"राममन्दिरम्, अयोध्या" इत्यस्य संस्करणे भेदः

राम जन्मभूमि स्थल पर निर्मित हो रहा है हिन्दू मंदिर
{{Infobox Mandir | name = राममन्दिरम्, अयोध्या | image = Shr... नवीनं पृष्ठं निर्मितमस्ति
(भेदः नास्ति)

१०:५४, ७ सेप्टेम्बर् २०२० इत्यस्य संस्करणं

अयोध्यायाः राममन्दिरं किञचन हिन्दूमन्दिरम् । एतत् मन्दिरं उत्तरप्रदेशराज्यस्य अयोध्यायां रामजन्मस्थाने विद्यते [१] ०६-०८-२०१८ तमे दिनाङ्के भारतस्य प्रधानमन्त्री नरेन्द्रमोदी देवालयस्य अस्य शिलान्यासम् अकरोत् । हिन्दूजनाः एतत्स्थानं भगवतः श्रीरामचन्द्रस्य जन्मस्थानं मन्यन्ते । रामं विष्णोः सप्तमः अवतारः इति मत्वा पूजयन्ति च । १५२८ तमे वर्षे मुघल् राजा बाबरः राममन्दिरं भङ्क्त्वा बाबरीमस्जिद् इति यवनप्रार्थनामन्दिरं निर्मितवान् । रामजन्मभूमिविषये बहवः विवादाः आसन् । १९९२ तमे वर्षे करसेवकानां गणेन बाब्रि मस्जिद् भङ्क्तम् ।

राममन्दिरम्, अयोध्या
राममन्दिरस्य प्रारूपम्
नाम
शुद्धनाम: राममन्दिरम् अयोध्या
अवस्थितिः
देशः: भारतम्
राज्यम्: उत्तरप्रदेशः
स्थानीय: अयोध्या
स्थापत्यकला संस्कृतिश्च
मुख्यदेवः/देवी: रामलल्ला(बालरामः)
प्रमुखोत्सवः: दीपावली रामनवमी नवरात्रोत्सवः
स्थापत्यशैली: देवालयः

एतस्य देवालयस्य निर्माणस्य उत्तरदायित्वं श्रीरामजन्मभूमितीर्थक्षेत्रसमितेः वर्तते । गुजरात् राज्यस्य सोमपुरपरिवारः देवालयस्य विन्यासम् अकरोत् ।

इतिहासः

 
१९९२ तमे वर्षे भग्ना बाब्रिमस्जिद्

भगवतः विष्णोः अवताररूपेण सम्मतः रामः व्यापकरूपेण हिन्दुभिः पूज्यते । प्राचीनभारतस्य महाकाव्ये रामायणे रामः अयोध्यायां जातः इत्युल्लेखः वर्तते । अतः अयोध्या रामजन्मभूमिः । रामस्य बालरूपम् एव रामलल्ला इति इति उच्यते । १५ शतके बाबरेण राममन्दिरस्थाने यवनप्रार्थनामन्दिरः निर्मितः । हिन्दूदेवालयः पुनर्निर्मातव्यः इति प्रयत्नाः तदानीमेव आरब्धाः । १८५० तमे दशके पुनः हिंसात्मकप्रतिभटनं आरब्धम् ।[२].

विश्वहिन्दूपरिषदा रामजन्मभूमेः शिलान्यासार्थं १९८० तमे वर्षे पुनः प्रयत्नः आरब्धः । अलहाबाद् उच्चन्यायालयेन प्रयत्नः अवरुद्धः । ततः अविवादिते स्थले मन्दिरं निर्मातुं अनुमतिः प्रार्थिता । तदानीन्तनः गृहसचिवः बूटासिंहः विश्वहिन्दूपरिषदः नायकाय अशोकसिङ्घलाय औपचारिकरूपेण अनुमतिं दत्तवान् । नवंबर् ९ १९८९ तमे दिने विश्वहिन्दूपरिषदः नेतृत्वे साधूनां गणेन शिलान्यासः कृतः ।[३] बिहारस्थः दलितनायकः शिलान्यासं कृतवत्सु अन्यतमः आसीत् । [४].

