"सदस्यः:NehalDaveND/प्रयोगपृष्ठम्/17" इत्यस्य संस्करणे भेदः

0
0
पङ्क्तिः १:
 
== अलङ्कारग्रन्थाः ==
अलङ्कारशास्त्रेतिहासशब्दस्य योऽभिप्रायः साम्प्रतिकयुगे गृह्यते, भारतीयपण्डितैः सोऽभिप्रायो न गृहीतः । विश्रुतानां सर्वेषामेवालङ्कारिकाणामितिहासं ते न प्रमाणयन्ति, केवलमलङ्कारसंवर्धने कृत सहायकानामेवे। | चरितं तैरग्रथ्यत । प्राचीनालङ्कारिकाणां, बहवो ग्रन्थाः प्रकाशं नायाताः। क्वचन गृहकोणे सीदत्सु तेषु वर्तमानोऽपीतिहासोऽवर्तमान इव । कतृ नामानि येषु ग्रन्थेषुपलभ्यन्तेऽपि तत्राऽपि रचनाविषये परिचयविषये च औदासीन्यमेव । एवं स्थितौ तिथिक्रमनिर्धारणं परिचयप्रदानं च शिलालिप्यादिस्वल्पप्रमाणाधारकं परोक्तमेव विश्वसितुं बाध्यते । अपि चालङ्कारशास्त्रेतिहासो न केवलमालङ्कारिकानां जीवनकथामात्रविषयीकरोति, तत्र तदीय कृतिमूल्यनिर्धारणादि प्रधानतयाऽपेक्ष्यते, तत्कार्यञ्च गम्भीरमध्ययनमपेक्षते । अपि चालङ्कारिकानामाचार्याणां पौर्वापर्यस्य प्रामाणिकपरिचयमपेक्षितो भवति । इतिहासकाराणां मध्ये परस्परसमयनिर्धारणे मतमतान्तरमपि विद्यते । अतएवालङ्कारिकाणां पौर्वापर्यक्रमे समयनिर्धारणे च मतमतान्तरं विहायात्रं मया मात्रनिर्णायककालस्यैव यथासम्भव उल्लेखः कृतः ।
 
अलङ्कारनिबन्धकर्तारः प्राचीन अर्वाचीनाश्चाचार्याः बुडवो हि सजाताः । तत्रालङ्काराणां विकासक्रमदष्ट्यैव मयाऽलङ्कारिकाणां द्वौ वग निधारित तद्यथा प्रथमवर्गे–भरत-महषिव्यास-भट्टि-भामह-दण्डी-उद्धट-वामन-रुद्रट-व्यासभोजराज-मम्मट-रूय्यक-शोभाकरमित्र-अमृतानन्दयोगी-जयदेव-जयरथ-द्वितीय वाग्भट-विश्वनाथ-केशवमिश्र-अप्पयदीक्षित-जगन्नाथप्रभुतयः ग्रन्थकर्तारः सन्ति । द्वितीयवर्गे च मेधावी-श्रीमत्स्थविर-आनन्दवर्धन-राजशेखर-मुकुलभट्ट-प्रतीहारेन्दुराज-भट्टतौत-भट्टनायक-कुन्तक–अभिनवगुप्त-धनञ्जय-धनिक-राजानक महिमभट्ट-क्षेमेन्द्र-नमिसाधु-सागरनन्दी-हेमचन्द्र-वाग्भट्ट-रामचन्द्र-गुणचन्द्र-अरि सिंह-शारदातनय-देवेश्वर-विद्याधर-विद्यानाथ-शिङ्गभूपाल-भानुदत्तंमिश्र-रूपगोस्वामी-कविकर्णपूर-कविचन्द्र-आशाधरभट्ट-नरसिंहकवि-विश्वेश्वरपण्डित-अच्युतरायप्रभृतयः अलङ्कारनिबन्धकर्तारः सन्ति । एतेषामाचार्याणां समयादि निरूपणे मया प्राञ्च इतिहासकाराः अनुसृताः स्युः । ग्रन्थस्य कायो यथा न स्थूलः स्यात् विवक्षितश्चार्यों न हीयते इति सावधानेन मया संक्षिप्ता सरणिराश्रिता, तथापि दुर्बोधतां दवयितुमतीव सतकीदृगाश्रितैवेति ।
 
शारदातनयस्य भावप्रकाशेन विदितो भवति यद्भरतो हि नन्दिकेश्वरेण नाट्यशिक्षां सम्प्राप्याभिनयस्य प्रचारं कर्तुमग्रेसरो बभूव । (सम्प्रत्यपि नन्दिकेश्वर कृताभिनयदर्पणः उपलब्ध एवाऽस्ति । अस्मिन्ग्रन्थे यत्र तत्र भरतस्य नामोल्लेखपूर्व कनाट्यशास्त्रस्य संकेतों मिलति । तेन चाभिनय दपर्ण इति भरतोत्तरकालीनर्वाचीनरचना प्रतीतो भवति । भरतार्णवनामकस्या प्येकस्य ग्रन्थस्योल्लेखो मिलति । अस्य ग्रन्थस्यापि कर्ता नन्दिकेश्वर एवासीत् । अस्य ग्रन्थस्य विषयस्तु तालाभिनय एवाऽस्ति । अभिनवभारत्यामभिनवगुप्ते नाऽपि भरतपूर्वकालीनकश्यपमुनेः रागसम्बन्धिनश्चर्चा कृताऽस्ति । काव्यादशंस्य हृदयङ्गमा नामकटीकायां लिखितमस्ति-पूर्वेषां कश्यप-वररुचि प्रभृतीनामाचार्याणां लक्षणशास्त्राणि संहृत्य पर्यालोच्य' इति । अनेकोद्घरणेन सिद्धो भवति यदिमे आचार्याः कतिपयकाव्यशास्त्रीयग्रन्थान् प्रणीतवन्तः । काव्यादर्शस्यैव वादिजङ्घालकृत-श्रुतानुपालिनी-नामकव्याख्यायामाचार्य दण्डि पूर्ववतनः काव्यशास्त्रीयाचार्याणां वर्णनप्रसङ्ग काश्यप नन्दिस्वामी-ब्रहादसा नामप्युल्लेखो मिलति भावप्रकाशने शारदातनयेनाऽपि नाट्यविशेषज्ञरूपे सदाशिव-गौरि-वासुकि-नारद-अगस्त्य-व्यास-आञ्जनेयादिकमाचार्याणां स्मरणञ्च कृतम् । संगीतरत्नाकरेऽपि नाट्यसंगीतादिवर्णनप्रसङ्गे श्रूयमाणानामध्ये यानां कतिपयाचार्याणां सदाशिव-ब्रह्मा-भरत-कश्यप-मतङ्ग-कोहल-नारदआञ्जनेय-नन्दिकेश्वरादीनां वर्णनं मिलति ।
 
मिथिलाप्रान्तस्य कर्णाटकवंशीयराज्ञा नान्यदेवेन भरतकृतनाट्यशास्त्रस्य सरस्वतीहृदयालङ्कारहारनामिकैका टीका लिखिता। मूलतः एष ग्रन्थो रूपेणाऽस्ति । ग्रन्थमहार्णवनामकमपरोऽपि ग्रन्थमनेन लिखितम् । तर तेनायं मिथिलेश्वरेण रचितोऽध्यायोपनद्धाभिधः ।
 
