"तेलङ्गाणाराज्यम्" इत्यस्य संस्करणे भेदः

पङ्क्तिः १०३:
[[सातवाहनराजवंशः]] (क्रैस्तपूर्वं २३० अब्दः - २२० क्रैस्ताब्दः) अस्य प्रदेशस्य प्रधानशक्तिरासीत् । अस्य राजवंशस्य उत्पत्तिः आसीत् गोदावरी-कृष्णा नद्योः मध्यवर्तिभूभागे ।<ref>{{cite book|title=The Rough Guide to India|publisher=Penguin|year=2011|at=Rise of the south section}}</ref> सातवाहनसाम्राज्यस्य अनन्तरं वाकाटक्, विष्णुकुण्डिना, चालुक्य, राष्ट्रकूट प्रभृतयः राजवंशाः अत्र शासनं कृतवन्तः ।<ref name=brief>{{cite news|title=A brief history of Telangana and Andhra Pradesh|publisher=DNA|date=4 March 2014|url=http://www.dnaindia.com/analysis/standpoint-a-brief-history-of-telangana-and-andhra-pradesh-1966737|accessdate=2 June 2014|author=Ratnakar Sadasyula}}</ref><h2>वीक्षणीयस्थलानि</h2><p>तेलङ्गाना-राज्यस्य पर्यटनस्थालानि जनान् आकर्षन्ति । अस्मिन् राज्ये बहूनि वीक्षणीयस्थलानि सन्ति । हैदराबाद-नगरस्य “चार मीनार”, “थए पापी हिल्”, कुन्तला-जलप्रपातः इत्यादीनि आकर्षणकेन्द्राणि सन्ति । राज्येऽस्मिन् मन्दिराणि अपि बहूनि सन्ति । “भद्राचलम”, “सहस्त्रस्तम्भानां मन्दिरं”, “श्री राजा राजेश्वरा स्वामी मन्दिरम्” इत्यादीनि प्रमुखाणि मन्दिराणि सन्ति । आवर्षं बहवः पर्यटकाः भ्रमणार्थं तेलङ्गाना-राज्यं गच्छन्ति ।</p>
===हैदराबाद===
हैदराबाद-नगरं तेलङ्गाना-राज्यस्य हैदराबाद-मण्डलस्य मुख्यालयः अस्ति । अस्य नगरस्य राजधानी अपि हैदराबाद-नगरम् एव अस्ति । इदं स्थलं सम्पूर्णे भारते विश्वस्मिन् च बहुचर्चितम् अस्ति । नगरमिदं मूसी-नद्याः तटे स्थितम् अस्ति । ई. स. १५९१ तमे वर्षे “मोहम्मद कुली कुतुब शाह” इत्याख्येन कुतुबशाही-वंशस्य शासकेन अस्य नगरस्य स्थापना कृता । भागमती-इत्याख्या एक नर्तकी आसीत् । राजा अस्यां नर्तक्यां स्निहति स्म । अतः राज्ञा “भागमती” इत्यस्याः नाम्ना अस्य नगरस्य नाम भाग्यनगरम् इति कृतम् आसीत् । यदा भागमत्या इस्लामधर्मः आचरितः, तदा राज्ञा तया सह विवाहः कृतः । तदनन्तरं भागमत्याः नामान्तरणं “हैदर महल” इत्यभवत् । अनेन कारणेन अस्य नगरस्य नाम “हैदराबाद” इति कृतम् । कुतुबशाह-वंशजैः हैदराबाद-नगरे शतवर्षाणि यावत् शासनं कृतम् आसीत् । यदा “औरङ्गजेब” इत्याख्येन मुगल-शासकेन भारतस्य दक्षिणभागे आक्रमणं कृतं, तदा हैदराबाद-नगरे आधिपत्यं स्थापितम् । ई. स. १७२४ तमे वर्षे “आसिफ जाह प्रथम” इत्याख्येन जाहीवंशः स्थापितः । आसिफ-राजा हैदराबाद-नगरस्य निजाम-रूपेण स्थितः जातः । अनन्तरं हैदराबाद-नगरे, हैदराबाद-नगरस्य समीपस्थेषु स्थलेषु च स्वस्य आधिपत्यं स्थापितम् आसीत् । निजाम-शासकैः हैदराबाद-नगरे २०० वर्षाणि