सञ्चिका:K Parasaran.jpg
के. पराशरन्

६ डिसेम्बर् १९९२ तमे दिनाङ्के विश्वहिन्दूपरिषदा भारतीयजनतापक्षेण च १५०००० जनानां काचित् शोभायात्रा अयोध्यायां आजयोजिता । शोभायत्रायां भागग्रहीतारः करसेवकाः इति प्रसिद्धाः । शोभायात्रा हिंसारूपं गता । करसेवकाः भद्रताम् अपरिगणय्य बाबरीमस्जिदं ध्वस्तवन्तः [५][६][७] ततः हिन्दूमुस्लिंगणयोः मिथः कलहाः जाताः । न्यूनातिन्यूनं २००० जनानां प्राणार्पणम् अभवत् ।[८]

अग्रिमेषु दिनेषु विवादविषये न्यायालये चर्चाः प्रवृत्ताः । देवालयस्य देवस्य रामलल्ला इत्यस्य नाम्ना न्यायलये भूम्यर्थं प्रार्थना उपस्थापिता । विश्वहिन्दूपरिषदः ज्येष्ठः कार्यकर्ता त्रिलोकिनाथपाण्डे रामलल्ला इत्यस्य प्रतिनिधिरूपेण स्थितः । के. पराशरन् रामस्य पक्षे प्रमुखः न्यायवादी आसीत् । अयोध्यायाः विष्यये नवम्बर् ९ २०१९ तमे दिने न्यायालयेन काचित् उद्घोषणा कृता । विवादितां भूमिं रामजन्मभूमिसमित्यै दातव्या इति निर्णयः उद्घोषितः[२] । २०२० तमे वर्षे फेब्रवरी ५ तमे दिनाङ्के संसत्भवने देवालयनिर्माणस्य विषये उद्घाणषा कृता ।[९].

शिल्पकला

रामदेवालयस्य मूलविन्यासं १९८८ तमे वर्षे सोम्पुरपरिवारेण कृतः [१०]। सोम्बुरकुटुम्बीयाः १५ सन्ततेः आविश्वं शताधिकानां देवालयानां शिल्पकार्यं कृतवन्तः [११]। मूलविन्यासे कतिचन परिवर्तनानि कृत्वा नूतनराममन्दिरस्य विन्यासः २०२० वर्षे कृतः । एतत् मन्दिरं २३५ फीट्परिमितं वैशाल्यं, ३६० फीट्परिमितं दैर्घ्यं १६१ फीट्परिमितम् औन्नत्यं च आवहति ।[१२][११]। देवालयस्य मुख्यवास्तुशिल्पिनः चन्दर्कान्तसोम्पुरः तत्पुत्रौ निखिल् सोम्पुरः, आशीश् सोम्पुरश्च । नागरशैल्याः वास्तुशिल्पम् अवलम्ब्य अयं देवालयः निर्मितः [११]

देवालयस्य प्राङ्गणे प्रार्थनामन्दिरम्, रामकथाकुञ्जः(उपन्यासभवनम्), वैदिकपाठशासा, सन्तनिवासः, यात्रिनिवासः, वस्तुसङ्ग्रहालयश्च भविष्यति [१३]देवालयस्य कार्ये समाप्ते इदं मन्दिरं विश्वस्य तृतीयं बृहत्तमं मन्दिरं इति विख्यातं भविष्यति । [१२] . देवालयस्य सद्यकालीनं प्रारूपं २०१९ तमे वर्षे प्रयागस्य कुम्भमेलायां प्रदर्शितम् [१४]

निर्माणम्

श्रीरामजन्मभूमितीर्थक्षेत्रट्रस्ट् द्वारा मार्च् २०२० मध्ये रामदेवालस्य प्रथमघट्टस्य निर्माणम् आरब्धम् ।[१५][१६]. भारते करोनासाङ्क्रामिकरोगकारणतः, भारत-चीनाविषयककलहकारणतश्चापि तात्कालिकरूपेण कार्यस्य स्थगनम् अभवत् [१७][१८][१९]। निर्माणावसरे भूगर्भे शिवलिङ्गं स्तम्भाः भग्नविग्रहाश्च उपलब्धाः ।[२०] [२१]। मार्च् २५ २०२० तमे दिनाङ्के उत्तरप्रदेशस्य मुख्यमन्त्रिणः योगि-आदित्यनाथस्य समक्षमे रामविग्रहस्य तात्कालिकं स्थानान्तरणम् अपि कृतम् [२२]

