा संवादे आसीत् इति स्पष्टम्।

वेदानाम् अनन्तरं सन्ति ब्राह्मणग्रन्था:।तेषु अपि संवादरूपेण एव विषयस्य प्रतिपादनं दृश्यते।

ब्राह्मणग्रन्थानाम् अनन्तरं सन्ति उपनिषद्ग्रन्था:।उपनिषद्ग्रन्थेषु अपि गुरुशिष्ययो: प्रश्नोत्तराणि सन्ति।एवं संवादमाध्यमं तत्रापि अस्ति एव।

चतुर्णां वेदानां संहिता:, ब्राह्मणग्रन्था: उपनिषद: इति सर्वं वैदिकं वाङ्मयम्।संस्कृतं संवादभाषा आसीत् इति एतदर्थम् उपरि उक्तानि सबलानि प्रमाणानि तत्र सन्ति।

रामायणं तथा च महाभारतम् इति द्वौ इतिहासग्रन्थौ ।एतौ द्वौ अपि ग्रन्थौ कीर्तनरूपौ।विशेषत: महाभारतं व्यासमहर्षिणा वैशाम्पायानाय कथितं, वैशम्पायनेन सूताय कथितं सूतेन च जनमेजय-नृपाय कीर्तितम्।एषा सर्वा संवादपरम्परा खलु।यदा रामायणस्य अथवा महाभारतस्य व्याख्यानं प्रचलति स्म तदा श्रोतृवृन्दे पण्डिता: अपि आसन् तथा च सामान्या: जना: अपि आसन्।तेषां सर्वेषा संस्कृतश्रवणस्य निरन्तरम् अभ्यास: आसीत् अत: एव एतत् शक्यम् अभवत्।

अस्माकं पवित्रा भगवद्गीता तु संस्कृतसंवादस्य उत्कृष्टम् उदाहरणम् । गीताया: उपसंहारे –

राजन् संस्मृत्य संस्मृत्य संवादम् इमम् अद्भुतम्।

केशवार्जुनयो: पुण्यं हृष्यामि च पुन: पुन:॥गीता १८.७६

इति सञ्जयस्य वचनम् अस्ति।

संस्कृतनाटकानि नाम एकम् प्रबलं प्रमाणम्।संस्कृतनाटकेषु प्राय: सर्वाणि पात्राणि संस्कृतेन वदन्ति।यानि पात्राणि अपभ्रष्टसंस्कृतेन वदन्ति तानि अपि अन्यस्य पात्रस्य संस्कृतं अनायासं जानन्ति।एते नाट्यप्रयोगा: उत्सवेषु समारोहेषु च भवन्ति स्म।तदा समाजस्य सर्वेभ्य: स्तरेभ्य: आगता: प्रेक्षका: तस्य आनन्दम् अनुभवन्ति स्म। अत: तदा संस्कृतं समाजस्य सर्वेषु आर्थिक-शैक्षिक-स्तरेषु संवादभाषा आसीत् इति निश्चितम्।

राजकुमाराणां शिक्षा संस्कृतभाषया आसीद् इति पञ्चतन्त्राद् ज्ञायते। मन्दबुद्धीनाम् अपि राजपुत्राणां शिक्षा यदि संस्कृतेन भवति स्म तर्हि सामान्यानां राजपुत्राणां शिक्षा संस्कृतेन एव आसीद् इति कैमुतिकन्यायेन सिद्धम्।

===ई ऐतिहासिकदृष्ट्या – ===

युवान श्वाङ्ग: लिखति यद् वादनिर्णयाय चर्चा संस्कृतेन भवति।

कामसूत्रे लिखितं रसिक: संस्कृतं प्राकृतम् अपि वदतु।(का. सू. 4.20) गणिका संस्कृतप्राकृते उभे अपि जानाति स्म। उभयभाषिणां रञ्जनाय एतद् आसीद् इति स्पष्टम्।आयुर्वेद:, ज्योतिषम्, तत्त्वज्ञानं, शिल्पशास्त्रं, गणितं, सङ्गीतम् इत्यादीनि शास्त्राणि गुरुशिष्यसंवादरूपेण एव लिखितानि सन्ति। समाजे या भाषा प्रचलति,तया एव भाषया शास्त्रग्रन्थानां लेखनं पाठनं च भवति।अत: ऐतिहासिकदृष्ट्या अपि संस्कृतं संवादभाषा आसीद् इति सिद्धम्।

एतै: सर्वै: प्रमाणै: सिद्धं यत् संस्कृतं संवादभाषा आसीत् इदानीमपि सा संवादे अस्ति इति तु प्रत्यक्षं वयं पश्याम:।प्रस्तुतसन्दर्भे म्याक्सम्युलरमहोदयस्य वचनम् एकम् स्मरणीयम्-

Evan at the present moment , after a century of English rule and English teaching, I believe that SANSKRIT is more widely understood in India than Latin was in Europe at the time of Dante-(From-India What Can It Teach Us)

एतदपि वचनमत्र अनुसन्धेयम् -

Hence every Hindu understands as much of Sanskrit as an Italian of Latin, especially as,in the real Hindustan the script has remained the same:and a smattering of Sanskrit can be traced down to the circles of servants and the lower classes ,wherefore letter to Benares with only a SANSKRIT address will without difficulty reach its destination through every postal messenger.-(From Hitory Of SASKRIT Literature-Winternitz.)

===निर्णय: ===
अतः अस्य वादस्य निर्णय: एवमेव यत्-

1 संस्कृतम् उक्तिभाषा आसीत्।

2 शिक्षिता: जना: तया भाषया वदन्ति स्म।

3 अशिक्षिता: जना: यद्यपि तया सम्भाषणे असमर्था: अथवा अकुशला: तथापि श्रवणे अर्थावबोधे ते अवश्यं क्षमा: आसन्।

= संस्कृताभ्युद्धारणम् =
"https://sa.wikipedia.org/wiki/संस्कृतम्" इत्यस्माद् प्रतिप्राप्तम्