"तेलङ्गाणाराज्यम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
पङ्क्तिः ११८:
===नागार्जुनसागर===
नागार्जुनसागर-नगरं तेलङ्गाना-राज्यस्य नलगोण्डा-मण्डले स्थितं किञ्चन नगरम् अस्ति । स्थलमिदं दक्षिणभारतस्य लोकप्रियं पर्यटनस्थलत्वेन स्थितम् अस्ति । पुरा इदं नगरं “विजयपुरी” इति नाम्ना ज्ञायते स्म । बौद्धधर्मस्य प्रचारकस्य नागार्जुनस्य नाम्ना अस्य नगरस्य नामकरणं कृतम् आसीत् । तस्मिन् समये दक्षिणभारते बौद्धधर्मस्य प्रभुत्वम् आसीत् । अस्मिन् नगरे बौद्धधर्मस्य अवशेषाः प्राप्ताः । ते अवशेषाः भगवतः बुद्धस्य जीवनसम्बद्धाः सन्ति । अनेन कारणेन इदं स्थलम् पर्यटनस्थलत्वेन प्रसिद्धं जातम् । “नागार्जुनसागर-जलबन्धः”, इथिपोथल-जलप्रपातः, नागार्जुनकोण्डा इत्यादीनि अस्य नगरस्य समीपस्थानि पर्यटनस्थलानि सन्ति । अस्य नगरस्य जलवायुः उष्णकटिबन्धीयः अस्ति । अतः ग्रीष्मर्तौ अत्यधिकम् औष्ण्यं भवति । शीतर्तौ अस्य नगरस्य वातावरणं शान्तं भवति । अतः जनाः तस्मिन् काले भ्रमणार्थं तत्र गच्छन्ति । नागार्जुनसागर-नगरं ९ क्रमाङ्कस्य, ५६५ क्रमाङ्कस्य च राष्ट्रियराजमार्गे स्थितम् अस्ति । इमौ राष्ट्रियराजमार्गौ नागार्जुनसागर-नगरं भारतस्य प्रमुखनगरैः सह सञ्योजयति । तेलङ्गाना-राज्यस्य सर्वकारेण बसयानानि प्रचालितानि सन्ति । इदं नगरं भूमार्गेण चेन्नै-नगरेण, हैदराबाद-नगरेण, विजयवाडा-नगरेण, विशाखापट्टनम-नगरेण च सह सम्बद्धम् अस्ति । नागार्जुनसागर-नगरे रेलस्थानकं नास्ति । गुण्टूर-नगरस्य रेलस्थानकं नागार्जुनसागर-नगरस्य समीपस्थं रेलस्थानकम् अस्ति । गुण्टूर-रेलस्थानकं भारतस्य प्रमुखनगरैः सह सम्बद्धम् अस्ति । इदं रेलस्थानकं नागार्जुनसागर-नगरात् १३५ किलोमीटरमिते दूरे स्थितम् अस्ति । अस्मात् रेलस्थानकात् चेन्नै-नगराय, हैदराबाद-नगराय, मुम्बई-नगराय, देहली-नगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः रेलयानानि प्राप्यन्ते । गुण्टूर-नगरात् बसयानैः, भाटकयानैः वा नागार्जुनसागर-नगरं प्राप्यते । अस्मिन्नगरे विमानस्थानकं नास्ति । हैदराबाद-नगरस्य राजीवगान्धी-विमानस्थानकं नागार्जुनसागर-नगरस्य समीपस्थं विमानस्थानकम् अस्ति । इदम् अन्ताराष्ट्रियविमानस्थानकम् अस्ति । अतः विदेशस्य विभिन्ननगरेभ्यः अपि वायुयानानि प्राप्यन्ते । नागार्जुनसागर-नगरात् इदं विमानस्थानकम् १३५ किलोमीटरमिते दूरे स्थितम् अस्ति । अस्मात् विमानस्थानकात् बसयानैः, भाटकयानैः वा नागार्जुनसागर-नगरं गन्तुं शक्यते । अनेन प्रकारेण नागार्जुनसागर-नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च सह श्रेष्ठतया सम्बद्धम् अस्ति । अतः जनाः सरलतया नागार्जुन-नगरं प्राप्नुवन्ति ।
 
