"संस्कृतभारती" इत्यस्य संस्करणे भेदः

1
पङ्क्तिः ७६:
== संस्कृतभारती, गुजरातराज्यम् ==
 
गुजरातराज्ये न्यासत्वेन संस्कृतभारती, गुजरातम् इति संस्था पञ्जीकृता वर्तते। तत्र निःशुल्कतया संस्कृतसाहित्यम् अङ्कीयतया प्रदातुं "संस्कृतसाहित्य-निर्माणम् अन्तर्जालद्वारा तत्प्रसारणं च" इति प्रकल्पः प्रचलति। एतस्मै प्रकल्पाय [[[गुजरात साहित्य अकादमी|गुजरात-साहित्य-अकादमी-संस्था]] अनुदानं ददाति। एषः प्रकल्पः निःशुल्कतया अन्तर्जालीयमाध्यमेन आधुनिकं संस्कृतसाहित्यं जनसामान्याय उपलब्धं कारयति। एतस्य प्रकल्पस्य अन्तर्गततया मुख्यतया आधुनिक-विषयाणां, सरलीकृतसंस्कृतविषयाणां, प्रसिद्धस्थलानां, प्रसिद्धजनानां, भारतसर्वकारस्य, गुजरातसर्वकारस्य, भारतस्य पर्यटनस्थलानां, गुजरातराज्यस्य पर्यटनस्थलानां च परिचयात्मकाः लेखाः अङ्कीयता (digitally), निःशुल्कतया च जनसामान्येभ्यः उपलब्ध, येन आधुनिकसंस्कृताभाषायाः विकासः भवेत्। एतस्य प्रकल्पस्य माध्यमेन संस्कृतविद्यार्थिषु, संस्कृतप्राध्यापकेषु, संस्कृतशिक्षकेषु च अनुवादस्य, संशोधनस्य, सङ्गणकमाध्यमेन आधुनिकसंस्कृतस्य च महत्त्वं प्रस्थाप्य संस्कृतक्षेत्रस्य जनेभ्यः प्रशिक्षणम् अपि दीयते, येन संस्कृतजनाः अपि आत्मनिर्भरतया संस्कृते अनुवादं, संशोधनं, सङ्गणकाधारितस्य संस्कृतसाहित्यस्य निर्माणं च कर्तुं योग्याः भवेयुः। आधुनके युगे संस्कृतम् अपि अन्यभाषावत् विकासस्य योग्यम् अवसरं प्राप्नुयात्, अतः एषः प्रकल्पः संस्कृतहिताय प्रचलति।
 
=== संस्कृतसाहित्यनिर्माणम्, अन्तर्जालद्वारा तत्प्रसारणं च ===
"https://sa.wikipedia.org/wiki/संस्कृतभारती" इत्यस्माद् प्रतिप्राप्तम्