"विकिपीडिया:प्रयोगपृष्ठम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
गौतमबुद्धः:
 
निखिलेऽपि भूमण्डले प्रसिद्धं महात्मनो बुद्धस्य पावनं नामधेयम् । अयं महापुरुषः मानवान् अहिंसायाः पाठम् अपाठयत् । अयमेव महापुरुषः जनानां दुःखनिवारणाय स्वकीयं राज्यमत्यजत । सोऽयं महापुरुषः कपिलवस्तुनरेशस्य शाक्यवंशीयस्य शुद्धोदनस्य सुपुत्रः आसीत् । अस्य प्रथमं नामधेयं सिद्धार्थ इति आसीत् । बाल्यादेव सिदार्थस्य चित्तं विषयेषु नारमत । पुत्रस्य एतादृशीं विरक्तिं विलोक्य पिता तत् कृते सकलानि सुखसाधनानि समयोजयत् । परं सिद्धार्थस्य चित्तं तेषु मनागपि आसक्तं नाभवत् । अथ कदाचित् आतुरं कदाचि्त् वृद्धम्, अनन्तरं मृतकं ततः संन्यसिनं च विलोक्य तस्य हृदये महदवैराग्यम् अजायत । अतः मानवानां दुःखनिवृत्तये राजकुमारः सिद्धार्थः रात्रौ पियां पन्तीं नवजातं पुत्रं च विहाय गृहात् प्राव्रजत् । ततः स प्रथमं पंचभिः ब्राह्मणैः सह तपः आचरत्, किन्तु तेन त्स्य मनः पूर्णसन्तोषं नाभजत । अनन्तरं सः महता श्रमेण सतताभ्यासेन तपस्यया च एकस्मिन् दिने बोधम् अलभत । ततः प्रभृति स बुद्ध इति प्रसिद्दोऽभवत् । ततः स जनेभ्यः उपादिशत "जगदिदं दुःखमयम्, दुःखस्य मूलं कामना, कामनायाः उन्मूलनम् साध्यम्, एवं दुःखनिवृत्तिः सम्भाव्या" इति । महात्मा बुद्धः एतेषां चतुर्णाम् आर्यसत्यानां प्रचारम् अकरोत् । सः जनानां दुःखनिवारणाय तेषां कल्याणाय च उपादिशत् । इमे तस्य प्रमुखाः उपदेशाः -लौकिकसुखेभ्यः विरक्तो भवेत् । मनसा वाचा कर्मण अहिंसायाः पालनं कुर्यात् । सदा सत्यं वदेत् । क्स्यापि किमपि वस्तु कदापि न चोरयेत् । सर्वान् समदृष्ट्या पश्येत् । सत्कर्म कुर्यात् । सर्वेषु दयामाचरेत् । शरणागतान् रक्षेत् । अधिकं संग्रहं न कुर्यात् । ब्रह्मचर्यं पालयेत् इति ।
'''सिन्धुसंस्कृतिः '''
 
सिन्धुखातसंस्कृतिः एका कांस्यकालसंस्कृतिः आसीत्। एषा संस्कृतिः १९२० तमे वर्षे पुरातत्वज्ञैः आविष्कृता । सा सिन्धु-सरस्वत्योः नदीतीरे अवर्धत। अस्याः विस्तारः २५०० - १९०० वर्षेषु अभवत्। अस्याः जनाः अनेकानि नगराणि संस्थापितवन्तः। तेषु हरप्पापुरी एव प्रथमा । अतः एव सिन्धुखातसंस्कृतिः हरप्पासंस्कृतिः इति ख्याता। सिन्धुसंस्कृतेः नगराणि अत्युत्कृष्टाः आसन्। पथाः वीथयः च विशालाः आसन्। सुन्दराणि गृहाणि इष्टिकाभिः निर्मितानि सन्ति। नगरेषु अनेके नौकाश्रयाः धान्यकूटाः वस्तुगृहाणि स्नानगृहाणि च आसन्। पुर्यः भित्तिभिः रक्षिताः। नगरेषु दुर्गाः अपि अवर्तन्त। तेषु जलनिर्गमः अपि आसीत्। पुरीषु अनेके चित्रकाराः शिलपकाराः कुम्भकाराः वणिजः पुरोहिताः च अवसन्।ते अनेकानि सुन्दराणि शिल्पानि निर्मितवन्तः। ते मुद्राः आभरणानि च अरचयन्। ललनाः नेत्राञ्जनं, सिन्दूरं, कङ्कणानि च धारयन्ति स्म। शिशवः क्रीडनकैः क्रीडिन्ति स्म । ते पशुपतिं शिवलिङ्गानि च अपूजयन्। अनेकासु मुद्रासु स्वस्तिकाः आसन्।सिन्धुसभ्यतायाः कालः मिश्रदेशस्य प्राचीनसभ्यतावत् अनिश्चिताऽस्ति । मिश्रदेशस्य सुमेरप्रदेशीय वा सभ्यतायाः कालनिर्णये तत्र प्राप्ताः लेखनसामग्राद्याः बहुसहायकाः अभवन् । इदनीमवधिः सिन्धुलिपेः आविष्कारं न अभूत् । प्रसिद्ध'मेसोपटेमिया'सभ्यतायाः खननसमये तत्र सिन्धुप्रदेशस्य मुद्राः अलभन् । अर्थ्यात् सिन्धुजनानां वाणिज्यं क्रैस्तपूर्वं २६००-२००० शताब्द्यां मेसोपटेमियापर्यन्तं विस्तृतमासीत् । तस्मात् बुधैः अनुमीयते यत् सिन्धुलिपेः कालः ३५००-३००० क्रैस्तपूर्वमस्ति ।सिन्धुप्रदेशतः प्राप्तेषु निदर्शनेषु एकत्र २६ अधिकसांकेतिकाक्षराणि न लब्धानि । अस्याः लिपेः आविष्कारनिमित्तं बहुशोधकार्याणि अभवन् । परन्तु विद्वत्सु लिपेः आविष्करणविषये मतैक्यताऽभावः एव दृश्यते । १८७३ तमे वर्षे अलेक्जन्डर कानिंहाम् प्रथमवारं सिन्धुलिप्यां उत्कलितमुद्रां प्रकाशितवान् । तदनन्तरं प्रायः ४००० सांकेतिकचिह्नसमन्वितानि वस्तुनि शोधखननात् प्राप्तानि । सिन्धुलिपेः लेखनगतिः वामतः, दक्षिणतः तथा उभयतः आसीत् । सिन्धुलिपेः प्रायः ४००-६०० मौलिकसांकेतिकचिह्नानि सन्ति । अनेके लिपिविशेषज्ञाः मन्यन्ते यत्- लिपेः स्वरूपम् संश्लेषात्मकभाषां सूचयति इति ।
"https://sa.wikipedia.org/wiki/विकिपीडिया:प्रयोगपृष्ठम्" इत्यस्माद् प्रतिप्राप्तम्