राममन्दिररस्य निर्माणस्य अङ्गतया विश्वहिन्दूपरिषत्-द्वारा विजयमहामन्त्रस्य जपानुष्ठानस्य आरम्भः अभवत् । रामभक्ताः जय श्रीराम जयश्रीराम इति एप्रिल् ६ २०२० तमे दिनाङ्के जप्तवन्तः । देवालयस्य निर्माणकाले विविधानां सङ्कष्टानां निवारणाय जपानुष्ठानकार्यक्रमः आयोजितः आसीत् । लार्सेल् एण्ड् टौब्रो इति संस्थया देवालयनिर्माणस्य कार्यं स्वीकृतं वर्तते ।

शिलान्यासः

 
भूमिपूजारतः नरेन्द्रमोदी

५ आगस्ट् २०२० तमे दिनाङ्के शिलान्यासानन्तरम् अधिकृतरूपेण देवालयनिर्माणकार्यं पुनः आरब्धम् । दिनत्रयं यावत् पूजाः कृत्वा सुदीर्घाः वैदिकाचाराः प्रवर्तिताः । आगस्ट् ४ दिनाङ्के रामार्चनपूजां कृत्वा देवताह्वानम् अभवत् । आगस्ट् ५ दिनाङ्के भारतस्य प्रधानमन्त्री नरेन्द्रमोदी भूगर्भे ४० के.जि परिमितं रजत-इष्टिकां विन्यस्य भूमिपूजां कृतवान्[२३]

भूमिपूजावसरे भारतस्य विविधभागेभ्यः पवित्रमृत्तिकायाः जलस्य च आनयनं प्रावर्तत । त्रिवेणीसङ्गमात्, तलकावेर्याः, कामाख्यदेवालयात्, जैन-सिख् मन्दिरेभ्यः च मृत्तिकादिकम् आनीतम् [२४][२५][२६]। पाकिस्थानस्य शारदापीठादपि जलमानीतम् । शिलान्यासावसरे केनडा इङ्ग्लेण्ड् इत्यादिषु देशेषु विशेषपूजाः प्रावर्तन्त । अयोध्यायाः हनुमान्गडी मन्दिरात् ७ किलोमीटर्विस्तीर्णे विद्यमानेषु सर्वेष्वपि देवालयेष दीपप्रज्वालनं कृतम् । रामं स्वकीयपूर्वजत्वेन मन्वानाः अयोध्यायाः मुस्लिंजनाः अपि शिलान्यासे सहयोगं कृतवन्तः । सर्वमतानां मुख्यस्थाः कार्यक्रमे आहूताः आसन् । [२७][२७]

शिलान्याससभा

 
शिलान्यासात्परं सभाकार्यक्रमः ।

नरेन्द्रमोदिवर्यः हनुमान्गढी मन्दिरे पूजां निर्वर्त्य राममन्दिरस्य शिलान्यासम् अकरोत् । तदनन्तरं सभाकार्यक्रमः प्रावर्तत । कार्यक्रमे नरेन्द्रमोदी राष्ट्रियस्वयंसेवकसङ्घस्य सरसङ्घचालकः मोहनभागवतः, उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः, वस्त्यगोपालदासः इत्यादयः उपस्थिताः आसन् । देशमुद्दिश्य भाषणं कृतवता मोदिना जय सिया राम इत्युद्घोषेण भाषणस्य आरम्भः कृतः । रामनाम्नः उद्घोषः न केवलायाम् अयोध्यायाम् अपि तु समग्रे देशे अद्य श्रूयते इत्युक्त्वा राममन्दिरम् आधुनिकसम्प्रदायानां सङ्केतरूपम् इति च अवदत् [२८][२९][३०]। देवालयप्रतिष्ठापने एल् के अड्वाणीवर्यस्य श्रमः मोहनभागवतेन स्मृतः[३१] । कार्यक्रमस्याङ्गतया प्रधानमन्त्रिणा पारिजातसस्यारोपणमपि विहितम्[३२] । करोनाकारणतः देवालस्यावरणे १७५ जनाः मात्रम् उपस्थिताः आसन् ।

