"असम" इत्यस्य संस्करणे भेदः

राज्यम्
पङ्क्तिः १६९:
 
==महानगराणि==
 
===[[गुवाहाटी]]===
 
गुवाहाटी असम-राज्यस्य महानगरं विद्यते । गुवाहाटी-महानगरं विकासशीलनगरेषु अन्यतमं वर्तते । इदं भारतस्य ऐशान्यदिशः “प्रवेशद्वारम्” इति कथ्यते । पुरा इदं नगरं प्राग्ज्योतिषपुरं, दुर्जयः च कथ्यते स्म । नगरमिदं वर्मणां, पालवंशानां च काले कामरूपराज्यस्य राजधानी आसीत् । अस्मिन् नगरे बहूनि मन्दिराणि सन्ति । अतः इदं नगरं देवालयनगरम् इत्यपि कथ्यते । ब्रह्मपुत्रा-नद्याः तटे स्थितम् इदं गुवाहाटी-महानगरम् । नगरस्य अपरे पक्षे शिलाङ्ग-उपत्यका विद्यते । ब्रह्मपुत्रा-नद्याः उत्तरतटे उत्तरगुवाहाटी-नगरं विस्तृत् जातम् । भारतस्य प्रमुखशिक्षणवाणिज्यकेन्द्रेषु अन्यतमम् अस्ति गुवाहाटी-महानगरम् । असम-राज्यस्य राजनैतिककार्याणि गुवाहाटी-नगरे भवन्ति । नगरमिदं क्रीडासांस्कृतिकग्गतिविधीनां केन्द्रम् अस्ति । गुवाहाटी-महानगरे जनाः परिवहनस्य सर्वाणि सौकर्याणि अपि प्राप्यन्ते ।
 
गुवाहाटी-महानगरं, संस्कृतेः, व्यवसायस्य, धार्मिकप्रवृत्तीनां च केन्द्रम् अस्ति । तत्र विविधधर्माणां, क्षेत्राणां च जनाः निवसन्ति । अतः तत्रत्याः संस्कृतयः अपि विविधाः सन्ति । मुघल-शासकैः बहुवारम् असम-राज्ये आक्रमणानि कृतानि आसन् । ते गुवाहाटी-नगरं प्रविष्टाः सन्तः पराजयं प्रापुः । गुवाहाटी-महानगरे अन्ताराष्ट्रियविमानस्थानकं, रेलस्थानकं च वर्तते । गुवाहाटी-महानगरे “इण्डियन् इन्स्टीट्यूट् ऑफ् टेक्नोलॉज (IIT)” इतीयं शैक्षणिकसंस्था स्थिता अस्ति । अतः इदं महानगरं शैक्षणिकस्थित्या दृढं, प्रबलं च वर्तते । “टाटा इन्स्टीट्यूट् ऑफ् सोशल् साइन्स्” इत्यस्याः शैक्षणिकसंस्थायाः शाखा गुवाहाटी-महानगरे अस्ति । सांस्कृतिकदृष्ट्या इदं महानगरं समृद्धमस्ति । नगरेऽस्मिन् बिहू इत्यादयः उत्सवाः उत्साहपूर्वकम् आचर्यन्ते ।
आवर्षं गुवाहाटी-महानगरस्य तापमानं सामान्यम् एव भवति । अस्य महानगरस्य तापमानं ३० डिग्री तः १९ डिग्री पर्यन्तं भवति । गुवाहाटी-महानगरं भारतस्य सर्वैः भागैः सह सलंग्नम् अस्ति । पूर्वोत्तरभारतस्य वृहत्तमं रेलस्थानकम् अस्ति गुवाहाटी-महानगरे । तत्र “गोपीनाथ बोरडोलोई अन्ताराष्ट्रियविमानस्थानकम्” अपि अस्ति । स्थलमार्गेण अपि भारतदेशे सर्वत्र संलग्नम् अस्ति इदं नगरम् ।
 
===[[तेजपुर|तेजपुरम्]]===
"https://sa.wikipedia.org/wiki/असम" इत्यस्माद् प्रतिप्राप्तम्