"तेलङ्गाणाराज्यम्" इत्यस्य संस्करणे भेदः

No edit summary
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
पङ्क्तिः ११९:
नागार्जुनसागर-नगरं तेलङ्गाना-राज्यस्य नलगोण्डा-मण्डले स्थितं किञ्चन नगरम् अस्ति । स्थलमिदं दक्षिणभारतस्य लोकप्रियं पर्यटनस्थलत्वेन स्थितम् अस्ति । पुरा इदं नगरं “विजयपुरी” इति नाम्ना ज्ञायते स्म । बौद्धधर्मस्य प्रचारकस्य नागार्जुनस्य नाम्ना अस्य नगरस्य नामकरणं कृतम् आसीत् । तस्मिन् समये दक्षिणभारते बौद्धधर्मस्य प्रभुत्वम् आसीत् । अस्मिन् नगरे बौद्धधर्मस्य अवशेषाः प्राप्ताः । ते अवशेषाः भगवतः बुद्धस्य जीवनसम्बद्धाः सन्ति । अनेन कारणेन इदं स्थलम् पर्यटनस्थलत्वेन प्रसिद्धं जातम् । “नागार्जुनसागर-जलबन्धः”, इथिपोथल-जलप्रपातः, नागार्जुनकोण्डा इत्यादीनि अस्य नगरस्य समीपस्थानि पर्यटनस्थलानि सन्ति । अस्य नगरस्य जलवायुः उष्णकटिबन्धीयः अस्ति । अतः ग्रीष्मर्तौ अत्यधिकम् औष्ण्यं भवति । शीतर्तौ अस्य नगरस्य वातावरणं शान्तं भवति । अतः जनाः तस्मिन् काले भ्रमणार्थं तत्र गच्छन्ति । नागार्जुनसागर-नगरं ९ क्रमाङ्कस्य, ५६५ क्रमाङ्कस्य च राष्ट्रियराजमार्गे स्थितम् अस्ति । इमौ राष्ट्रियराजमार्गौ नागार्जुनसागर-नगरं भारतस्य प्रमुखनगरैः सह सञ्योजयति । तेलङ्गाना-राज्यस्य सर्वकारेण बसयानानि प्रचालितानि सन्ति । इदं नगरं भूमार्गेण चेन्नै-नगरेण, हैदराबाद-नगरेण, विजयवाडा-नगरेण, विशाखापट्टनम-नगरेण च सह सम्बद्धम् अस्ति । नागार्जुनसागर-नगरे रेलस्थानकं नास्ति । गुण्टूर-नगरस्य रेलस्थानकं नागार्जुनसागर-नगरस्य समीपस्थं रेलस्थानकम् अस्ति । गुण्टूर-रेलस्थानकं भारतस्य प्रमुखनगरैः सह सम्बद्धम् अस्ति । इदं रेलस्थानकं नागार्जुनसागर-नगरात् १३५ किलोमीटरमिते दूरे स्थितम् अस्ति । अस्मात् रेलस्थानकात् चेन्नै-नगराय, हैदराबाद-नगराय, मुम्बई-नगराय, देहली-नगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः रेलयानानि प्राप्यन्ते । गुण्टूर-नगरात् बसयानैः, भाटकयानैः वा नागार्जुनसागर-नगरं प्राप्यते । अस्मिन्नगरे विमानस्थानकं नास्ति । हैदराबाद-नगरस्य राजीवगान्धी-विमानस्थानकं नागार्जुनसागर-नगरस्य समीपस्थं विमानस्थानकम् अस्ति । इदम् अन्ताराष्ट्रियविमानस्थानकम् अस्ति । अतः विदेशस्य विभिन्ननगरेभ्यः अपि वायुयानानि प्राप्यन्ते । नागार्जुनसागर-नगरात् इदं विमानस्थानकम् १३५ किलोमीटरमिते दूरे स्थितम् अस्ति । अस्मात् विमानस्थानकात् बसयानैः, भाटकयानैः वा नागार्जुनसागर-नगरं गन्तुं शक्यते । अनेन प्रकारेण नागार्जुनसागर-नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च सह श्रेष्ठतया सम्बद्धम् अस्ति । अतः जनाः सरलतया नागार्जुन-नगरं प्राप्नुवन्ति ।
 