अस्मिन् ग्रन्थेऽपि कश्यप-बृहत्कश्यप-दत्तिल-नारदादीनाम् आचाधि वर्णनं मिलति । अनेन सम्भाव्यते यदि तेषामाचार्याणां पुरा बहवो शन्थाः आसन् । किञ्चाधुना तेष्वेकोऽपि ग्रन्थः नोपलभ्यते । उपलब्धेषु प्राचीनन्थेध्वस्मिन्विषये भरतमुनिप्रणीत-नाट्यशास्त्रमेव मया प्राचीनतम रूपेण प्रस्तुतः ।
 
अत्रालङ्कारशास्त्रस्याचार्याणां पौर्वापर्यस्य संक्षिप्तपरिचयोऽपेक्षितत्वात्तेषामाचार्याणां समयनिरूपणे मतमतान्तराणां विचारञ्च विहाय मात्रनिर्णयात्मककालस्यैव यथासम्भव उल्लेखः कृतो मया । सर्वप्रथममाचार्याणामुल्लेखः वर्गद्वये कृतम्। 'क' वर्गे तेषामेवाचार्याणां संग्रहणं कृतम् मया यैरलङ्काराणां विकासक्रमे नवनवोद्भावनं कृतम् । ‘ख’वर्गे अलङ्कारशास्त्रस्य प्रसिद्धानामाचार्याणां विवरण प्रस्तुतम् ।
 
== नाट्यशास्त्रम् ==
मुनिभरतो हि रससम्प्रदायस्य प्राचीनतमाचार्यः । एतन्मतेन नाटके रसस्यैव प्राधान्यं तिष्ठति । कविकुलचक्रैचूडामणिना महाकविकालिदासेन तु आचार्यमेनं देवतानां नाट्यचौर्यरूपेणोल्लिख्य नाटकेष्वष्टरसानां विकासस्तथाप्सरोद्वारा तदभिनयः पूर्वसञ्जात इति निर्दिष्टम् तथा च विक्रमोर्वश्याम्---
 
'''मुनिना भरतेन यः प्रयोगो भवतीष्वष्टरसाश्रयः प्रयुक्तः ।'''
 
'''ललिताभिनयं तमद्य भर्ता मरुतां द्रष्टुमनाः सलोकपालः।।'''[1]
 
अनेनाप्यस्य समयः कालिदासात्पूर्ववादीशर्वीय द्वितीयशताब्द्याः पूर्व-. मेवासीदिति प्रतिपादयन्तीतिहासकाराः । एतस्य नाट्यशास्त्रस्य राहुलकृता टीकाभिनवगुप्तेन स्मर्यते । राहुलकस्य नाम तमिलमहाकाव्ये ‘मणिमेकलये ( Manimekalai ) समायातम् । मणिमेकलये नामकस्य तस्य तमिलग्रन्थस्य रचनाकालः द्वितीयशताब्दी ई० पूर्व एव मन्यते । अतोऽपि भरतस्य तत्पूर्वकालिकता समायाति । भरतस्य प्राचीनाष्टीकाकारा एव तस्य प्राचीनतरतां साधयन्ति । एतस्यैव महामुनेर्नामान्तरं वृहद्भरतश्चादिभरतश्च कथयन्ति । साहित्यशास्त्रीयपर्यालोचनेन पौराणिकवंशक्रमानुसारेण चाप्ययं महानुभावो हि व्यासवाल्मीकिभ्यां पश्चाद्वर्ती भवन्नपि इतरेभ्यः समेभ्यः संस्कृतालङ्कारशास्त्रीयलेखकेभ्यः प्राचीनः प्रतीयते ।
 
भरतद्वयं प्रथमे एको वृद्धभरत आदिभरतो वो, अपरो भरतः। वृद्धभरतस्य कृति द्वादशसाहस्रीशब्देन व्यवहृता, भरतस्य कृतिश्च शतसाहस्रीशब्देन । अनेनाऽपि भरतस्य प्राचीनतयैव तं मुनिमाहुः । कतिपयसमालोचकाः काल्पनिकपुरुषरूपेणामुं प्रतिपादयन्ति । किन्तु तेषामिदं भ्रममेवास्ति । एतन्निश्चप्रचं वर्तते यदयं प्राचीनतमोऽलङ्कारशास्त्री, रसशास्त्री, नाट्यशास्त्री चेति ।।
 
एतन्निमतं नाट्यशास्त्रमस्ति । ग्रन्थोऽयं साम्प्रतं द्विविधरूपेण प्राप्तो भवति- 'नाट्यवेदागमः' नाटयशास्त्रञ्चेति नाम्ना । प्रथमस्यैव ग्रन्थस्य नामान्तरं द्वादशसाहस्री, द्वितीयस्य षट्साहस्रीति । शारदातनयमतानु प्रथमग्रन्थस्यैव षट्साहस्रीति संक्षिप्तरूपं वर्त्तते । एतदेव भावप्रकाशेऽप्युक्तम् -
 
'''एवं द्वादशसाहस्रैः श्लोकैरेकं तदर्थतः ।।'''
 
'''षड्भिः श्लोकसहस्रर्यो नाटयवेदस्य संग्रहः ॥''' इति
 
नाट्यशास्त्रमिदं भारतीयललितकलायाः विश्वकोषः, यतो ह्यत्र नाट्यत्व प्राधान्येऽपि तदपकारकछन्दोऽलङ्कारसंगीतशास्त्राणां मूलसिद्धान्तस्यापार पादनं वयमवलोकयामः । ग्रन्थेऽस्मिन् त्रयोंऽशाः कारिका-सूत्रभाष्यानु१२५ श्लोकाः । तत्र मूलग्रन्थे सूत्रभाष्ययोरेव समावेश आसीत् । अन्येऽशाश्च विकास क्रमेण सम्मिलिताः । मुलग्रन्थाभिप्रायस्य बोधनाय विस्तरेण कारिकाया निमितिः सञ्जाता। गुरुशिष्यपरम्परया समागतानि आर्याऽनुष्टुप्छन्दसरूिपनिबद्धानि प्राचीनपद्यानि आनुवंश्यश्लोकेषु विद्यमानानि सन्ति । अभिनवगुप्तटीकानुसारेणानुवंश्यश्लोकाः हि प्राचीनतराचार्यनिर्मिताः सन्तीति प्रतीयते । - तथा चोक्तमभिनवभारत्याः षष्ठाध्याये—'ता एता ह्याचार्या एकप्रघट्टकतया पूर्वाचार्यैः लक्षणत्वेन पठिता मुनिना तु सुखसंग्रहाय यथास्थानं निवेशिताः ।' नाट्यशास्त्रमेतदभिनवगुप्तष्टीकाकारः भरतसूत्रमितिनाम्ना निदिशति- 'षट्त्रिंशकं भरतसूत्रमिदम् विवृण्वन् ।' इति । नान्यदेवस्तु भरतं 'सूत्रकृत्' शब्देन परामृशति-- 'कलानामानि सूत्रकृदुक्तानि यथा' इत्यादिना । अभिनवगुप्तोऽपि ग्रन्थमिदं भरतसूत्रनाम्नाभिहितम् । स्वयं मुनिना भरतेनाऽपि लिखितम् -
 
'''विस्तरेणोपदिष्टानामर्थानां सूत्रभाष्ययोः ।'''
 
