"गुजरात साहित्य अकादमी" इत्यस्य संस्करणे भेदः

उद्देशाः
सम्मान
पङ्क्तिः ८९:
#गुजरातराज्यस्य गुजरातीभाषा-साहित्यक्षेत्रस्य संस्थाभ्यः मान्यतां दत्त्वा तासां साहित्यिकप्रवृत्तिभ्यः आर्थिक-अनुदानद्वारा साहाय्यदानम्।
#गुजरातीभाषासाहित्याय साहित्यिकगोष्ठीभ्यः, परिसंवादेभ्यः, पुस्तकप्रदर्शनीभ्यः, प्रशिक्षणशिविरेभ्यः, उत्सवेभ्यः, मेलाभ्यः, प्रवासादिभ्यः च आयोजनं कृत्वा तत्सम्बद्धेषु कार्येषु रताभ्यः अन्यसाहित्यसंस्थाभ्यः आर्थिकसाहाय्यदानम्।
#गुजरातराज्यस्य गुजरातीभाषासाहित्यस्य सिद्धिवद्भ्यः लेखकेभ्यः, तेषां कृतिभ्यः च पुरस्कारदानेन सन्मानस्यसम्मानस्य प्रबन्धनम्।
#गुजरातराज्यस्य गुजरातीभाषा-साहित्यस्य क्षेत्रे गुणवत्तालक्षिसेवायां रतेभ्यः, गुजरातराज्ये निवसितेभ्यः वयोवृद्धेभ्यः च सहायपात्रलेखकेभ्यः च योग्य-आर्थिकसाहाय्यदानम्।
#राज्यस्य पञ्चवर्षीयायाः योजनायाः अन्तर्गततया गुजरातीभाषासाहित्यस्य विकासान्वये याः प्रायोजनाः राज्यसर्वकारेण अनुमोदिताः भवन्ति, अकादमी-संस्थायाः उद्देशसम्बद्धानां, कार्यप्रदेशसम्बद्धानां च प्रायोजनानां क्रियान्वयकरणम्।
पङ्क्तिः ११३:
गुजरातसाहित्य-अकादमी-संस्था अन्यासां पञ्च साहित्यिक-अकादमी-संस्थानां कार्यभारम् अपि वहते। यत्र संस्कृतभाषायै संस्कृत-साहित्य-अकादमी, हिन्दीभाषायै हिन्दी-साहित्य-अकादमी, सिन्धीभाषायै सिन्धी-साहित्य-अकादमी, कच्छीभाषायै कच्छीसाहित्य-अकादमी, उर्दूभाषायै उर्दूसाहित्य-अकादमी च अन्तर्भवन्ति। महामात्रः (रजीस्ट्रार) सर्वासां पञ्चानाम् अकादमी-संस्थानां प्रशासनिकः प्रमुखः भवति। लोकसाहित्याय, संस्कृतभाषायै, संस्कृतसाहित्याय, अन्यभारतीयभाषायै च त्रिस्रः स्थायि-समितयः रचिताः सन्ति। प्रत्येकं समितौ पञ्च सर्वकारीयाः सभ्याः भवन्ति, तैः सह अन्ये पञ्च सम्बद्धक्षेत्रस्य सभ्याः भवन्ति। एवम् आहत्य दश सदस्याः भवन्ति।<ref name="RahmanVerma2005"/>
 
