"विकिपीडिया:प्रयोगपृष्ठम्" इत्यस्य संस्करणे भेदः

पृष्ठं रिक्तीकृतम्
अङ्कनम् : रिक्त
दन्वदह:
पङ्क्तिः १:
'''महामहोपाध्याय: प्रा. के. टि. पाण्डुरङ्गीमहोदया:'''
 
कृष्णामाचार्य तम्मणाचार्य पाण्डुरङ्गिमहोदया:फ़िब्रवरिमासस्य प्रथमदिनाङ्के (१९१८) अष्टाद्शोत्तर एकोवींशतिशततमे वर्षे (०१-०२-१९१८) कर्नाटकप्रदेशस्य धारवाडनगरे विद्वत्कुटूम्बे श्री तम्मणाचार्य श्रीमति लक्ष्मीबायि दम्पत्यो: अजायन्त। दारीध्र्यकारणात सप्तमकक्ष्यापर्यन्तमेव पठितुं शक्ता अभवन् तदधिकं पठितुम अशक्ता: च । अनन्तरं धारवाडनगरस्थितायां शङ्कराचयि पाठशालायां तेषाम् अध्ययनम् अभवत् । तेषाम् उन्नतध्ययनम् अपि पाठशालायाम् एव जातम् । धारवाडनगरत:- साङ्गलीपाठशालां तत: मैसूरूनगरस्थितायां पाठशालायां (१९३६) षट्त्रिंशदधिक एकोवींशतितमे वर्षे अष्टादशवयसि एव चतुर्षु वर्षेषु न्यायशास्त्र- वेदान्तशास्त्रे च अध्ययनम अकुर्वन्। मैसूरूनगरस्थिते महाराजा संस्कृतमहाविद्यालये धारापुरं कृष्णमूर्ति आचार्येभ्य: न्यायशास्त्रम् अधीतवन्त:। तस्मिन् एव समये गृहं गत्वा तेषां सकाशे एव वेदान्तशास्त्रमपि। एवमेव काशी प्रणेशाचार्य, चतुर्वेदी रामचन्द्राचार्य, दोडडबल्लपुर वासुदेवाचार्य, नेरूरू कृष्णमाचार्य अडीकोप्पं सुब्रह्म्ण्यशास्त्री, चेन्नकेशवशास्त्री अन्येषां च सकाशे शास्त्राध्ययनं कृतवन्त:। (१९४०) चत्वारिंशदाधिक-एकोनावींशतितमे वर्षे द्वाविंशे वयसि भारतीय तत्त्वशास्त्रविभागे अन्नमलै विश्वविद्यालये मैसूरूनगरस्थे महाराज महाविद्यालये प्रवेशं लब्ध्वा प्रथितविदुषं डा बि. एन्. के . शर्मा एवम् अन्येषां विदुषा सकाशे पूर्वमीमांसाशासत्ते अभ्यासं कृतवन्त:। वाराणसी हिन्दू विश्वविद्यालये कलाविभागे पदवीं स्नातकोत्तरपदवीं च समापितवन्त:।
 
'''तेषां वृत्तिजीवनम्''' - एते महाभागा: धारवाडनगरस्थे कर्नाटकमहाविद्यालये द्वादश वर्षाणी प्राचार्यरूपेण, बेङ्गलूरूनगरे षड्वर्षाणि तदनन्तरं बेङ्गलूरूविश्वविद्यालये स्नातकोत्तरसंस्कृतविभागे च कार्यं कृतवन्त:। एते महाशया: राष्ट्रीयसंस्कृतसंस्थाने केन्द्रीय संस्कृत परिषद् इत्यत्र च सदस्यरूपेण कार्यं निरवहन्। बेङ्गलूरू नगरस्थे मिथिक् सोसैटि इत्यत्र अध्यक्षरूपेण पूर्णप्रज्ञविद्यापीठे द्वादशवर्षाणी यावन्ति कुलपतिरूपेण , द्वैतवेदान्त परिषदि गोरवनिदैशकरूपेण च नैकसंस्थासु कार्यं निरवहन। जर्मन् , आस्ट्रिया, इङ्गलाण्ड्, अमेरिका इत्यादिषु विदेशेषु अप्पि पूर्वमीमांसा वेदान्तादीनि शास्त्राणि अधिकृत्य अनेकान् उपन्यासान दत्तवन्त:। एते विदेशीय शोधछात्रेभ्य: प्रकरणपञ्चिका, रामायणम, उन्नररामचरितम्, पञ्चपादिका, पाणिनिसूत्रणि विष्णुतत्तवनिर्णय:, कर्मनिर्णय: द्वैतवेदान्तग्रन्थान् अधिकृत्य मार्गदर्शनं कृतवन्त: ।
 
'''पुरस्कारा:-''' (१९८९) नवाशीत्यधिकएकोन वींशतिशततमे वर्षे भारतसर्वकारेण राष्ट्रपति पुरस्कारेण् पुरस्कृता:। (१९९७) सप्तनवत्यधिक एकोनविंशतिशत तमे वर्षे तिरुपतिस्थ राष्ट्रीयसंस्कृत विद्यापीठद्वारा महामहोपाध्याय पुरस्कारेण पुरस्कृता: । (२००७) सप्ताधिकद्विसहस्रतमे वर्षे कर्नाटक राज्यसर्वकारण राज्योत्सव प्रशस्ति भाज: अभवन् । (२०१५) पञ्चदशाधिक द्विसहस्रतमे वर्षे "व्यासज्योति " पुरस्कारेण पुरस्कृता: । स्विये शततमे वयसि एप्रिल् मासस्य द्वाविंशाति दिनाङ्के (२०१७) सप्तदशोत्तर द्विसहस्रतमे वर्ष हरे: सायुज्यं प्राप्ता:।
"https://sa.wikipedia.org/wiki/विकिपीडिया:प्रयोगपृष्ठम्" इत्यस्माद् प्रतिप्राप्तम्