"विकिपीडिया:प्रयोगपृष्ठम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३:
 
'''गुशब्दस्वन्धकारस्स्यात् रुशष्दस्तन्निरोधकः|'''
 
'''अन्धकारनिरोधित्वात् गुरुरित्यभिधीयते||'''
 
पुरा छात्राः गुरुकुले उषित्वा वेदाध्ययनं कुर्वन्ति स्म| गुरुशुश्रूषां कुर्वन्ति विद्यार्जनं प्राप्नुवन्ति स्म| सेवयातुष्टः गुरुः पुत्रवत् शिष्यान् पालयति पाठयति स्म| शिष्याः मनसि एवं सङकल्पयन्ति यत् किमपि गुरवे दातव्यम् इति भक्त्या पृच्छन्ति स्म| दक्षिणारुपेण यत् किमपि दातव्यं इति सदा चिन्तयन्ति स्म| यदा द्रोणाचार्यः एकलव्यसमीपमागत्य यदि मे शिष्योsसि तर्हि गुरुदक्षिणां देहि इति अब्रवीत| तदा एकलव्यः किम् प्रदास्यामि आज्ञापयतु आचार्य न हि किञ्चित् गुरवे अदेयं | इति अवदत्| गुरोः इच्छानुसारेण दक्षिणमङगुष्ठं उत्कृत्य सन्तोषेण दत्तवान्|
 
आधुनिकावसरे शिब्याः गुरुसेवारूपेण गुरवे फलानि, वस्त्राणि, वित्तं च अर्पयन्ति अतः गुरुदक्षिणाविषये इदं श्लोकम् प्रसिध्दम् अस्ति|
 
एकमेवासरं यस्तु गुरुः शिष्यं प्रबोधयेत्|
पृयिव्यां नास्ति तद्द्रव्यं यद्द्त्वा चानृणी भवेत्|
 
कालिदास रघुवंश महाकाव्ये गुरुशिष्यकयां वर्जयति| कौत्सः नामः शिष्यः वरतन्तु नाम गुरोः समीपे चातुर्दशविद्यां अधीतवान्| छात्रः गुरुकुले वसन् गुरुशुश्रूषया विद्यार्जनं कृतवान्| अध्ययनानन्तरं छात्रः गुरुम् मया दक्षिणा दातन्या कियत् इति पृष्टवान्| गुरुः शुश्रूषया अलम्| न किमपि कामये इति वहुवारं छात्रेण गुरुः पृष्टः| कुपितः गुरुः चतुर्दशकोटिरुप्यकाणि प्रयच्छ इति अवदत् | छात्रः कौत्सः दरिद्रः आसीत्| रघुराजम् एत्य गुरवे मया कोटिरुप्यकाणि दातव्यं इति अवदत्| रघुमहाराजः विध्वजित् यागं कृत्वा दरिद्रः बभूव| तथापि कुबेरेण सह युध्दं कृत्वा दास्यामि गुरुदक्षिणां मा गच्छ अत्रैव वस इति राजा शिब्यं अवदत्| कुबेरसमीपम् गमनात् पूर्वं कुबेरः सुवर्णवृष्टिं चकार| तदा राजा सर्वं धनं गुरवे प्रादातुं कौत्साय दत्तवान्| गुरुदक्षिणां दत्वा पुण्यं सम्पादयितुम् राजा इयेष| अनेन राजा आत्मानम् धन्यम् इति अमन्यन|
"https://sa.wikipedia.org/wiki/विकिपीडिया:प्रयोगपृष्ठम्" इत्यस्माद् प्रतिप्राप्तम्