देवता

विष्णोः अवताररूपस्य भगवतः श्रीरामस्य शिशुरूपं रामलल्ला मन्दिरस्य प्रधानदेवता । रामलल्लायाः वस्त्राणि भगवत्प्रसादः शङ्करलालश्च सीव्यति । शङ्करलालस्य पूर्वं चतस्रः सन्ततयः अपि रामविग्रहस्य वस्त्रसीवकाः [३३][३४]

उल्लेखाः

  1. Bajpai, Namita (7 May 2020). "Land levelling for Ayodhya Ram temple soon, says mandir trust after video conference". The New Indian Express.  Unknown parameter |access-date= ignored (help); Unknown parameter |url-status= ignored (help)
  2. २.० २.१ Deepalakshmi, K. (8 November 2019). "Ramjanmabhoomi-Babri Masjid title dispute: The story so far". The Hindu. ISSN 0971-751X.  Unknown parameter |access-date= ignored (help)
  3. Mathew, Liz (4 August 2020). "Explained: The Ayodhya Ram temple journey, from November 9, 1989 to August 5, 2020". The Indian Express (in English).  Unknown parameter |access-date= ignored (help)
  4. "Ministry of Home Affairs notifies temple trust; RSS, VHP members kept out". The Hindu. 5 February 2020. आह्रियत 31 July 2020. 
  5. Tully, Mark (5 December 2002). "Tearing down the Babri Masjid". BBC News. आह्रियत 29 September 2010. 
  6. Guha, Ramachandra (2007). India After Gandhi. MacMillan. pp. 582–598. 
  7. "Report: Sequence of events on December 6". Ndtv.com. आह्रियत 20 June 2012. 
  8. Guha, Ramachandra (2007). India After Gandhi. MacMillan. pp. 633–659. 
  9. Phukan, Sandeep (5 February 2020). "PM announces Cabinet nod for Ram temple in Ayodhya". The Hindu (in en-IN). ISSN 0971-751X.  Unknown parameter |access-date= ignored (help)
  10. Pandey, Alok (23 July 2020). "Ayodhya's Ram Temple Will Be 161-Foot Tall, An Increase Of 20 Feet". NDTV.  Unknown parameter |access-date= ignored (help); Unknown parameter |url-status= ignored (help)
  11. ११.० ११.१ ११.२ Sampal, Rahul (28 July 2020). "Somnath, Akshardham & now Ram Mandir – Gujarat family designing temples for 15 generations". ThePrint (in en-US).  Unknown parameter |access-date= ignored (help)
  12. १२.० १२.१ Bajpai, Namita (21 July 2020). "280-feet wide, 300-feet long and 161-feet tall: Ayodhya Ram temple complex to be world's third-largest Hindu shrine". The New Indian Express.  Unknown parameter |access-date= ignored (help); Unknown parameter |url-status= ignored (help)
  13. "Grand Ram temple in Ayodhya before 2022". The New Indian Express. IANS. 11 November 2019.  Unknown parameter |access-date= ignored (help); Unknown parameter |url-status= ignored (help)
  14. India, Press Trust of (6 February 2020). "Ayodhya Ram Mandir construction to begin in April this year: Trustee". Business Standard India.  Unknown parameter |access-date= ignored (help)
  15. Sharma, Pratul (23 March 2020). "1st phase of Ram temple construction begins in Ayodhya". The Week (in English).  Unknown parameter |access-date= ignored (help); Unknown parameter |url-status= ignored (help)
  16. "Ram Mandir Construction: राम मंदिर निर्मितीच्या पहिल्या टप्प्यातील काम सुरू" [Ram Mandir Construction: Ram mandir Foundation Starts First Phase of Work]. Times Now Marathi (in Marathi). 8 May 2020.  Unknown parameter |access-date= ignored (help)
  17. Bajpai, Namita (9 April 2020). "Ram Mandir plans continue during COVID-19 lockdown, temple trust releases its official Logo". The New Indian Express.  Unknown parameter |access-date= ignored (help); Unknown parameter |url-status= ignored (help)