'''निबन्धो यः समासेन संग्रहं तं विदुर्बुधाः ।।'''
 
'''रसाभावाह्यभिनया धर्मीवृत्ति प्रवृत्तयः ।'''
 
'''सिद्धिः स्वरास्तथातोद्यं गानं रङ्गञ्च संग्रहः ॥'''
 
'''अल्पाभिधानेनार्थो यः समासेनोच्यते बुधैः ।'''
 
'''सूत्रतः सा तु विज्ञेया कारिकार्थं प्रयोगिनी ॥'''
 
'''एवमेषोऽर्थं सूत्रार्थो व्यादिष्टो नाट्यसंग्रहः ।'''
 
'''अतः परं प्रवक्ष्यामि सूत्रग्रन्थविकल्पनम् ॥'''[6]
 
अनेन ग्रन्थेऽस्मिन् भरतेन सूत्रभाष्यकारिकानां संग्रहः कृत इति सिद्धयति ।। अभिनवगुप्तोऽपि कथयति यदस्मिन् ग्रन्थे भरतेन सूत्रमुक्त्वा पश्चात्तस्य वृत्तिस्तथा सूत्रविवरणस्वभावानां कारिकानामुल्लेखः कृतः । तद्यथाऽभिनवभारत्याम्-'सूत्र-सूत्रकं लक्षणं वक्ष्यामि । तेनैव च कारिका सङगृहीता। ग्रन्या भाष्यं तत्कृतं च विकल्पनमाक्षेपप्रतिसमाधानात्मकमितिपरीक्षा निरुक्तराम वाच्या प्रतिज्ञाता। सूत्रविवरणस्वभावा तु कारिकासूत्रमपि प्रकाशयन्ती बहुराक्षेपसमाधानव्याकुलशिष्यजनस्थितिपक्षं निरूपणेनोपकरोति इति भाष्यबादस्याः पाठः । अभिनवटीकातः एव विदितो भवति कतिपयनास्तिकाण मतेऽस्य नाट्यशास्त्रस्य त्रयः आचार्याः आसन् । ते च सदाशिव, भारतश्चेति । किञ्चाभिनवगुप्तेन खण्डितेयं मान्यता-'एतेन सदाशिवसाभारतमतत्रयविवेचनेन ब्रह्ममतसारप्रतिपादनाय मतत्रयी सारासाररचनं तद्ग्रन्थखण्डप्रक्षेपेण विहितमिदं शास्त्रं न तु मुनिविरचितमिति दाहर्नास्तिकधुर्योपाध्यायास्तत्प्रयुक्तम् सर्वान पह्ववनीया बाधितशब्दलोकप्रसिद्धिविरोधाच्च ।' तत्रैवान्यदपि—'एकस्य ग्रन्थस्यानेकवक्तृवचनसन्दर्भमयत्वे प्रमाणाभावात् स्वपरव्यवहारेण पूर्वपक्षोत्तरपक्षादीनां श्रुतिस्मृतिव्याकरणतर्कादिशास्त्रेष्वेकविरचितेष्वपि दर्शनात् ।
 
सम्प्रत्युपलभ्यमानं नाट्यशास्त्रं भरतस्यैव कृतिः नात्र सन्देहः । इदं क्वचिषट्त्रिंशदध्यायात्मकं क्वचिच्च सप्तत्रिंशदध्यायात्मकं कथ्यते । मन्ये लेखकप्रमादात् कोप्यध्यायो विभक्तः स्यात् । अभिनवगुप्तः स्वीयायां भरतसूत्रस्य टीकायां सप्तत्रिंशतोऽध्यायां विलखितवान् । प्रत्यध्यायप्रारम्भेऽसौ श्लोकमेकं शिवनमस्कारात्मकं लिखति येन काश्मीरकशैवप्रत्यभिज्ञा शास्त्रीय षट्त्रिंशत्तत्त्वानि निर्दिशितानि भवन्ति । सप्तत्रिशे चाध्यायोऽणुत्तरं शिवं स्तौति -
 
'''आकाङ्क्षाणां प्रशमनविधेः पूर्णभावावधीनाम्,'''
 
'''धाराप्राप्तस्तुति गुरुगिरां गुह्यतत्त्व प्रतिष्ठा ।'''
 
'''ऊर्ध्वादन्यः परभुविनवा यत्समानं चकास्ति,'''
 
'''प्रौढानन्तं तदहमधुनाऽनुत्तरं धाम वन्दे ॥''''
 
इदमपि सम्भवति यदभिनवगुप्त एव तत्त्वानि अनुत्तरं च निर्देष्टुमिच्छुः कमप्यध्यायं विभज्याध्यायसंख्या वधितवान् स्यात् । प्राप्ते भरतसूत्रे ५००० श्लोकास्तथा कियद् गद्यमपि विद्यते । षष्ठे सप्तमे, अष्टाविंशे चाध्याये केवले गद्यभागो लभ्यते । ये केचनेतिहासविदः कथयन्ति यन्नाट्यशास्त्रं नैकस्मिन्काले रचितमपितु दीर्घकालिकस्यालङ्कारिकतत्वनिर्णयप्रयासस्य फलमिदं शास्त्रमिति तन्न युक्तम् । सम्प्रत्युपलब्धेऽस्मिन्नाट्यशास्त्र षट्त्रिंशद् लक्षणातिरिक्त चतुर्णामलङ्काराणामपि निरूपणोऽभवत् । मुख्यतः भरतो रससम्प्रदायस्याचार्यः । एतन्मते नाटकेषु रस एव प्रधानम् । अलङ्कारास्त्वनेन प्रसङ्गतो निरूपिता ६-७-१६ अध्यायेष्वेव ।
 
== विष्णुधर्मोत्तरपुराणम् ==
(पञ्चदशाभिनवालङ्काराः १५+३=१८) - प्राचीनमुनीनां समयनिर्धारणमतिकष्टसाध्यं कार्यम्, यतस्तैः स्वविषये कमपि कुत्रापि च न लिखितम् । अस्यां स्थितौ विष्णुधर्मोत्तरपुराणस्याऽपि कर्तुर्मुनिव्यासस्यान्यकृतैरुल्लेखैः अनुमानेन च समयो व्यवस्थापनीयो भवति । अस्मादेव हेतोर्मुनिव्यासस्य विष्णुधर्मोत्तरपुराणस्य च समयसम्बन्धेऽपि मतभेदा वर्तन्ते ।
 
विष्णुधर्मोत्तरस्य मूलतः धार्मिकदृष्ट्या एवाधिक महत्त्वं वर्तते । समाजस्य तात्कालिकस्वरूपबोधनायाप्यस्य पुराणस्य महानुपयोगः । अस्मिन्पुराणे प्राचीनभारतस्येतिहासोऽपि निहितः । अस्योक्तानामितिवृत्तानां प्रामाणिकत्वं शिलालेखादिभिरपि कर्तुमारब्धम्, अतो विदेशीयाः अपि विद्वांसः पुराणेऽस्मिन् धृतादराः प्रतिभान्ति । पुराणेऽस्मिन् सर्वाण्यपि ज्ञातव्यवस्तूनि वणतानि, येन तत् ‘भारतीयज्ञानकोषः' इत्यभिधीयते ।
 
