"फलकम्:मुख्यपृष्ठं -आधुनिकलेखः" इत्यस्य संस्करणे भेदः

1
सरदार
 
पङ्क्तिः ९६:
('''[[एकतामूर्तिः|अधिकवाचनाय »]]''')
|<!--०-->
[[चित्रम्:GuruGobindSardar Singhpatel (cropped).jpg|right|100px]]
'''सरदार वल्लभभाई पटेल''' भारतस्य एकतायाः सूत्रधारः। लोहपुरुष इति समग्रे विश्वे प्रसिद्धः सः। लोहपुरुषस्य जन्म गुजरातराज्यस्य नडियाद-नगरे अभूत्। तस्य दृढस्वभावेन, निर्णयशक्त्या च अद्यापि सः जनमानसे चकास्ति। न केवलं भारतस्वतन्त्रताप्राप्त्यै, समग्रस्य भारतस्य एकीकरणे अपि तु भारतस्वतन्त्रताप्राप्त्यनन्तरं देशस्य भविष्यनिर्माणे सर्वोत्कृष्टं योगदानम् अस्यैवास्ति। संविधानसभायाः तिसॄणां मुख्योपसमितीनाम् अध्यक्षः सरदार आसीत्। ताश्च उपसमितयः मौलिकाधिकारोपसमितिः, अल्पसङ्ख्याकोपसमितिः, प्रन्तीयसंविधानोपसमितिः। अन्यप्रावधानरचनायामपि लोहपुरुषस्य मुख्यभूमिका आसीत्। यथा – शक्तिशालिकेन्द्रस्थापना, संविधानस्य सङ्कटकालीनव्यवस्था, स्वतन्त्रनिर्वाचनायोगः, देशीयराज्यविलयः, सर्वकारसेवा, जम्मू-कश्मीरराज्यविलयनसम्बद्धः अनुच्छेदः ३७० प्रावधानः, भाषानीतिः।
'''गुरुगोविन्दसिंह'''स्य व्यक्तित्वम् अतीव विशिष्टम् | गुरुगोविन्दस्य प्रतापं, समाजमुद्दिश्य तस्य विचारधारां परिचाययन् विवेकानन्दः अवोचत्, "स्मरतु ! भवान् देशसौभाग्यं यदि इच्छति, तर्हि गुरुगोविन्दसिंहः इव भवतु। भारतवासिनां सहस्रशः दोषाणाम् अन्वेषणावसरे, तेषु हिन्दुरक्तं प्रवहतीति मा विस्मरतु भवान्। ते भवतः हानिं कर्तुम् उद्यताः चेत् अपि चिन्ता मास्तु, तान् आराध्यदेवान् मत्वा पूजयतु। भवन्तं ते दूषयन्ति चेदपि तैः सह सस्नेहं सम्भाषणं करोतु। ते भवन्तं बहिष्कुर्वन्ति चेत् दूरं गत्वा शक्तिमान् गुरुगोविन्दसिंह इव मृत्युगुहायां सुखं निद्रातु। तादृशः एव नैजहिन्दुरूपेण स्थातुं शक्नोतीति आदर्शः अस्माकं पुरतः सर्वदा भवेत्। आगच्छतु वयं विवादान् सर्वान् अपसार्य आत्मीयत्वं सर्वत्र प्रवाहयामः " इति।
('''[[गुरुसरदार गोविन्दवल्लभभाई सिंहपटेल|अधिकवाचनाय »]]''')
}}
 
"https://sa.wikipedia.org/wiki/फलकम्:मुख्यपृष्ठं_-आधुनिकलेखः" इत्यस्माद् प्रतिप्राप्तम्