"कर्णाटकराज्यम्" इत्यस्य संस्करणे भेदः

{{मुख्यलेखः|
पङ्क्तिः २०१:
 
भवानीशङ्करमन्दिरम्, असार, सिद्धरूधामठः, उन्कल-तडागः, नृपटूँगा बेट्टा, ग्लास् हाऊस् च हुबली-नगरस्य वीक्षणीयस्थलानि सन्ति । नविलतीर्थं, सथोडा, सोगल्ला, मथोडा-जलप्रपाताः, इस्कॉन्-मन्दिरं, स्काइस् पॉइण्ट्, उलाविया च इत्यादीनि हुबली-नगरस्य समीपस्थानि वीक्षणीयस्थलानि सन्ति । अस्य नगरस्य जलवायुः ऊष्णकटिबन्धीयः अस्ति । सः आर्द्रः, शुष्कश्च अस्ति । [[अक्तूबर|अक्टूबर]]<nowiki/>-मासतः [[फरवरी]]<nowiki/>-मासपर्यन्तं जनाः भ्रमणार्थं गच्छन्ति । हुबली-नगरं कर्णाटक-राज्यस्य प्रमुखस्थलैः सह सम्बद्धम् अस्ति । हुबली-नगरे एकं विमानस्थानकम् अपि अस्ति । ततः [[बेङ्गळूरु]]<nowiki/>-महानगराय, [[हैदराबाद्-नगरम्, भारतम्|हैदराबाद]]<nowiki/>-महानगराय, [[मुम्बई]]<nowiki/>-महानगराय च नियमितरूपेण वायुयानानि प्राप्यन्ते ।
===[[मैसूरु|मैसूर]]===
मैसूर-नगरं कर्णाटक-राज्यस्य सांस्कृतिकराजधानी अस्ति । इदं नगरं कर्णाटक-राज्यस्य बृहत्तमेषु नगरेषु द्वितीयम् अस्ति । दक्षिणभारतस्य प्रसिद्धपर्यटनस्थलेषु इदं नगरं वेशभूषायै प्रसिद्धम् अस्ति । तत्रस्थानि सुन्दराणि उद्यानानि, भव्यभवनानि च जनान् आकर्षन्ति । ई स. [[२०१०]] तमे वर्षे “युनियन् अर्बन् डेवलप्मेण्ट् अथॉरिटी” इत्यनया संस्थया सर्वेक्षणं कृतम् । तस्मिन् सर्वेक्षणे ज्ञातं यत् –“मैसूर-नगरं भारत-देशस्य द्वितीयं, कर्णाटक-राज्यस्य प्रथमं च स्वच्छनगरम् अस्ति” इति । मैसूर-नगरं “सेण्डलवुड् सिटी” इत्यपि कथ्यते । अस्मिन् नगरे प्रतिवर्षम् अष्टाङ्गयोगकार्यक्रमः आयोज्यते । अस्मिन् कार्यक्रमे विदेशात् अपि बहवः योगप्रशंसकाः समागच्छन्ति । ई. स. [[१७९१]] तः [[१७९९]] तमवर्षपर्यन्तं मैसूर-नगरे “टीपू सुल्तान”, “हैदरअली” च इत्येतयोः शासनम् आसीत् । ई. स. [[१७९९]] तमे वर्षे टीपू सुल्तान इत्यस्य मृत्योः अनन्तरं मैसूर-नगरं पुनः वुडेयार-राज्यस्य राजधानी अभवत् । “कृष्णराजा वुडेयार चतुर्थ” इत्याख्यस्य शासकस्य शासनकाले अस्मिन् नगरे बृहन्मार्गाणां, भव्यभवनानां, तडागानां च निर्माणम् अभवत् ।
 
नगरेऽस्मिन् प्राचीनमन्दिराणि, सङ्ग्रहालयाः, तडागाः, उद्यानानि च सन्ति । अस्मिन् नगरे नैकाः भव्यप्रासादाः सन्ति । अतः “प्रासादानां नगरम्” इत्यपि कथ्यते । “मैसूर महल”, “अम्बा महल” च मैसूर-नगरस्य प्रसिद्धौ प्रासादौ स्तः । मैसूर-प्राणीसङ्ग्रहालयः, चामुण्डेश्वरीमन्दिरं, महाबलेश्वरमन्दिरं, सेण्ट् फिलोमेना चर्च्, वृन्दावन गार्डन, जगनमोहन महल आर्ट् गैलेरी, ललिता महल, जयलक्ष्मी विलास हवेली, रेलवे म्यूजियम्, करणजी झील, कुक्करहल्ली झील च इत्येतानि मैसूर-नगरस्य वीक्षणीयस्थलानि सन्ति । श्रीरङ्गपट्टनम, नञ्जनगुड, श्रीवानसमुद्री-जलप्रपातः, तलाकाडु मेलकोट, सोमनाथपुरम्, हैलेबिड, बेलूर, बान्दीपुर नेशनल पार्क्, श्रवणबेलगोला, कुर्ग चेत्यादीनि मैसूर-नगरस्य समीपस्थानि पर्यटनस्थलानि सन्ति ।
 
मैसूर-नगरं कर्णाटक-राज्यस्य दक्षिणभागे विराजते । इदं काबिनी-नद्याः मध्ये स्थितम् अस्ति । समुद्रतलात् इदं नगरं ७७० मीटर्मितम् उन्नतम् अस्ति । अतः अस्य नगरस्य जलवायुः सामान्यः एव भवति । मैसूर-नगरं [[बेङ्गळूरु]]<nowiki/>-महानगरात् १४० किलोमीटार्मिते दूरे स्थितम् अस्ति । मैसूर-नगरे एकं विमानस्थानकम् अपि विद्यते । ततः भारतस्य विभिन्ननगरेभ्यः वायुयानानि प्राप्यन्ते ।
===मेङ्गलोर===
“मेङ्गलोर-नगरं कर्णाटक-राज्यस्य प्रवेशद्वारम् अस्ति” इति कथ्यते । इदं नगरम् अरब-सागरस्य तटे स्थितम् अस्ति । मङ्गलादेव्या नाम्ना अस्य नामकरणम् अभवत् । नगरमिदं प्रसिद्धः पोताश्रयः वर्तते । साम्प्रतं मेङ्गलोर-नगरं विभिन्नसंस्कृतीभिः परिपूर्णम् अस्ति । मेङ्गलोर-नगरस्य संस्कृतिः बहुधा वर्तते । यतः विविधनगरेभ्यः विविधसंस्कृतीनां जनाः निवसन्ति । नगरे यक्षगानं, [[कृष्णजन्माष्टमी]], कराडी वेशा नृत्यम्, [[विजयादशमी]] च इत्यादयः सांस्कृतिकोत्सवाः आचर्यन्ते । “कादरी मञ्जूनाथा मन्दिर”, सेण्ट् एलॉयसियस् चैपल्, रोसारियो कैथेड्रल्, जामा मस्जिद् च इत्यादीनि मेङ्गलोर-नगरस्य वीक्षणीयस्थलानि सन्ति । जनाः शीतर्तौ मेङ्गलोर-नगरस्य भ्रमणं कुर्वन्ति । [[दिसम्बर]]<nowiki/>-मासतः [[मार्च]]<nowiki/>-मासपर्यन्तम् अस्य नगरस्य वातावरणम् अनुकूलं भवति ।
"https://sa.wikipedia.org/wiki/कर्णाटकराज्यम्" इत्यस्माद् प्रतिप्राप्तम्