भारतीयैतिहासिकपरम्परया कौटिल्यकृतमर्थशास्त्रं विष्णुधर्मोत्तरं निर्दशति तत्र हि विनेयेभ्यो राजपुत्रेभ्यः पुराणमिममुपदेष्टव्यमिति निदष्टम्।। अर्थशास्त्रञ्चेदं चन्द्रगुप्तराज्यकालिकमिति ततः पूर्वं पुराणरचनं सिद्धयति । विष्णुधर्मोत्तरपुराणे एव मौर्यवंशस्य प्रामाणिक विवरणं लभ्यते । तदिमानि सर्वाणि तत्त्वानि पुराणस्यास्य चन्द्रगुप्तात्पूर्वतनकालेऽस्तित्वं समर्थयन्ते । ईसवीयशतकात् षट्शतकपूर्वतनकालेऽस्य विष्णुपुराणस्यास्तित्वमासीदिति कल्पनाऽपि सत्यानुमोदिता । इदं तु सत्यम् यदस्य पुराणस्यादिमं रूपं सम्प्रति नावाप्यते । पुराणमिदं कदाचिदेकत्र समये नारच्यत, समये-समये तत्राध्याया योजिताः गुप्तकालपर्यन्तं तेषां वर्तमानरूपमुपपन्नमासीत् ।
 
विष्णुधर्मोत्तरपुराणस्य तृतीयखण्डस्य पञ्चत्रिंशत् अध्यायेष्वलङ्कारशास्त्रीयविषयस्य वर्णनमस्ति । तत्र प्रथमध्याये चित्र सूत्रविधानानुसारेण देवाचैनं विहितम् । तद्यथा -
 
'''चित्रसूत्रविधानेन देवता विनिमताम् ।'''
 
'''सुरूपां पूजयेद्विद्वान् तत्र सन्निहिता भवेत् ।।'''[6]
 
अस्य खण्डस्य चतुर्दशाध्याये सप्तदशाऽलङ्काराणां वर्णनमस्ति । तद्यथाअनुप्रास-रूपक-यमक-व्यतिरेक-श्लेष-उत्प्रेक्षा-अर्थान्तरन्यास-उपन्यास-विभावनाअतिशयोक्ति-वार्ता-यथासंख्य-विशेषोक्ति-विरोध-निन्दास्तुति-निदर्शन-अनन्वयाश्च एतेष्वलङ्कारेषु पञ्चदशाऽभिनवालङ्काराः सन्ति । अस्यैव सप्तदशाध्याये रूपकानो निरूपणमस्ति । अत्रैव रङ्गे दृश्यनियोजनमप्यस्ति । तद्यथा -
 
'''मरणं राज्यविभ्रंशो नगरस्योपरोधनम्,'''
 
'''एतानि दर्शयेन्न तथा युद्धं च पार्थिव ।'''
 
'''प्रवेशकेन कर्तव्यं तेषामाख्यानकं बुधैः ।।'''[7]
 
अत्रैव चतुस्त्रिशदध्याये नृत्यस्य महिमावर्णनप्रसङ्गे -
 
'''देवताराधनं कुर्यात् यस्तु नृत्तेन धर्मवित् ।'''
 
'''स सर्वकामानाप्नोति मोक्षोपायं च विन्दति ।।'''
 
'''धन्यं यशस्यमायुष्यं स्वर्गलोकप्रदं तथा ।'''
 
'''ईश्वराणां विलासं तु चार्तानां दुःखनाशनम् ।'''
 
'''मूढानामुपदेशं तत् स्त्रीणां सौभाग्यवर्णनम् ॥'''[2]
 
तत्रैव स्थायीसञ्चारीभावयोर्भेदं वर्णयति
 
'''बहूनां समवेतानां रूपं यस्य भवेद् बहु ।'''
 
'''स मन्तव्यो रसस्थायी शेषाः सञ्चारिणः स्मृता ।।'''[3]
 
भरतमुनेः पश्चात् विष्णुधर्मोत्तरपुराणस्य नामोल्लेखनेऽत्र अलङ्काराणां विकासक्रमे विष्णुधर्मोत्तरस्य द्वितीय स्थानमस्त्येतावतेव नान्यदिति । यतो हि विष्णुधर्मोत्तरपुराणस्यालङ्कारशास्त्रीयभागे नाट्यशास्त्रस्यानेकानि पद्यानि उद्धृतानि सन्ति । येनास्य स्वतः परर्वात्तत्वं सिद्धयति । म० म० काणेमहोदयस्तु स्व ‘हिस्ट्री आफ संस्कृत पोयेटिक्स' नामकग्रन्थे विष्णुधर्मोत्तरस्य काव्यशास्त्रीयभागम् षष्ठशतकात् प्राचीनतरं मन्यते ।
 
== भट्टिकाव्यम् ==
( नवीनालङ्काराः २१+१७ ) व्याकरणसम्बन्धिपदप्रयोगनियमानां ज्ञानायान्यशास्त्रीयज्ञानसौलभ्याय च भट्टिकाव्यं प्रसिद्धतरमस्ति -
 
'''दीपतुल्यः प्रबन्धोऽयं शब्दलक्षणचक्षुषाम् ।'''
 
'''हस्तादर्श इवान्धानां भवेद् व्याकरणादृते ॥'''[4]
 
काव्यमिदं भट्टिस्वामिना प्रणीतम् । तन्नाम्नैव चास्य प्रसिद्धिरपि जाता । अस्य काव्यस्य रचयितुः समयः भट्टिस्वामिना स्वयमेव स्वग्रन्थे लिखितम् -
 
'''काव्यमिदं लिखितं मया बलभ्यां श्रीधरसेननरेन्द्रपालितायाम् ।'''
 
'''कीत्तरतो भवतान्नृपस्य तस्य क्षेमकरः क्षितिपो यतः प्रजानाम् ॥'''[5]
 
अनेनास्य काव्यस्य रचना श्रीधरसेनर्नामकनृपस्य प्रशासनकाले सौराष्ट्रस्य राजधान्यां बलभीनामकनगर्यामेवाभवत् । अतः भट्टिस्वामिनः समयं निश्चेतं बलभीनृपतेः श्रीधरसेनस्य समयस्य निर्धारणमावश्यकम् । सौराष्ट्र श्रीधर सेननामकाश्चत्वारो राजानः ५०० ई० तः ६५० ई० पर्यन्तमजायन्त, तेषु कत -मस्य श्रीधरसेनस्य समये भट्टिः जायतेति निश्चेतव्यम् । म. म. पी. वी. काणे महोदयमतानुसारेण महाकविभट्टिस्वामिना प्रथमश्रीधरसेनस्य नाम निजमहाकाव्ये निदष्टः । तेनास्य कालः षष्ठशतकस्योत्तराद्धेऽनुमीयते । श्रीधरसेनद्वितीयस्यैकः शिलालेखः प्राप्यते, यत्र भट्टिनाम्ने विदुषे राज्ञा कृतस्य भूमिदानस्य वार्ता मिलति । यद्ययं भट्टि: भट्टिकाव्यस्यैव प्रणेता तदा तस्य समयः ६१० ई० मन्तुं शक्यते । अलङ्काराणां विकासक्रमदृष्ट्याऽस्य कवेः ४७० ई० तः ५७० ई० पर्यन्तमेव निश्चितं भवति । अन्यकल्पनायामपि अलङ्कारविकासक्रम दृष्ट्या षष्टशतकाद्ध्र्वं नानेतुं योग्यः ।
 