  18. "COVID-19: लॉकडाउन खत्म होते ही अयोध्या में शुरू होगा भव्य राम मंदिर निर्माण" [COVID-19: The Ram Temple construction will begin in Ayodhya after the end of lockdown]. News18 India (in Hindi). 1 January 1970.  Unknown parameter |access-date= ignored (help)
  19. "Indo-China border standoff: Plan to start construction of Ram Temple in Ayodhya suspended". The Economic Times.  Unknown parameter |access-date= ignored (help)
  20. "Shivling, carvings on sandstone found at Ram Janmabhoomi site: Temple trust". The Times of India. ANI. 21 May 2020.  Unknown parameter |url-status= ignored (help); Unknown parameter |access-date= ignored (help)
  21. Rashid, Omar (25 March 2020). "U.P. Chief Minister Adityanath shifts Ram idol amid lockdown". The Hindu (in en-IN). ISSN 0971-751X.  Unknown parameter |access-date= ignored (help)
  22. "VHP to organise 'Vijay Mahamantra Jaap Anushthan'". Outlook. IANS. 4 April 2020.  Unknown parameter |access-date= ignored (help)
  23. "'Ramarchan puja' begins ahead of 'bhoomi pujan' in Ayodhya". DNA India (in English). 4 August 2020.  Unknown parameter |access-date= ignored (help); Unknown parameter |url-status= ignored (help)
  24. Mehta, Kriti (22 July 2020). "Ram temple bhumi pujan: Sangam soil, water to be taken to Ayodhya; proceedings to be telecast live". The Times Of India.  Unknown parameter |url-status= ignored (help)
  25. "Water, soil from Kodagu sent to Ayodhya". Deccan Herald. 24 July 2020.  Unknown parameter |url-status= ignored (help)
  26. "Sacred Soil of Kamakhya Temple taken for Construction of Ram Mandir". Guwahati Plus (in English). 28 July 2020.  Unknown parameter |access-date= ignored (help); Unknown parameter |url-status= ignored (help)
  27. २७.० २७.१ "Muslim devotees of Lord Ram gear up to celebrate temple ‘bhoomi pujan’ in Ayodhya". The Hindu (in en-IN). PTI. 27 July 2020. ISSN 0971-751X.  Unknown parameter |access-date= ignored (help)
  28. "'Jai Siyaram' call resonating throughout the world: PM Narendra Modi". The Times of India (in English). 5 August 2020.  Unknown parameter |access-date= ignored (help); Unknown parameter |url-status= ignored (help)
  29. "From Laos to Lanka, Ram is everywhere: PM Modi in Ayodhya". India Today (in English). 5 August 2020.  Unknown parameter |access-date= ignored (help); Unknown parameter |url-status= ignored (help)
  30. "Long wait ends today: PM chants 'Jai Siya Ram' in Ayodhya". Punjab News Express. 5 August 2020.  Unknown parameter |access-date= ignored (help); Unknown parameter |url-status= ignored (help)
  31. Tripathi, Ashutosh, ed. (5 August 2020). "At Ayodhya Ram temple event, PM Modi reiterates mantra to fight coronavirus". Hindustan Times (in English).  Unknown parameter |access-date= ignored (help); Unknown parameter |url-status= ignored (help)
  32. Jain, Sanya (5 August 2020). "Watch: PM Narendra Modi Plants Parijat Sapling At Ram Temple". NDTV.com.  Unknown parameter |access-date= ignored (help); Unknown parameter |url-status= ignored (help)
  33. "अयोध्या: 5 अगस्त को इस टेलर का सिला पोशाक पहनेंगे रामलला" [On 5 August Ram will wear clothes stitched by this tailor]. News18 India (in Hindi). 27 July 2020.  Unknown parameter |access-date= ignored (help); Unknown parameter |url-status= ignored (help)
  34. "What the idol of Ram Lalla will don for the Ayodhya temple 'bhoomi pujan' - Divine Couture". The Economic Times. 4 August 2020.  Unknown parameter |access-date= ignored (help)
"https://sa.wikipedia.org/w/index.php?title=राममन्दिरम्,_अयोध्या&oldid=454609" इत्यस्माद् प्रतिप्राप्तम्