यावत् शासनं कृतम् आसीत् । ई. स. १७६९ तः १९४८ पर्यन्तम् इदं नगरं निजाम-शासकानां राजधानी आसीत् । निजाम-शासकैः आङ्ग्लैः सह सन्धिः कृतः । तेन कारणेन निजाम-शासकैः १९४८ पर्यन्तं शासनं कृतम् आसीत् । स्वतन्त्रताप्राप्त्यनन्तरम् “ऑपरेशन पोलो” इत्यस्यां योजनायां निजाम-शासकेन भारतीय-सङ्घेन सह सन्धिः कृतः । तस्मिन् समये हैदराबाद-नगरम् आन्ध्रप्रदेश-राज्यस्य राजधानी अभवत् । हैदराबाद-नगरस्य संस्कृतिः अपि विशिष्टा वर्तते । अस्मिन् नगरे संस्कृतिद्वयस्य मिश्रणम् अस्ति । यतः इदं नगरम् उत्तर-दक्षिणभारतयोः सीमायां स्थितम् अस्ति । इदं नगरम् आर्थिकदृष्ट्या, शैक्षणिकदृष्ट्या च समृद्धम् अस्ति । अस्मिन् नगरे बहवः यन्त्रागाराः, विश्वविद्यालयाः च सन्ति । भारतस्य विभिन्ननगरेभ्यः जनाः वृत्त्यर्थं हैदराबाद-नगरं गच्छन्ति । अस्य नगरस्य सांस्कृतिकी स्थितिः सुदृढा अस्ति । अतः एव अस्य नगरस्य विकासः जायमानः अस्ति । अस्मिन् नगरे बहूनि वीक्षणीयस्थलानि सन्ति । “चारमीनार”, “गोलकुण्डा-दुर्गः”, “सलार जङ्ग सङ्ग्रहालयः”, “हुसैन-सागर-तडागः” च इत्यादीनि अस्य नगरस्य प्रसिद्धानि पर्यटनस्थलानि सन्ति । हैदराबाद-नगरस्य वातावरणं शीतर्तौ अपि उष्णं भवति । अतः यदा तस्य वातावरणम् अनुकूलं भवेत्, तदा भ्रमणार्थं गन्तव्यम् । आन्ध्रप्रदेश-राज्यस्य भूमार्गपरिवहनं सुदृढम् अस्ति । हैदराबाद-नगरं भूमार्गेण भारतस्य प्रमुखनगरैः सह श्रेष्ठतया सम्बद्धम् अस्ति । नगरमिद, औद्योगिकं, शैक्षणिकं च केन्द्रम् अस्ति । अतः भारतस्य विभिन्नराज्येभ्यः, विदेशस्य विभिन्ननगरेभ्यः च जनाः हैदराबाद-नगरं गच्छन्ति । अस्मिन् नगरे तेलङ्गाना-राज्यस्य सर्वकारेण यात्रिकाणां सौकर्याय बसयानानि प्रचालितानि सन्ति । तैः बसयानैः जनाः हैदराबाद-नगरं, हैदराबाद-नगरस्य समीपस्थानि पर्यटनस्थलानि गन्तुं शक्नुवन्ति । हैदराबाद-नगरे रेलस्थानकम् अस्ति । एतद् रेलस्थानकं भारतस्य विभिन्ननगरैः सम्बद्धम् अस्ति । दक्षिणरेलवे-विभागस्य मुख्यरेलस्थानकेषु इदम् अन्यतमम् अस्ति । हैदराबाद-रेलस्थानकात् बेङ्गळूरु-नगराय, देहली-नगराय, मुम्बई-नगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः रेलयानानि प्राप्यन्ते । अस्मिन् नगरे एकम् अन्ताराष्ट्रियविमानस्थानकम् अपि अस्ति । इदं विमानस्थानकं विदेशस्य, भारतस्य च विभिन्ननगरैः सम्बद्धम् अस्ति । ततः देहली-नगराय, कोलकाता-नगराय, बेङ्घळूरु-नगराय, मुम्बई-नगराय इत्यादिभ्यः भारतस्य विभिन्ननगरेभ्यः वायुयानानि प्राप्यन्ते । अनेन प्रकारेण हैदराबाद-नगरं भूमार्गेण, धूमशकटमार्गेन, वायुमार्गेण च सरलतया प्राप्तुं शक्यते ।<p></p>
 
===नलगोण्डा===
