"गुजरात साहित्य अकादमी" इत्यस्य संस्करणे भेदः

पङ्क्तिः २११:
* युवागौरवपुरस्कारत्वेन ५०,०००/- प्रतिवर्षम् एकस्मै युवासाहित्यकाराय समर्प्यते
* "संस्कृतसाहित्य-निर्माणम् अन्तर्जालद्वारा तत्प्रसारणं च" इत्यस्मै प्रकल्पाय प्रतिवर्षम् अनुदानं दीयते। एषः प्रकल्पः निःशुल्कतया अन्तर्जालीयमाध्यमेन आधुनिकं संस्कृतसाहित्यं जनसामान्याय उपलब्धं कारयति। एतस्य प्रकल्पस्य अन्तर्गततया मुख्यतया आधुनिक-विषयाणां, सरलीकृतसंस्कृतविषयाणां, प्रसिद्धस्थलानां, प्रसिद्धजनानां, भारतसर्वकारस्य, गुजरातसर्वकारस्य, भारतस्य पर्यटनस्थलानां, गुजरातराज्यस्य पर्यटनस्थलानां च परिचयात्मकाः लेखाः अङ्कीयता (digitally), निःशुल्कतया च जनसामान्येभ्यः उपलब्ध, येन आधुनिकसंस्कृताभाषायाः विकासः भवेत्। एतस्य प्रकल्पस्य माध्यमेन संस्कृतविद्यार्थिषु, संस्कृतप्राध्यापकेषु, संस्कृतशिक्षकेषु च अनुवादस्य, संशोधनस्य, सङ्गणकमाध्यमेन आधुनिकसंस्कृतस्य च महत्त्वं प्रस्थाप्य संस्कृतक्षेत्रस्य जनेभ्यः प्रशिक्षणम् अपि दीयते, येन संस्कृतजनाः अपि आत्मनिर्भरतया संस्कृते अनुवादं, संशोधनं, सङ्गणकाधारितस्य संस्कृतसाहित्यस्य निर्माणं च कर्तुं योग्याः भवेयुः। आधुनके युगे संस्कृतम् अपि अन्यभाषावत् विकासस्य योग्यम् अवसरं प्राप्नुयात्, अतः एषः प्रकल्पः संस्कृतहिताय प्रचलति।
 
=== संस्कृतसाहित्यनिर्माणम्, अन्तर्जालद्वारा तत्प्रसारणं च ===
 
एतस्य प्रकल्पस्य आरम्भः २०१२ तमवर्षे जातः आसीत्। गुजरातराज्यस्य तत्कालीनः मुख्यमन्त्री, वर्तमानः प्रधानमन्त्री च संस्कृताय अपि आधुनिकस्पर्धायां स्थायि-साहाय्यं प्रदातुम् एतस्य प्रकल्पस्य आरम्भाय प्रेरणाम् अकरोत्। अतः मुख्यमन्त्रिणः प्रेरणानुसारं २०१२ तमवर्षे संस्कृत-साहित्य-अकादमी-संस्था स्वामिविवेकानन्दस्य सार्धशत-जन्मोत्सवावसरे संस्कृतस्य स्थायि-विकासाय एनं प्रकल्पम् अपि आरब्धवती। संस्कृसाहित्यनिर्माणम्, अन्तर्जालद्वारा तत्प्रसारणं च इत्यस्य प्रकल्पस्य आङ्ग्लं नाम Sanskrit Corpus Building and Sharing through Internet Medium इति, गुर्जर्नाम સંસ્કૃત સાહિત્યનું નિર્માણ અને તેનું અન્તર્જાલ દ્વારા પ્રસારણ इति च अस्ति।
 
विशाळ प्रमाणमां संस्कृतमां आधुनिक अने शास्त्रीय साहित्यनुं निर्माण थाय अने ए डिजिटलरूपे निःशुल्क सर्वने उपलब्ध थाय ए आ प्रकल्पनो एक उद्देश छे। परन्तु आ प्रकल्पनो मुख्य उद्देश ए छे के "संस्कृतमां संभाषणनां आंदोलननी जेम संस्कृत विकिपीडिया पण एक जन-आंदोलन बनी जाय अने सर्वे संस्कृतनां लोको आमां योगदान करी संस्कृतने डिजिटल क्षेत्रे आत्मिनिर्भर बनावे।"
 
'''संस्कृतक्षेत्रस्य समस्या'''
 
# संस्कृतं काचित् व्याप्तसाहित्यस्य स्वामिनी, समृद्धा च भाषा वर्तते, संस्कृतभाषायाः विद्यार्थिनः, उपयोगकर्तारः च सम्पूर्णे गुजरातराज्ये, सम्पूर्णभारते च कोणे कोणे विद्यन्ते। एतस्यां स्थित्यां संस्कृतस्य अङ्कीयकरणम् अतीव अनिवार्यं भवति, येन सर्वे संस्कृताभिलाषिणः आधुनिकमाध्यमेन संस्कृतसाहित्यं प्राप्नुयुः। गुजरातराजस्य सर्वेषु जनपदेषु, ग्रामेषु च संस्कृतसाहित्यं प्रेषणीयं भवति।।
#संस्कृतभाषा तु अतीव प्राचीनभाषा अस्ति। भारतीयसंविधाने संस्कृतभाषा आधुनिकभाषायाः सूच्यां योजिता वर्तते, परन्तु संस्कृते आधुनिकविषयाणां साहित्यम् अतीव विरलतया प्राप्यते, येन आधुनिकभाषासु संस्कृतस्य पृष्ठे गमनस्य भयः अस्ति। अतः संस्कृतभाषायाम् आधुनिकविषयाः उपलब्धाः भवेयुः, तथा व्यवस्था करणीया भवति।
#आधुनिकमञ्चेषु सर्वासां भारतीयासु, विदेशीयासु च भाषासु विशालप्रमाणे आधुनिकं, शास्त्रीयं च साहित्यम् उपलब्धम् अस्ति, परन्तु संस्कृतभाषायां विश्वस्य देशानाम् अपि परिचयः न प्राप्यते। ततोऽधिकं भारतस्य मध्यकालीनः इतिहासः, स्वतन्त्रतायाः इतिहासः, भारतस्वतन्त्रतायाः उत्तवर्ति-इतिहासः इत्यादिकानां परिचयात्मकः लेखाः अपि संस्कृतभाषायां न सन्ति, अतः आधुनिकसंस्कृतस्य छात्रः संस्कृतं त्यक्त्वा अन्याभ्यः भाषाभ्यः साहित्यं पठितुं विवशः अस्ति।
 
 
उक्तानां समस्यानां समाधानाय एव स्थायि-प्रकल्पोऽयम् आरब्धः अस्ति। एतस्य प्रकल्पस्य अन्तर्गततया एतावता A4 आकारस्य ३५,००० पृष्ठानि आरोपितानि सन्ति।
 
== सम्बद्धाः लेखाः ==
"https://sa.wikipedia.org/wiki/गुजरात_साहित्य_अकादमी" इत्यस्माद् प्रतिप्राप्तम्