===भद्राचलम===
भद्राचलम-नगरं भारतस्य तेलङ्गाना-राज्यस्य खम्मम-मण्डले स्थितम् अस्ति । इदं नगरं गोदावरी-नद्याः तटे स्थितम् अस्ति । नगरमिदं सम्पूर्णे भारते प्रसिद्धम् अस्ति । यतः भद्राचल-नगरं भगवतः रामस्य सीतायाः च निवासस्थलत्वेन ज्ञायते । नगरमिदं हिन्दुधर्मस्य महत्त्वपूर्णं तीर्थस्थलं वर्तते । भद्रपर्वतस्य नाम्ना अस्य नाम “भद्राचलम” इत्यभवत् । भद्रापर्वतः मेरु-मेनकयोः पुत्रः आसीत् । प्राचीना मान्यता अस्ति यत् – “इदं क्षेत्रं कस्यचिद् वनस्य भागः अस्ति” । कथ्यते यत् – “सीतारामलक्ष्मणाः अस्मिन् वने निवसन्ति स्म । अस्मिन् स्थले बहूनि वीक्षणीयस्थलानि सन्ति । “जटायू पक्का”, “पर्णशाला”, “दुम्मुगूडे”, “गुण्डाला” च इत्यादीनि अस्य स्थलस्य पर्यटनस्थलानि सन्ति । “सीतारामचन्द्रस्वामिमन्दिरं”, “भद्राचलाराममन्दिरं” च अस्य स्थलस्य प्रसिद्धे मन्दिरे स्तः । अक्टूबर-मासतः फरवरी-मासपर्यन्तम् अस्य स्थलस्य वातावरणं सानुकूलं भवति । अस्मिन् समये अस्य स्थलस्य तापमानं सामान्यं भवति । भद्राचलम-नगरं २२१ क्रमाङ्कस्य राष्ट्रियराजमार्गे स्थितम् अस्ति । अयं राष्ट्रियराजमार्गः भद्राचलम-नगरं तेलङ्गानाराज्यस्य विभिन्ननगरैः सह सञ्योजयति । भद्राचलम-नगरात् खम्मम-नगरं ११५ किलोमीटरमिते दूरे स्थितम् अस्ति । नगरमिदं हैदराबाद-नगरेण सह सम्बद्धम् अस्ति । तेलङ्गाना-राज्यस्य सर्वकारेण यात्रिकाणां सौकर्याय बसयानानि प्रचालितानि सन्ति । अतः जनाः तैः बसयानैः भद्राचलम-नगरस्य समीपस्थानि धार्मिकस्थलानि प्राप्नुवन्ति । अस्मिन् नगरे रेलस्थानकं नास्ति कोतागुडेम-नगरे भद्राचलम-नगरस्य समीपस्थं रेलस्थानकम् अस्ति । अस्य रेलस्थानकस्य नाम “भद्राचलम रोड” इति अस्ति । इदं रेलस्थानकं भारतस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति । अस्मात् रेलस्थानकात् बसयानैः, भाटकयानैः वा भद्राचलम-नगरं प्राप्यते । अस्मिन् नगरे विमानस्थानकं नास्ति । राजामुद्री-विमानस्थानकम् अस्य नगरस्य निकटतमं विमानस्थानकम् अस्ति । हैदराबाद-नगरस्य अन्ताराष्ट्रियविमानस्थानकम् अस्मात् नगरात् ३०० किलोमीटरमिते दूरे स्थितम् अस्ति । ततः भारतस्य, विदेशस्य प्रमुखनगरेभ्यः वायुयानानि प्राप्यन्ते । अनेन प्रकारेण भद्राचलम-नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च श्रेष्ठतया सम्बद्धम् अस्ति । अतः जनाः सरतलतया भद्राचलम-नगरं गन्तुं शक्नुवन्ति ।
 
===खम्मम===
"https://sa.wikipedia.org/wiki/तेलङ्गाणाराज्यम्" इत्यस्माद् प्रतिप्राप्तम्