<p>नलगोण्डा-नगरं तेलङ्गाना-राज्यस्य नलगोण्डा-मण्डलस्य मुख्यालयः अस्ति । “नल्ला” “कोण्डा” इत्येताभ्यं तेलुगु-भाषायाः शब्दाभ्यां “नलगोण्डा” इति नाम निर्मितम् । नल्ला अर्थात् नीलवर्णः, “कोण्डा” अर्थात् पर्वतः इति । अतः अपभ्रंशत्वात् नलगोण्डा इत्यभवत् । स्थानीयजनाः साम्प्रतम् अपि नलगोण्डास् इति नाम्ना व्यवहरन्ति । अस्य स्थलस्य नाम साहित्यिककृतिषु अपि दृश्यते । अस्य नगरस्य समीपे बहूनि वीक्षणीयस्थलानि सन्ति । पर्यटनदृष्ट्या नलगोण्डा-नगरम् आन्ध्रप्रदेशस्य महत्त्वपूर्णः भागः मन्यते स्म । किन्तु साम्प्रतम् इदं नगरं तेलङ्गाना-राज्ये स्थितम् अस्ति । “मत्तापल्ली”, “पिल्ललमार्री”, “राजीवपार्क”, “पानीगिरि-बौद्धस्थलं”, “पनागल-मन्दिरं”, “नन्दीकोण्डा”, “लतीफ शेब दरगाह”, “कोल्लनपाकू-जैनमन्दिरं”, “राचाकोण्डा-दुर्गः”, “मेल्लावशेरवू”, “देवेराकोणा-दुर्गः”, “भुवनगिरी-दुर्गः” च इत्यादीनि नलगोण्डा-नगरस्य समीपस्थानि पर्यटनस्थलानि सन्ति । एतानि सर्वाणि वीक्षणीयस्थलानि नलगोण्डा-नगरस्य इतिहासेन सह सम्बद्धानि सन्ति । अस्य नगरस्य जलवायुः उष्नकटिबन्धीयः अस्ति । अतः वर्षर्तौ अस्य नगरस्य भ्रमणं सौख्यकरं, सुखदं च भवति । शीतर्तौ अपि जनाः तत्र गच्छन्ति । नलगोण्डा-नगरं ९ क्रमाङ्कय राष्ट्रियराजमार्गे स्थितम् अस्ति । अयं राष्ट्रियराजमार्गः नलगोण्डा-नगरं हैदराबाद-नगरेण, वारङ्गल-नगरेण, विजयवाडा-नगरेण च सञ्योजयति । तेलङ्गा-राज्यस्य सर्वकारेण पर्यटकानां सौकर्याय बसयानानि अपि प्रचालितानि सन्ति । अतः जनाः बसयानैः सरलतया नलगोण्डा-नगरं प्राप्यते । नलगोण्डा-नगरे एकं रेलस्थानकम् अस्ति । इदं रेलस्थानकं गुण्टूर्-सिकन्दराबाद-रेलमार्गे स्थितम् अस्ति । अस्य मार्गस्य महत्त्वपूर्णं रेलस्थानकम् अस्ति इदम् । नलगोण्डा-रेलस्थानकात् देहली-नगराय, मुम्बई-नगराय, कोलकाता-नगराय, बेङ्गळूरु-नगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः रेलयानानि प्राप्यन्ते । इदं रेलस्थानकं भारतस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति । नलगोण्डा-नगरे विमानस्थानकं नास्ति । हैदराबाद-नगरस्य राजीवगान्धी-अन्ताराष्ट्रियविमानस्थानकं नलगोण्डा-नगरस्य समीपस्थं विमानस्थानकम् अस्ति । नलगोण्डा-नगरात् हैदराबाद-नगरं ११० किलोमीटरमिते दूरे स्थितम् अस्ति । भारतस्य, विदेशस्य च प्रमुखनगरेभ्यः राजीवगान्धी-अन्ताराष्ट्रियविमानस्थानकात् नियमितरूपेण वायुयानानि प्राप्यन्ते । हैदराबाद-नगरात् बसयानैः, भाटकयानैः वा नलगोण्डा-नगरं प्राप्यते । अनेन प्रकारेण भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च नलगोण्डा-नगरं सम्बद्धम् अस्ति । अतः जनाः सरलतया नलगोण्डा-नगरस्य वीक्षणीयस्थलानि प्राप्तुं शक्नुवन्ति ।</p>
===पोचमपैल्ली===