अत्र काव्ये द्वाविंशतिः सर्गाः येषु संहत्य १६२९ मिताः श्लोकाः विद्यन्ते । अस्य काव्यस्य निर्माणउद्देश्यं मनोविनोदेन सह संस्कृतव्याकरणस्य ज्ञानमिति । तत्र प्रथमप्रकीर्णकाण्डे १-५ सर्गाः सन्ति । द्वितीयेऽधिकारकाण्डे ६ तः ९ सर्गाः, तृतीयप्रसन्नकाण्डे १० तः १३ सर्गाः, चतुर्थतिङन्तकाण्डे १४-२२ सर्गाः सन्ति । प्रसन्नकाण्डे एवानेन काव्यशास्त्रीयविषयस्य प्रतिपादनं कृतः । दशमसर्गेऽनेनाष्टत्रिंशदलङ्काराणां प्रदर्शनं कृतः, येषु द्वौ शब्दालङ्कारौ स्तः । एकादशसर्गे माधुर्यगुणस्य तथा द्वादशसर्गे भाविकाऽलङ्कारस्योदाहरणानि च सन्ति । त्रयोदशसर्गस्य पञ्चाशत् श्लोकेषु भावसमस्योदाहरणान्यनेन प्रस्तुतानि । भट्टिस्वामिनैकविंशतिः अभिनवालङ्काराणां सप्तदशपूर्वप्रतिपादितालङ्काराणां निरूपणं कृतः ।
 
भट्टिकाव्यमिदं किमपि प्राचीनमीदृशं काव्यमालोक्यैव प्रणीतवान् । पातजलमहाभाष्ये कतिपयानि व्याकरणप्रयोगपराणि पद्यान्युधृतानि सन्ति । तेन ज्ञायते यत् पतञ्जलेरपि समये किमपि तादृशं काव्यमासीत् । तदेव किमपि काव्यमाधारीकृत्य भट्टिना स्वकाव्यं विरचितं स्यात् । भट्टिकाव्यस्य निम्नलिखितः श्लोकस्तु एकावलीनामकस्यालङ्कारस्य प्रसिद्धमुदाहरणम् -
 
'''न तज्जलं यन्न सुचारूपङ्कजं न पङ्कजं तद्यदलीनषट्पदम् ।'''
 
'''न षट्पदोऽसौ न जुगुञ्ज यः कलं न गुञ्जितं तन्न जहार यन्मनः ।।'''
 
अस्य काव्यस्यादिमेषु चतुषु सर्गेषु प्रकीर्णविषयाः सन्ति । तदनु त्रयोदशसर्गान्तमलङ्काराणां निवेशः, ततो द्वाविंशं सर्गं यावत् लकारप्रयोगाश्चेति सर्वात्मना काव्यशास्त्रमिदम् । किञ्चालङ्कारशास्त्रीयविषयाणां निरूपणादेवात्र भट्टिरलङ्कारशास्त्रस्याचार्य रूपेण निर्दष्टोऽस्ति।
 
== काव्यालङ्कारः ==
( नवीनालङ्कारौ २+३६= ३८ ) भामहः काश्मीरदेशे समुत्पन्नः प्रसिद्धो विद्वानासीत् । तदेतत् ‘काव्यालङ्कार' ग्रन्थस्य ‘सुजनावगमाय भामहेन ग्रथितं रक्रिलगोमि सूनुनेदम्' इति श्लोकेन परिबोध्यते । गोमिपदं बौद्धसाहित्ये बाहुल्येन प्रयुज्यते चन्द्रगोमीत्यादिवतएन चन्द्रगोमिनं केचित् ‘रक्रिलगोमिनो भ्रातरमाहुः । अतोऽयं बौद्ध इति, किञ्च स्वीयस्य काव्यालङ्कारस्यारम्भेऽयं सार्वसर्वज्ञस्य स्तुति कृतवानतश्च बौद्धोऽयमिति बहुभिः सन्दिह्यते । वस्तुतस्त्वयं हिन्दूधर्मावलम्बी आसीत् यतोऽनेन यागादीनां सोमपानस्य च रामायणीपात्राणाञ्च प्रशंसा यथाप्रसङ्गं कृता । नैतावदेव, अपोहवादस्यालोचनापीमं हिन्दूधर्मावलम्बिनं गमयति । अनेनालङ्कारशास्त्रविषयकः कश्चिद्ग्रन्थो विरचित आसीत्, यस्य विवरणं विदुषा भट्टोद्भटेन कृतम् । यस्य च नाममुद्रिते' पुस्तके 'काव्यालङ्कारः' इत्येव लभ्यते । तदेतदुक्तमुद्भटालङ्कारसारसंग्रहे लघुवृत्तौ प्रथमे वर्गे प्रतीहारेन्दुराजेन–‘स्पष्टमिदं भामहविवरणे भट्टोद्भटेन कृतम्' इति । अयं हि भामहूः प्राचीनतरः अतएव प्रतापरुद्रयशोभूषणे विद्यानाथेनोक्तम् -
 
'''पूर्वेभ्यो भामहादिभ्यः सादरं विहिताञ्जलिः ।'''
 
'''वक्ष्ये सम्यगलङ्कारशास्त्रसर्वस्वसङ्ग्रहम् ॥''' इति ।
 
अलङ्कारसर्वस्वे रुय्यकेणाप्युक्तम्-‘भामहोद्भटप्रभृतयश्चिरन्तनालङ्कारकाराः इति । ध्वन्यालोकलोचने द्वितीयोद्योते-‘ध्वन्यात्मभूते शृङ्गारे०' इति कारिकाया वृत्तिव्याख्यानावसरे ‘उक्तः' इति प्रतीकमुपादायाभिनवगुप्तपादाचार्यंरप्युक्तम्--‘भामहादिभिरलङ्कारलक्षणकारैः' इति । अपि च काव्यप्रकाशस्य दशमोल्लासे कारणमालाऽलङ्कारस्यान्तिमे वृत्तिग्रन्थे-‘इत्यत्र काव्यरूपतां कोमलानुप्रासमहिम्नैव समाम्नासिषुर्न पुनर्हेत्वलङ्कारकल्पनया' इत्येवंरूपे ‘समाम्नासिषुः' इतिपदमुपादाय ‘प्राञ्चो भामहादयः' इति शेषमुपयोजितवन्तः टीकाकाराः । भामहस्य प्राचीनतरत्वादेव मम्मटभटेनापि स्वोक्तेऽर्थे सम्मतिं दर्शयितुं षष्ठोल्लासे 'रूपकादिरलङ्कारः' इत्यादिः, देशमोल्लासे विषमालङ्कारस्थले च ‘सैषा सर्वत्र वक्रोक्तिः' इत्यादिश्च भामहस्य ग्रन्थ उपन्यस्तः ।
 
