"विष्णुः पण्ड्या" इत्यस्य संस्करणे भेदः

<
0
पङ्क्तिः ३९:
== इतिहासकारत्वेन योगदानम् ==
विष्णुमहोदयस्य मतानुसारं पुरा भारते अनेके भारतविरोधिनः इतिहासकाराः जाताः, ये स्वतन्त्रतान्दोलनस्य हुतात्मनां विरुद्धम् अतीव कुत्सितानां पुस्तकानां निर्माणम् अकुर्वन्। यदि इतिहासः विकृतः भवति, तर्हि समाजः अपि विकृतः भवति इति। १८५७ स्वान्त्र्यान्दोलने झाँसी राज्ञी भारताय आदर्शपूर्णतया युद्धं कृत्वा वीरगतिं प्राप्तवती। परन्तु आङ्ग्ल-नवलकथाकाराः विंशतिवर्षाणि यावत् तस्याः विरुद्धं चित्रं प्रादर्शयन्। आङ्ग्ल-नवलाकारैः झाँसी राज्ञी पुँश्चली, दुष्टा च वर्णिता, या स्वपत्युः हत्याम् अकारयत्। आङ्ग्लाः स्वशासन-बलेन स्वमतयुक्ताः नवलकथाः प्रचारयित्वा ताभ्यः प्रसिद्धम् अपि यच्छन्ति स्म। आहत्य १२ यावत् नवलकथाः सन्ति, याः एतादृशं विकृतं विवरणं प्रर्शयन्ति। कानपुरस्य नाना साहेब-महोदयः वीरतापूर्वकम् आङ्ग्लानां विरुद्धं युद्धम् अकरोत्। परन्तु तस्य विरुद्धं “The Demon of Cawnpore” (Kanpur) <ref>https://www.amazon.in/Demon-Cawnpore-Jules-Verne/dp/9386215179</ref> इति पुस्तकं जुलेस् वर्न्स (Jules Verne) इत्येषः आङ्ग्ललेखकः अलिखत्। कालान्तरे वास्तविकः इतिहासः भारतीयानां सम्मुखम् उपस्थापितः जातः। परन्तु इतोऽपि अत्यधिकं करणीयम् अस्ति इति तस्य मतम्।
<!--
 
== संस्कृतक्षेत्रे योगदानम् ==
-->
 
 
== रामजन्मभूमिना सह सम्बन्धः ==
"https://sa.wikipedia.org/wiki/विष्णुः_पण्ड्या" इत्यस्माद् प्रतिप्राप्तम्