पोचमपैल्ली-नगरं तेलङ्गाना-राज्यस्य नलगोण्डा-मण्डले स्थितम् अस्ति । इदं नगरं जनेषु अत्यन्तं लोकप्रियम् अस्ति । इदं नगरं “भारतस्य कौशेयनगरत्वेन (Silk City of India)” ज्ञायते । यतः अस्मिन् नगरे कौशेयशाटिकानां निर्माणं क्रियते । अस्य नगरस्य कौशेयशाटिकाः सर्वोत्तमाः भवन्ति । वैदेशिकपर्यटकाः अपि शाटिकायाः निर्माणकलां ज्ञातुं प्रयासान् कुर्वन्ति । अस्य नगरस्य संस्कृतिः, परम्परा, इतिहासः, सौन्दर्यं च अपि श्रेष्ठम् अस्ति । अतः जनाः पोचनमैल्ली-नगरं प्रति आकृष्टाः भवन्ति । इदं नगरं परितः पर्वताः, तडागाः, मन्दिराणि च सन्ति । अस्य नगरस्य जनाः सर्वदा व्यस्ताः भवन्ति । तथापि ते पर्यटकानां सोत्साहेन स्वागतं कुर्वन्ति । ई. स. १९५१ तमे वर्षे “विनोबा भावे” इत्याख्येन अस्य नगरस्य भ्रमणं कृतम् । तस्मिन् समये नगरजनैः तस्य भव्यस्वागतं कृतम् आसीत् । तस्मिन् काले “वेद्रे रामचन्द्र रेड्डी” इत्याख्यः भूपतिः आसीत् । तेन अस्मै नगराय २५० एकडमिता भूमिः प्रदत्ता । तावदेव भूदान-आन्दोलनम् आरब्धम् । अतः तेन कारेणन इदं नगरं “भूदान पोचमपैल्ली” इति नाम्ना अपि ज्ञायते । अस्य नगरस्य जलवायुः उष्णकटिबन्धीयः अस्ति । अतः शीतर्तौ, वर्षर्तौ च अस्य नगरस्य वातावरणं सुखदं, शान्तं च भवति । जनाः तस्मिन् काले भ्रमणार्थं पोचमपैल्ली-नगरं गच्छन्ति । पोचमपैल्ली-नगरं १६३ क्रमाङ्कस्य, ९ क्रमाङ्कस्य च राष्ट्रियराजमार्गयोः स्थितम् अस्ति । इमौ मार्गौ पोचमपैल्ली-नगरं हैदराबाद-नगरेण सह सञ्योजयतः । पोचमपैल्ली-नगरात् हैदराबाद-नगरं ४२ किलोमीटरमिते दूरे स्थितम् अस्ति । पोचमपैल्ली-नगरे तेलङ्गाना-राज्यस्य सर्वकारेण बसयानानि प्रचालितानि सन्ति । तैः बसयानैः अस्य नगरस्य समीपस्थानि स्थलानि गन्तु शक्यन्ते । पोचमपैल्ली-नगरे रेलस्थानकं नास्ति । अतः बीबी-नगरस्य रेलस्थानकम् पोचमपैल्ली-नगरस्य समीपस्थं रेलस्थानकम् अस्ति । पोचमपैल्ली-नगरात् बीबी-नगरं १६ किलोमीटरमिते दूरे स्थितम् अस्ति । बीबीनगर-रेलस्थानकं तेलङ्गाना-राज्यस्य प्रमुखनगरैः सह सम्बद्धम् अस्ति । बीबी-नगरात् पर्यटकाः बसयानैः, भाटकयानैः वा पोचमपैल्ली-नगरं प्राप्तुं शक्नुवन्ति । पोचमपैल्ली-नगरे विमानस्थानकम् अपि नास्ति । अतः हैदराबाद-नगरस्य राजीवगान्धी-अन्ताराष्ट्रियविमानस्थानकं पोचमपैल्ली-नगरस्य समीपस्थं विमानस्थानकम् अस्ति । इदं विमानस्थानकं पोचनपैल्ली-नगरात् ५० किलोमीटरमिते दूरे स्थितम् अस्ति । बसयानैः, भाटकयानैः वा तस्मात् विमानस्थानकात् पोचमपैल्ली-नगरं गन्तुं शक्यते । अनेन प्रकारेण भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च पोचमपैल्ली श्रेष्ठतया सम्बद्धम् अस्ति । जनाः सरलतया पोचमपैल्ली-नगरं प्राप्तुं शक्नुवन्ति ।
"https://sa.wikipedia.org/wiki/तेलङ्गाणाराज्यम्" इत्यस्माद् प्रतिप्राप्तम्