भामहस्य समयः कः ? इति विषये महान् मतभेदो विद्यते । दण्डिभामयोः कः पूर्ववर्तीति निर्णयोऽत्र प्रकाशमाधातुमलम् । सौभाग्येनाधुना दण्डी भामहात् परवर्ती एव स्वीकृतो विद्वद्भिः। तेहि, दण्डी सप्तमशतकप्रारम्भकालिको मतस्ततश्च भामहस्य षष्ठशतकवतत्वं स्वतः सिद्धयति । अष्टमशतकोद्भवो' भट्टोद्भटो भामहकृतस्य काव्यालङ्कारग्रन्थस्य व्याख्यां कृतवान्, अतो भट्टोद्भटात् पूर्वकालिकतामपि पूर्वोक्तमतेऽनुकूलतां भजते । भामहं दिङ्नागात् परवर्ती तथा धर्मकीत्तबाणभट्टयोः पूर्ववर्तीति निर्णयोऽत्र समुचितमेव । दिङ्नागस्य समयः ५०० ई० अस्ति तथा धर्मकीतिस्तु सप्तमशतकस्य पूर्वार्द्धवर्ती आसीत् । बाणस्तु हर्षवर्द्धनस्य राजकविरासीत् । हर्षवर्द्धनस्य समयस्तु इतिहासप्रसिद्ध एवेति । बौद्धदार्शनिकेन दिङ्नागेन प्रत्यक्षस्य लक्षणं कृतः-- ‘प्रत्यक्ष कल्पनापोढं नाम जात्याद्यसंयुक्तम्' भामहेन स्वकाव्यालङ्कारस्य पञ्चमपरिच्छेदे न्यायनिर्णयस्य वर्णनप्रसङ्ग लिखितः---
 
'''प्रत्यक्ष कल्पनापोढ ततोऽर्थादिति केचन'''
 
'''कल्पनानामजात्यादियोजनां प्रतिजानते ।।'''[6]
 
भामहेन दिङ्नागस्य प्रत्यक्ष कल्पनापोढमित्यंशं यथावदुधृतम्, किञ्च धर्मकीत्तस्तु स्वकीयन्यायविन्दौ दिङ्नागोक्तप्रत्यक्षलक्षणे किञ्चित् संशोधनं कृतवान् ‘कल्पनापोडं भ्रान्तं प्रत्यक्ष निवकल्पम्' अनेन ज्ञातो भवति यद्भामहम् धर्मकीत्तेः प्रत्यक्ष लक्षणस्य ज्ञानो नासीत् । तेन हि भामहः दिङ्नागात् पश्चात् एवं धर्मकीत्तेः पूर्ववर्ती आसीत् । आनन्दवर्धनस्याप्युल्लेखेन सिद्धो भवति यत् भामहस्य समयः बाणात्पूर्वमेवासीत् । ध्वन्यालोकस्येकेन प्रसङ्गेन स्पष्टो भवति तद्यथा -
 
'''दृष्टपूर्वा अपि ह्यर्थाः काव्ये रसपरिग्रहात् ।'''
 
'''सर्वे नवा इवाभान्ति मधुमास इव द्रुमाः ।।'''[7]
 
उदाहरणेन स्पष्टं करोत्यानन्दवर्धनः-‘तथाहि विवक्षितान्यपरवाच्यस्यैव शब्दशक्त्युद्भवानुरणनरूपव्यङ्ग्यप्रकार-समाश्रयेण नवत्वम् । यथा—धरणीधरणायाधुनात्वं शेषः इत्यादौ--
 
'''शेषो हिमगिरिस्त्वं च महान्तो गुरुवः स्थिराः ।'''
 
'''यदलङ्घितमर्यादाश्चलन्तीं विभ्रते भुवम् ॥'''
 
इत्यादिषु सत्स्वपि । तस्यैवार्थशक्त्युद्भवानुरणनरूपव्यङ्गयसमाश्रयेण नवत्वम् । आनन्दवर्धनाभिमते ‘शेषो हिमगिरिस्त्वमित्यादि प्राचीनं वाक्यं भामहस्य काव्यालङ्कारे ( ३।३७ ) अस्ति तथा च ‘धरणीधारणायाधुनात्वं शेषः' इदं नवीनं वाक्यं हर्षचरितस्य चतुर्थउच्छ्वासे १५ अनुच्छेदेऽस्ति । तेन हि स्पष्टो भवति बाणभट्टात् भामहः प्राचीनोऽस्ति । अतोऽनेन ६०० ई० तः पूर्वमेव भामहस्य समयो निश्चितः । केचन पाश्चात्या विद्वांसो भामहकृतौ न्यासपदप्रयोगं दृष्ट्वा भामहं जिनेन्द्रबुद्धेन्यसकारात् परर्वात्तनं मत्वा सप्तमशतकपरर्वात्तत्वमातिष्ठन्ते, परमिदं निर्मलम् अन्येषामेव न्यासग्रन्थस्य भामहेन स्मृतत्वस्य कल्पनीयत्वात् । धर्मकीत्तिदिङ्नागयोर्मध्यकालिकोऽयमिति तदीयप्रत्यक्षलक्षणं दृष्ट्वा कथयन्तो षष्ठशतकमध्यवर्त्तत्वमाहुः अतः विद्वांसो भामहे षष्ठशतकमध्यर्वात्तनमेवाहुः ।
 
अलङ्कारशास्त्रं कदा केन प्रथमाविष्कृतमिति प्रश्नस्योत्तरविचारे भरतस्य नाट्यशास्त्रमेवालङ्कारशास्त्रस्यादिमं मूलमिति यद्यपि वक्तुं शक्यम् तथापि लौकिककाव्यादिषु तेषामलङ्कारादीनां विषयाणां चिन्तनस्य प्रथा प्रथमं भामहेनैव प्रवत्तता स्यात् ततः प्राचीनस्यान्यस्यानुपलम्भादिति बहूनां विश्वासः । यद्यपि भामहस्य मतमतिचिरन्तनं तथाऽपि प्रामाणिका सर्वेप्याचार्यास्तं प्रमाणयन्ति विषयविशेषेषु । भामहेन विरचितः ‘काव्यालङ्कार'नामा एक एव ग्रन्थः प्राप्यते । वृत्तरत्नाकरे भामहनाम्ना लभ्यमानैः श्लोकैरनुमीयते यदनेन कोऽपि छन्दो ग्रन्थोऽपि व्यरच्यत । भामहेन वररुचिकृते प्राकृतप्रकाशे विवरणमप्येक लिखितं प्रकाशितं चानेकै र्मुद्रणालयैरूपलभ्यते । काव्यालङ्कारे षट्परिच्छेदाः । प्रथमे परिच्छेदे काव्यसाधनतल्लक्षणतद्भ दा वणताः । द्वितीये तृतीये चालङ्कारा विवेचिताः । चतुर्थे भरतोक्ता दशदोषाः प्रपञ्चिताः । पञ्चमे न्यायविरोधि दोषो मीमांसितः । षष्ठे विवादास्पदपदशुद्धिः विचारिताः । संहृत्यात्र ४०० श्लोकाः । भरतादनन्तर मयमेव ग्रन्थोऽलङ्कारशास्त्रस्य सर्वमान्यः । काव्यालङ्कारेशब्दार्थयुगलस्य काव्यत्वम्, भरतोक्तदशगुणानां माधुयजः प्रसादेष्वन्तर्भावः, वक्रोक्तेः सकलालङ्कारमूलत्वमिति विशिष्टसिद्धान्ताः । दण्डिनाऽप्यस्य ग्रन्थस्य वह्ननुकृतम् । भामहस्येयं प्रशंसा विश्रूयते -
 
'''‘आलङ्कारिक' इत्याख्या भामहात् भामविन्दत ।'''
 
