"विकिपीडिया:छत्रपति शिवाजि महाराज" इत्यस्य संस्करणे भेदः

शीघ्र हटाने का नामांकन (शीह व5)। (TW)
No edit summary
पङ्क्तिः १:
== प्रबन्धः ==
{{शीह-खाली}}
 
=== पीठिका ===
 
प्रकृष्टो बन्धः प्रबन्धः इत्युच्यते । निबन्धः इति अस्य नामान्तरम् । नातिविस्तृतः नातिसंक्षिप्तरूपों प्रबन्धः लघुप्रबन्धः इति कथ्यते। प्रबन्धे सरलानि वाक्यानि अपेक्षितानिा । मुख्यतया प्रबन्धाः वर्णनात्मकाः, विचारात्मकाः, आख्यानात्मकाः, व्याख्यात्मकाः चेति चतुर्धा विभक्ताः। आभाणकादिभिः प्रबन्धाः आकर्षकाः भवन्ति । एतान् सर्वान् अंशान् मनसि निधाय छात्रैः प्रबन्धः रचनीयाः ।प्रबन्धे प्रस्तावना, विषयनिरूपणम्, उपसंहार शो चेति निरूपणक्रमः अपेक्षितः। प्रस्तावनायां प्रबन्धविषयस्य उपक्रमः, विषयानिरूपणभागे विषयस्य विस्तारः, उपसंहारभागे प्रबन्धविषयस्य सारांश: च भवेत् । प्रबन्धे वाक्यानां परस्परसम्बन्धः आवश्यकः । उदाहरणार्थम् अत्र केचन प्रबन्धाः प्रदत्ताः ।
 
=== परिस: ===
 
अस्मान् परितः यानि पञ्चमहाभूतानि सन्ति तेषां समन्वयः एव परिसरशब्देन सूच्यते । अस्माकं जीवननिर्वहणे परिसरस्य अतीव आवश्यकता अस्ति। नगरीकरणस्य, उद्यमीकरणस्य, जनसंख्यास्फोटस्य च परिणामतः परिसरः दूषितः अस्ति । परिसरमालिन्यानि त्रिविधानि । वायुमालिन्यं जलमालिन्यं, शब्दमालिन्यं च।
 
==== वायुमालिन्यं ====
बृहद्यन्त्रागारेभ्यः सर्वदा निस्सरद्भ्यः कलुषितविषानिलेभ्यः सर्वदा सञ्चरद्भ्यः शतशोऽथसहस्रशः वाहनानां धूमेभ्यः अपि वायु: प्रदूषितः ।
 
====जलमालिन्यम् ====
यन्त्रागारेभ्यः निष्कास्यमानानि रासायनिक वस्तुयुक्तानि दूषितजलानि,स्नानशौचालयानां मलिनजलानि च नलिकाभिः नदी प्रति प्रेषयन्ति। एतेन जलमालिन्यं भवति । शब्दमालिन्यम् - यन्त्रागाराणां कर्कशशब्दैः
ध्वनिवर्धकानां, विविधकार्याणां, वाहनानां च शब्दैः नित्यं प्रदूषण वर्धते एव ।
 
एवं परिसरप्रदूषणेन नानाविधाः रोगाः समुद्भवन्ति। प्रदुष्टेन परिसरेण न केवलं मानवाः अपि तु पशवः, पक्षिणः, कीटा: जलचराश्च महतीं हानिम् अनुभवन्ति। एतस्य प्रतिक्रिया अधुना अवश्यं परिसरसंरक्षणार्थम् आवश्यककर्माणि कुर्युः ।
विधातव्या । एतदर्थं सर्वेजनाः जागरिताः भवेयुः। प्रशासनानि उद्योगपतींश्च बोधयेयुः ।