अध्यक्षः, उपाध्यक्षः, महामात्रः च एतस्याः संस्थायाः दैनिक-कार्याणां निर्वणहं कुर्वन्ति। एतस्याः संस्थायाः सम्पूर्णं नियन्त्रणं सामान्यसभाद्वारा, कार्यकारि-परिषदा च भवति। सामान्यसभायाः कार्यकालः पञ्च वर्षाणां भवति। सामान्यसभा आहत्य ४१ सभ्यैः निर्मिता भवति, यत्र गुजरातराज्यस्य शिक्षा-आयुक्तः (कमिशनर), शिक्षण-विभागस्य आर्थिक-परामर्शकः, संस्थायाः महामात्रः, गुजरातराज्यस्य उच्चशिक्षा-आयुक्तः, गुजरातीभाषायाः निर्देशकः, राज्यसर्वकारद्वारा चिताः साहित्यिकसमुदायस्य ९ सभ्याः, गुजरात-विश्वविद्यालयस्य ८ सभ्याः, सामान्यसभाद्वारा चितौ द्वौ सभ्यौ, गुजराती-लेखकैः नियुक्तया समित्या चिताः ९ सभ्याः, [[साहित्य अकादमी पुरस्कार-गुजराती|गुजरातगौरवपुरस्कार]]द्वारा सन्मानितौसम्मानितौ द्वौ सदस्यौ च अन्तर्भवन्ति। कार्यकारि-परिषद् एतस्याः संस्थायाः अध्यक्षस्य, उपाध्यक्षस्य, महामात्रस्य, गुजरातशिक्षा-आयुक्तस्य, शिक्षणविभागस्य आर्थिक-परामर्शकस्य च सम्मिता दश सभ्यानां परिषद् भवति, यत्र पञ्च सभ्याः नियुक्ताः भवन्ति। <ref name=thesis>{{cite thesis|last=धमेलीया|first=प्रिती वाय||title=गुजरातीसाहित्यपरिषदः मुखपत्रस्य 'परब'-पत्रकस्य, गुजरात-साहित्य-अकादमी-संस्थायाः मुखपत्रस्य 'शब्दसृष्टि'-पत्रस्य विशेषाङ्कानां समिक्षात्मकः अभ्यासः|date=2016|publisher=भावनगर युनिवर्सिटी|url=http://hdl.handle.net/10603/129321|place=भावनगर |hdl=10603/129321|pages=८–२७}}</ref>
 
===अध्यक्षाणां सूची===
पङ्क्तिः २०५:
 
* प्रतिवर्षं संस्कृतभाषायाः वयोवृद्वेभ्यः विद्वद्भ्यः आर्थिकसाहाय्यदानम्
* प्रतिवर्षम् एकस्मै संस्कृतविदुषाय गौरवपुरस्कारत्वेन १,००,०००/- रूप्यकाणां नाणकसाहाय्यं, राङ्कवं (shawl), सन्मानपत्रंसम्मानपत्रं च दीयते
* ग्रन्थप्रकाशनस्य योजनायाः अन्तर्गततया संस्कृतभाषायाः व्याकरणविषयकाय संशोधनात्मक-ग्रन्थानां, विवेचनात्मक-ग्रन्थानां च प्रकाशनम्
* वेदशास्त्रपारङ्गतानां संस्कृतभाषायाः त्रयाणां पण्डितानां, एकस्य शस्त्रविदुषः च प्रत्येकं कृते ५०,०००/-, राङ्कवं, सन्मानपत्रंसम्मानपत्रं
* संस्कृतभाषिणे एकस्मै परिवाराय ११,०००/- रूप्यकाणि, राङ्कवं, सन्मानपत्रंसम्मानपत्रं
* युवागौरवपुरस्कारत्वेन ५०,०००/- प्रतिवर्षम् एकस्मै युवासाहित्यकाराय समर्प्यते
* "संस्कृतसाहित्य-निर्माणम् अन्तर्जालद्वारा तत्प्रसारणं च" इत्यस्मै प्रकल्पाय अनुदानं दीयते। एषः प्रकल्पः निःशुल्कतया अन्तर्जालीयमाध्यमेन आधिनिकं संस्कृतसाहित्यं जनसामान्याय उपलब्धं कारयति। एतस्य प्रकल्पस्य अन्तर्गततया मुख्यतया आधुनिक-विषयाणां, सरलीकृतसंस्कृतविषयाणां, प्रसिद्धस्थलानां, प्रसिद्धजनानां, भारतसर्वकारस्य, गुजरातसर्वकारस्य, भारतस्य पर्यटनस्थलानां, गुजरातराज्स्य पर्यटनस्थलानां च निःशुल्कतया जनसामान्याय उपलब्धिः कार्यते, येन आधुनिकसंस्कृताभाषायाः विकासः भवेत्। एतस्य प्रकल्पस्य माध्यमेन संस्कृतविद्यार्थिषु, संस्कृतप्राध्यापकेषु, संस्कृतशिक्षकेषु च अनुवादस्य, संशोधनस्य, सङ्गणकमाध्यमेन आधुनिकसंस्कृतस्य च महत्त्वं प्रस्थाप्य संस्कृतक्षेत्रस्य जनेभ्यः प्रशिक्षणम् अपि दीयते, येन संस्कृतजनाः अपि आत्मनिर्भरतया संस्कृते अनुवादं, संशोधनं, सङ्गणकाधारितस्य संस्कृतसाहित्यस्य निर्माणं च कर्तुं योग्याः भवेयुः।
"https://sa.wikipedia.org/wiki/गुजरात_साहित्य_अकादमी" इत्यस्माद् प्रतिप्राप्तम्