'''तस्या द्विवचनं जातं जाते दण्डिनि पण्डिते ।।''' इति ।
 
== काव्यादर्शः ==
(६६०-७२० ई० ) । ( त्रयोऽभिनवालङ्काराः ३+३४= ३७ )
 
'''जाते जगति वाल्मीको कविरित्यभिधाऽभवत् ।'''
 
'''कवी इति ततो व्यासे कवयस्त्वयि दण्डिनि ।।'''
 
अलङ्कारशास्त्रस्यायं प्रसिद्ध आचार्यः काव्यादर्शस्य रचयिता । अलङ्कारशास्त्रीयलेखकेषु दण्डी स्वं विशिष्ट स्थानं रक्षति । अस्य महापुरुषस्य वासदेशस्य निर्णयेऽनुक्रम्यमाणे अवन्तिसुन्दरी कथा एव प्रमाणम् तदनुसारेण दण्डिनः पूर्वपुरुषाः गुर्जरप्रान्तस्थिते आनन्दपुरेऽतिष्ठन् । ततस्ते दक्षिणदेशावस्थिते सम्प्रति एलिचपुरसंज्ञया प्रथमानमचलपुरं नाम स्थानमायाताः, तदेवं क़वेर्दाक्षिणात्यभावः सिद्धयति । काञ्ची-काबेरी-चोल-कलिङ्ग-मलयानिलप्रभृतिदक्षिणप्रसिद्धस्थानादीनां दण्डिना कृतो भूयसोल्लेख एव प्रामाण्यतयाऽत्रोपस्थाप्यते । दण्डिनो दाक्षिणात्यत्वे इदमपि प्रमाणान्तरमुपन्यस्यते यत् काश्मीरदेशभवा आलङ्कारिको दण्डिनो मतं प्रायशो नोदधृतवन्तः, तन्मतं नालोचितवन्तः । अतः सुदूरदक्षिणवासित्वं 'निश्चीयते । कौशिकगोत्रोद्भवोऽयं स्वप्रपितामहस्य भारवेराश्रयदातुनू पस्याश्रये काञ्चीनगरे वसतिस्म । काञ्चीराजे शत्रुभिराक्रमणेन पराभूतोऽयं काननेषु निलीय स्थितः । सोऽयं विप्लवः ६५५ तमे खीष्ट्राब्दे बभूव । तदा दण्डी बाल एवाऽसीत् । एतेन दण्डिनः कालोऽपि प्रकाशमानीयते । दण्डिनो वास्तविक नाम न ज्ञायतेऽद्यापि । यथा भवभूतेर्माघस्य च नामविषये श्रूयते, तथैव ‘ब्रह्माण्डच्छत्रदण्डः' इत्यादि दशकुमारमङ्गलाचरणस्य दण्डपदप्रयोगेण दण्डिनाम्नायं ख्यातः ।
 
दण्डिनः समयनिरूपणे निम्नलिखित विषया ध्यातव्या भवन्ति । खीष्ट्रदशमशतकोत्पन्नोऽभिनवगुप्तः लोचननामके स्वग्रन्थस्य तृतीयोद्योते सप्तमकारिकायां लिखति–'यथाह दण्डी–गद्यपद्यमयीचम्पू ख्रीष्टदशमशतकपूर्वार्द्धसमुद्भूतेन प्रतीहारेन्दुराजेनोद्भटरचितस्य काव्यालङ्कारसारसंग्रहस्य लघुवृत्तौ , लिखितम्-‘अत एव दण्डिना -
 
'''लिम्पतीव तमोङ्गानि वर्षतीवाञ्जनं नभः ।'''
 
'''असत्पुरुषसेवेव दृष्टिनिष्फलतां गता ॥'''
 
कन्नडभाषायां 'कविराजमार्ग' नामक एको ग्रन्थः राष्ट्रकूटराजकुमारेण अमोघवर्षेण लिखितः । सः स्पष्टभावेन काव्यादर्शमाधारीकृत्य प्रणीत इति प्रतीयते । कविराजमार्गनामकस्य तस्य ग्रन्थस्य रचनाकालः ८१५ ख्रीष्टाब्दतः ९०५ खीष्टाब्दमध्यवर्ती मन्यते । सिंहलभाषायां प्रथमराजसेनः सियासलकारा (स्वभाषाऽलङ्कार) नामकमेकं ग्रन्थं प्रणीतवान् । महावंशानुसारेण तस्य ग्रन्थस्य रचनाकालः ८४६ ख्रीष्टाब्दतः ८६६ ख्रीष्टाब्दो वर्तते । तस्मिन् ग्रन्थे न केवलं काव्यादर्शस्य प्रभावो लक्ष्यतेऽपितु तत्र काव्यादर्शस्य नामाप्युल्लिख्यते । काव्यदर्शस्याधारेण निर्मितोऽयं ग्रन्थ इति डॉ० वार्नेटेन ‘जर्नल आफ द रायल एशियाटिक सोसायटी' नाम्नि पुस्तके निर्णीतम् । हेत्वतिशयोक्त्यादिषु तु पूर्वरूपेण दण्डिन एव साम्यमवलोक्यतेऽतो नवमशताब्द्याः पूर्ववर्यैवायमित्यत्र न कश्चन सन्देहलेशः । काव्यादर्शीय -
 
'''अरत्नालोकसंहार्यमवार्य सूर्यरश्मिभिः ।'''
 
'''दृष्टिरोधकरं यूनां यौवनप्रभवं तमः ।।'''
 
इति पद्ये बाणभट्टकृतकादम्बर्या चन्द्रापीडाय शुकनासोपदेशे विद्यमानगद्यस्य छाया समापतति । अपि चाग्र तत्रैव -
 
'''भिन्नतीक्ष्णमुखेनाऽपि चित्र बाणेन निर्व्यथः ।'''
 
'''व्याहारेषु जही लीलां न मयूरः•••••••••••• ।।'''
 
इति पद्येन मयूरभट्टेन सह बाणस्याऽपि प्रशस्तप्रशंसा कृता । सप्तमशतकपूर्वार्द्ध विद्यमानस्य वाक्यकर्तुः भर्तृहरेरनुसारेण काव्यादर्शे दण्डिना प्राप्यनिर्वयंविकार्य हेतूनां विभागः कृतः । एवञ्च सप्तमशताब्द्याः पूर्वार्द्ध एव वर्तमानस्य महाकवेर्बाणस्यानन्तरं सप्तमशतकान्ते तथाऽष्टमशतकप्रारम्भ एव दण्डिनः समयः ।
 
वामनेन काव्यालङ्कारसूत्रे यस्या रीतेः काव्यात्मत्वमास्थाय विस्तृता । विवेचना कृता सा रीतिर्दण्डिनः काव्यादरें वणिता मार्गपदेन । दण्डिप्रकाशितो मार्ग एव वामनेन रीतिरुक्ता, अतो दण्डी वामनपूर्ववत्ततया स्वीकर्तव्यो भवति । वामनस्य कालश्च ७७९ ख्रीष्टाब्दतः ८१३ ख्रीष्टाब्दो मन्यते ।
 
'''नीलोत्पलदलश्यामां विज्जिकां मामजानता ।'''
 
'''वृथैव दण्डिना प्रोक्ता सर्वशुक्ला सरस्वती ॥'''
 