=
===खम्मम===
खम्मम-नगरं तेलङ्गाना-राज्यस्य खम्मम-मण्डलस्य मुख्यालयः अस्ति । कथ्यते यत् – “पुरा सिंहाचलममन्दिरं स्थितम् अस्ति । तस्य अपरं नाम स्तम्भशिखरी, स्तम्भाद्री वा आसीत् । अस्मिन् मन्दिरे भगवतः नृसिंहस्य प्रतिमा आसीत् । इदं मन्दिरं त्रेतायुगीनम् अस्ति । मन्दिरमिदम् एकस्मिन् पर्वतशिखरे स्थितम् अस्ति । मन्दिरस्य अधः एका शिला वर्तते । सा शिला स्तम्भत्वेन स्थिता अस्ति । अतः एव इदं स्थलं “खम्मम” नाम्ना ख्यातम् अस्ति । अस्य नगरस्य समीपस्थेषु “खम्बा मेट्टु” इति नाम्ना ज्ञायते । समयान्ते इदं नाम अपभ्रंशत्वात् “खम्मम्मेट” इत्यभवत् । पुनश्च समयान्तरे “खम्मम” इति अस्य नगरस्य नाम अभवत् । नगरमिदं मुन्नेरु-नद्याः तटे स्थितम् अस्ति । इयं नदी कृष्णा-नद्याः उपनदी अस्ति । इदं नगरं तेलङ्गाना-राज्यस्य ऐतिहासिकं स्थलम् अस्ति । अस्मिन् नगरे एकः दुर्गः अपि विद्यते । अस्य दुर्गस्य वास्तुकला अपि विशिष्टा वर्तते । प्राचीनकाले इदं नगरं व्यावसायिककेन्द्रत्वेन स्थितम् आसीत् । अस्मिन् नगरे बहुभिः शासकैः शासनं कृतम् आसीत् । अस्य नगरस्य साम्प्रदायिकम् ऐक्यम् उत्तमम् अस्ति । अस्य नगरस्य संस्कृतिः, जनाः अपि विविधाः सन्ति । अस्मिन् नगरे बहूनि वीक्षणीयस्थलानि सन्ति । जमालपुरम-मन्दिरं, खम्माम लक्ष्मी नृसिंह मन्दिरं, खम्मामदुर्गः च अस्य नगरस्य वीक्षणीयस्थलानि सन्ति । पालार-तडागः, वायार-तडागः, पापी कौण्डलु-पर्वतशिखरं च अपि अस्य नगरस्य पर्यटनस्थलानि सन्ति । शीतर्तौ अस्य नगरस्य वातावरणं श्रेष्ठं भवति । वातावरणम् अपि सुखदं, शान्तं च भवति । अस्य नगरस्य जलवायुः उष्णकटिबन्धीयः भवति । अतः ग्रीष्मर्तौ अस्य नगरस्य वातावरणम् अत्यधिकम् उष्णं भवति । अतः जनाः शीतर्तौ खम्मम-नगरं गच्छन्ति । खम्मम-नगरं ५ क्रमाङ्कस्य, ७ क्रमाङ्कस्य च राष्ट्रियराजमार्गे स्थितम् अस्ति । इमौ राष्ट्रियराजमार्गौ खम्मम-नगरं तेलङ्गाना-राज्यस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति । हैदराबाद-नगरं, विजयवाडा-नगरं, विशाखापत्तनम-नगरं च खम्मम-नगरेण सह सम्बद्धमस्ति । तेलङ्गाना-राज्यस्य सर्वकारेण बसयानानि अपि प्रचालितानि सन्ति । अतः बसयानैः खम्मम-नगरस्य समीपस्थानि पर्यटनस्थलानि गन्तुं शक्यन्ते । अस्मिन् नगरे एकं रेलस्थानकम् अस्ति । इदं रेलस्थानकं हैदराबाद-विजयवाडा-रेलमार्गे स्थितम् अस्ति । खम्मम-नगरात् वारङ्गल-नगराय, विशाखापट्टनम-नगराय, विजयवाडा-नगराय, चेन्नै-नगराय, देहली-नगराय, मुम्बई-नगराय, बेङगळूरु-नगराय इत्यादिभ्यः भारतस्य विभिन्ननगरेभ्यः रेलयानानि प्राप्यन्ते । खम्मम-नगरे विमानस्थानकं नास्ति । गन्नवरम-नगरस्य विमानस्थानकं खम्मम-नगरस्य निकटतमं विमानस्थानकम् अस्ति । हैदराबाद-नगरस्य अन्ताराष्ट्रियविमानस्थानकं खम्माम-नगरात् २९८ किलोमीटरमिते दूरे स्थितम् अस्ति । ततः भारतस्य, विदेशस्य च प्रमुखनगरेभ्यः वायुयानानि प्राप्यन्ते । अनेन प्रकारेण खम्मम-नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च श्रेष्ठतया सम्बद्धम् अस्ति । अतः जनाः सरतलतया खम्मम-नगरं गन्तुं शक्नुवन्ति ।
 
===निजामाबाद===
"https://sa.wikipedia.org/wiki/तेलङ्गाणाराज्यम्" इत्यस्माद् प्रतिप्राप्तम्