"श्राद्धम्" इत्यस्य संस्करणे भेदः

पङ्क्तिः ६०:
प्रथमप्रश्नस्य उत्तरम् अस्ति यत्, 'विज्ञजनैः स्वशक्त्यनुसारं श्राद्धकर्म अवश्यमेव करणीयं भवति' – एतादृशानि वचनानि श्राद्धस्य अनिवार्यतां घोषयन्ति। एवं प्रकारेण द्वितीयविरोधः अपि अनुचितः अस्ति, यतः याज्ञवल्क्यस्मृतिः<ref>याज्ञवल्क्यस्मृतिः (1|269)</ref> श्राद्धफलम् अपि घोषयति। यथा - दीर्घजीवनादिकम्। एवमेव प्रकारेण तृतीयविकल्पः अपि स्वीकारयोग्यः नास्ति। श्राद्धकृत्येषु एवं नास्ति यत्, केवलं 'देवदत्त'-आदि-नामयक्तः पूर्वजः एव प्राप्तिकर्ता भवति। स एव पिता, पितामहः, प्रपितामहः इत्येतैः शब्दैः लक्षितः भवति। प्रत्युत वसु-रुद्र-आदित्यानां तानि नामानि अधीक्षकदेवताभिः सह द्योतितानि भवन्ति। यथा देवदत्तादिभिः शब्दैः यत् लक्षितं भवति, तैः न केवलं शरीराणाम् (यथा नामानि दत्तानि सन्ति), अपि तु आत्मनाम् अपि द्योतनं कुर्वन्ति। प्रत्युत तत् शरीरेभ्यः विशिष्टिकृतस्य व्यक्तिगतस्य आत्मनः परिचायकम् अस्ति। एवं पितृ-आदि-शब्दः अधीक्षकदेवताभिः (वसुः, रुद्रः, आदित्यः) सह 'देवदत्त'स्य, अन्येषां च सम्मिलितरूपेण द्योतनं कारयति। अतः वस्वादि अधीक्षकदेवतागणः पुत्रादिद्वारा प्रदत्तेभ्यः भोजन-पानेभ्यः सन्तुष्टाः भूत्वा तेभ्यः, अर्थात् देवदत्तादिभ्यः सन्तुष्टान् कुर्वन्ति। श्राद्धकर्त्रे सन्ततिः, पुत्रं, जीवनं, सम्पत्तिः आदिकं फलत्वेन प्रयच्छन्ति। यथा गर्भवती माता देहादरूपेण (गर्भवतीदशायां स्त्रिणां विशिष्टेच्छा) अन्यजनैः मधुर-अन्न-पानादिद्वारा स्वयं सन्तुष्टिं प्राप्नोति, गर्भस्थितबालम् अपि सन्तुष्टिं प्रयच्छति, तथैव दोहद-अन्नादिकं प्रदायकाय प्रत्युपकारकफलं प्रयच्छति, तथऐव पितृशब्देन द्योतितः पिता, पितामहः, प्रपितामहः वसोः, रुद्राणां, आदित्यानां च रूपाणि सन्ति, ते केवलं मानवरूपे उच्यमानानां देवदत्तादीनां समानाः न सन्ति। अनेन एव एषः अधिष्ठाता देवतागणः श्राद्धे कृतानां दानादीनां प्राप्तिकर्ता भवति, श्राद्धेन तर्पितः (सन्तुष्टः) भवति, एवञ्च मनुष्यस्य पितॄन् सन्तुष्टान् करोति।<ref>(श्राद्धकल्पलता, पृ. 3-4)।</ref> श्राद्धकल्पलता [[मार्कण्डयपुराण|मार्कण्डयपुराणा]]<nowiki/>त् १८ श्लोकानाम् उद्धरणं ददाति। यथा गोवत्सः गोषु विद्यमानां स्वमातरं परिचिनोति, तथैव श्राद्धे उक्ताः मन्त्राः प्रदत्तभोजनं पितॄन् यावत् प्रापयन्ति।
 
'''यथा गोषु प्रनष्टासु वत्सो विन्दति मातरम्। '''
'''तथा श्राद्धेषु दृष्टान्तो (दत्रान्नं) मंत्र: प्रापयते तु तम्।।'''<ref>मत्स्यपुराणम् (141|76), [[वायु पुराण]] (56|85 एवं 83|119-120), ब्रह्मण्डस्य, अनुर्षगपादः (218-90|91)</ref> <ref>उपोद्वातपादः (20|12-13); यथा स्मृतिच. (श्रा. पृ. 448) उद्धरति। अधिकज्ञानाय श्रा. क. ल. (पृ. 5)।</ref>
 
==श्राद्धाय अर्हता==
"https://sa.wikipedia.org/wiki/श्राद्धम्" इत्यस्माद् प्रतिप्राप्तम्