इति विज्जिकानामकस्त्रीकवेरुक्तिः प्रसिद्धाः । यदीयं विज्जिका द्वितीयपुलकेशिनो ज्येष्ठसुतस्य चन्द्रादित्यस्य विदुषी पत्नी विजयभट्टारिका एवं तदा तस्याः समयः ६६० तमाब्दनिकटस्थित एव ।
 
एभिः प्रमाणैर्दण्डिनः समयस्य परिसीमा अष्टमशतकमितिमन्तव्यं भवति । वासवदत्ता नामके सुबन्धुप्रणीते प्रसिद्ध गद्यग्रन्थे–'छन्दोविचितिरिव कुसुमविचित्रा', 'छन्दोविचित्तिरिव मालिनी सनाथा' ईदृशं गद्यमस्ति । 'छन्दो• विचित्यां सकलस्तत्प्रपञ्चः प्रदशितः' इति दण्डिनो वाक्येन ‘छन्दोविचिति' नामकग्रन्थस्य दण्डिकृतित्वमास्थातुं शक्यते । तस्य ग्रन्थस्य सुबन्धुना स्मृतत्वे दण्डिनः सुबन्धु पूर्वत्वमायाति । एतेन दण्डिनः समयस्य पूर्वसीमा षष्ठशतकमिति मन्तव्यं भवति । सर्वमुपरितनं सन्दर्भ विभाव्य मैक्समूलर-बेवर-मैकडोनल-याकोविप्रभृतयः पाश्चात्या विद्वांसोऽपि दण्डिनः समयः सप्तमशतकस्योत्तरार्द्ध ( ६६० ई० ) तथाऽष्टमशतकस्य पूर्वाद्धे ( ७२० ई० ) एवं निर्णीताः ।
 
'''त्रयोऽग्नयस्त्रयो वेदास्त्रयोदेवास्त्रयो गुणाः ।'''
 
'''त्रयो दण्डिप्रबन्धाश्च त्रिषु लोकेषु विश्रुताः ।।'''[6]
 
एतदुक्तिमनुसृत्य 'काव्यादर्शः ‘दशकुमारचरितम्' ‘अवन्तिसुन्दरीकथा' इति त्रयो ग्रन्था दण्डिनः कथ्यन्ते । ये तु 'छन्दोविचिति' नामकमपि दण्डिग्रन्थमेव कथयन्ति तन्न युक्तम् । छन्दोविचितिशब्दस्य छन्दः शास्त्र परत्वात् । " दण्डिना निजग्रन्थस्य 'काव्यादर्श' इति नाम विधाय भामहापेक्षयाऽधिकचमत्कारः प्रदशितः । एतेन हि काव्यशोभोत्पादकानेवालङ्कारान् ( काव्यशोभाकरान् धर्मानलङ्कारान् प्रचक्षते ) मत्वा गुणानां विशेषमहत्ता प्रदर्शिता । यदपि भामहोऽपि गुणानङ्गीकरोत्येव परन्तु दण्ड्यपेक्षया स्वल्पमेव प्रदर्शितवान् स्वग्रन्थे । अत्र हि यत्र तत्र भामहसिद्धान्तस्य खण्डनमपि दृश्यते अलङ्कारशास्त्रस्यानुयायी ह्ययम् । भामहेन तु गौडीवैदर्भीरीत्योविभाजनं गतानुगतिकन्यायेन समथतम्, किन्तु गौडी-वैदर्भीरीत्योः पारस्परिकभेदसम्बन्धः सर्वप्रथम स्पष्टतया प्रदर्शनस्य श्रेयः अस्मिन्नेव विद्वद्वरे इत्यवगन्तव्यम् ।
 
एतदीयः 'काव्यादर्शः' परमलोकप्रियो ग्रन्थो यतोऽस्य कन्नडभाषायां ‘कविराजमार्ग' नाम्ना, सिंहलभाषायाञ्च ‘सियवसलका' नाम्नानुवादः कृतः । अत्र ग्रन्थे ४ परिच्छेदाः ६६० श्लोकाः सन्ति । प्रथमपरिच्छेदे-काव्यलक्षणम् तस्य विस्तृतभेदाः, गौडी-वैदर्भीरीत्योर्दशगुणानां सविस्तर वर्णनम् । द्वितीयपरिच्छेदे—सुन्दररूपेण सप्तत्रिशदलङ्काराणां लक्षणोदाहरणानि, तत्रोपमालङ्कारस्यानेकभेदाः निरूपिताः । तृतीयपरिच्छेदे-शब्दालङ्काराणां मध्ये विशेषतया यमकालङ्कारस्य व्यापकरूपेण वर्णनम् । चतुर्थपरिच्छेदे–दशविधदोषाणां लक्षणोदाहरणानि प्रदर्शितानि । अयमलङ्कारसम्प्रदायस्थोऽपि रीतिविवेचकतया ख्यातः । त्रयोऽभिनवालङ्काराः-३+ ३४= ३७ अलङ्काराः ।
 
== काव्यालङ्कारसारसंग्रहः ==
( ७५०-८५० ई० ) ( अभिनवालङ्काराः षट् ६+ ३५ = ४१ )
 
'''विद्वान् दीनारलक्षेण प्रत्यहं कृतवेतनः ।'''
 
'''भट्टोऽभूदुद्भटस्तस्य भूमिभर्तुः सभापतिः ।।'''[7]
 
अयं हि भट्टोद्भट इति उद्भटभट्ट इति उद्भटाचार्य इति व्यपदिश्यते । अयं हि विद्वान् काश्मीरदेशे जनिमलभत । उपर्युक्त राजतरङ्गिण्याश्चतुर्थतरङ्गस्थे ४९५ संख्याके श्लोके कल्हणवचनाज्ज्ञायते यदयं विद्वान् सवेतनः काश्मीराधिपतेर्जयापीडस्य राज्ञः सभायाः पतिरप्यासीत् । तस्य राज्ञः राज्यकालः ख्रीष्ट ७७९ वत्सरमारभ्य ८१३ वर्षपर्यन्त इति तत्कालभवत्वं तत्सभापतेरस्य भट्टोद्भटस्येति राजतरङ्गिणीतो निश्चीयते । तत्र प्रतिदिनं चास्य वेतनं दीनारशतलक्ष्यम् (एककोटिस्वर्णमुद्रा) आसीदिति तत एव ज्ञायते । यदीदं पूर्णतस्तथ्य तदायं महान् धनाढ्यो भाग्यशाली चेति निश्चप्रचम् । अवगतानेकशास्त्रतत्त्वोऽपि मुख्यतयाऽयं वैयाकरणः अतएवाऽनेन -
 
‘क्रियायाः प्रतिषेधेऽपि यत फलस्य विभावनम् । ज्ञेयाविभावना।' इति विभावनाऽलङ्कारलक्षणे ‘कारणस्य निषेधेऽपि' इति प्रयोक्तव्ये कारणपदस्थाने क्रियापदं प्रयुक्तम् । ‘अलङ्कारसर्वस्व' ग्रन्थे राजानकरुय्यकेन 'अलङ्कारविमशिनी' नामिकायां तट्टीकायां तु जयरथेन प्रोक्ताद् ‘भट्टोद्भटादिभिः कारणपद 56
"https://sa.wikipedia.org/wiki/सदस्यः:NehalDaveND/प्रयोगपृष्ठम्/17" इत्यस्माद् प्रतिप्राप्तम्