"श्राद्धम्" इत्यस्य संस्करणे भेदः

2
पङ्क्तिः ७०:
* त्रयः प्रशंसनीयाः व्यवहाराः - स्वच्छता, क्रोधहीनता, अत्वरा।
* श्राद्धे महत्त्वपूर्णाः विषयाः - अपराह्णस्य समयः, कुशाः, श्राद्धस्थल्याः स्वच्छता, उदारतया भोजनादीनां व्यवस्था, योग्यब्राह्मणानाम् उपस्थितिः च।
 
==श्राद्धाय अनुचितविषयाः==
तादृशानि अन्नानि, खाद्यानि च, यानि श्राद्धे न युज्यन्ते - मसूरः, राजमा, कोदों, चणकः, कपित्थः, अलसी, पुरातनभोजनं, समुद्रजलनिर्मितं लवणं च। महिष्याः, हरिण्याः, ऊष्ट्र्याः, अजायाः, खुरयुक्तपशोः च दुग्धम् अपि वर्जितं भवति, परन्तु महिष्याः घृतं वर्जितं नास्ति। श्राद्धे दुग्धं, दधि, घृतं च पितृभ्यः विशेषतुष्टिकारकं मन्यन्ते। श्राद्धं कस्याऽपि अपरस्य गृहे, अपरस्य भूमौ च न कर्तव्यम्। यस्यां भूमौ कस्यापि स्वामित्वं न भवति, सार्वजनिकस्थानं भवति, एतादृशौ भूमौ श्राद्धं कर्तुं न शक्यते।
==भाद्रपदे एव श्राद्धं किमर्थम्==
अस्माकम् एकः मासः चन्द्रमसः एकस्य अहोरात्रस्य तुल्यः भवति। अतः ऊर्ध्वभागे निवासकर्तृभ्यः कृष्णपक्षः उत्तमः भवति। [[कृष्णपक्ष]]<nowiki/>स्य [[अष्टमी]]<nowiki/>-तिथ्यौ दिनानाम् उदयः भवति। [[अमावस्या]]<nowiki/>यां तेषां मध्याह्नं भवति, [[शुक्ल पक्ष|शुक्लपक्ष]]<nowiki/>स्य अष्टम्यां च तेषां दिनं भवति। धार्मिकमान्यता अस्ति यत्, अमावस्यायाः दिने कृतं श्राद्धं, तर्पणं, पिण्डदानं च तेभ्यः सन्तुष्टिम्, ऊर्जां च प्रयच्छति। ज्योतिषशास्त्रस्य अनुसारं पृथ्वीलोके देवताः उत्तरगोलार्धे विचरणं कुर्वन्ति, दक्षिणगोलार्धे भाद्रमासस्य पूर्णिमायाः दिने चन्द्रलोकेन सह पृथ्व्याः समीपात् गच्छति। एतस्य मासस्य प्रतीक्षाम् अस्माकं पूर्वजाः आवर्षं कुर्वन्ति। ते चन्द्रलोकस्य माध्यमेन दक्षिणदिशायां स्वमृत्युतिथौ स्वगृहस्य द्वारे उपस्थिताः भवन्ति, तत्र च ते स्वसम्मानं प्राप्य प्रसन्नतापूर्वकं स्वनवीनाय वंशाय आर्शीवादान् दत्त्वा प्रतिगच्छन्ति। एतादृशं वर्णनं श्राद्धमीमांसायां प्राप्यते। एवं पितृॠणात् मुक्त्यै श्राद्धकाले पितॄणां तर्पणं, पूजनं च क्रियते। भारतीयसंस्कृतौ, भारतीयसमाजे च स्वपूर्वजेभ्यः, दिवङ्गतेभ्यः पित्रोः स्मरणं श्राद्धपक्षे कृत्वा तान् प्रति असीमश्रद्धया सह तर्पणस्य, पिण्डदानस्य, ब्राह्मणेभ्यः भोजनदानस्य च प्रावधानम् अस्ति। पितृभ्यः कृतं श्राद्धं द्वयोः तिथ्योः भवति। प्रथमश्राद्धं तु मृत्योः उत क्षयस्य तिथौ। द्वितीयश्राद्धं पितृपक्षे। यस्मिन् मासे, तिथौ च पितृणां मृत्युः जातः अथवा यस्यां तिथौ तेषां दाहसंस्कारः जातः, वर्षे आयोः तिथौ कृतं श्राद्धं एकोदिष्टश्राद्धम् उच्यते।
 
एकोदिष्टश्राद्धे केवलम् एकस्य पितुः सन्तुष्ट्यै श्राद्धं भवति। तत्र एकपिण्डस्य दानं, एकब्राह्मणभोजनं च कारणीयं भवति। यदि कोऽपि पूर्वजस्य मृत्युतिथिं न स्मरति, तर्हि सः अमावस्यायाः दिने ज्ञात-अज्ञातानां पूर्वजनां विधि-विधानेन सह पिण्डदानं, तर्पणं, श्राद्धं च कर्तुं प्रभवति। एतस्मिन् दिने कृतं तर्पणं १५ दिनानां तर्पणवत् पुण्यं प्रयच्छति। गृहे, परिवारे, व्यवसाये, आजीविकायां च विशेषोन्नतिः प्राप्यते। यदि परिवारस्य कस्यापि जनस्य अकालमृत्युः जातः, तर्हि पितृदोषस्य निवारणाय शास्त्रीयविध्यनुसारं तस्य आत्मशान्त्यै तस्मिँश्चित् पवित्रस्थले श्राद्धं करणीयं भवति। सामर्थ्यनुसारं केनापि सुयोग्येन कर्मनिष्ठेन ब्राह्मणेन [[श्रीमद्भागवतपुराणम्|श्रीमद्भागवतपुराण]]<nowiki/>स्य कथा स्वपितॄणाम् आत्मशान्त्यै कारणीया भवति। एवं विशेषपुण्यफलस्य प्राप्तिः भवति। एतस्य फलतः परिवारात् अशांतिः, वंशवृद्धौ अवरोधः, आकस्मिकरोगः, निर्धनता, सुविधायां सत्याम् अपि मनसि अशान्तिः, असन्तुष्टिः च व्यपगच्छति।
 
== सम्बद्धाः लेखाः ==
"https://sa.wikipedia.org/wiki/श्राद्धम्" इत्यस्माद् प्रतिप्राप्तम्