"श्राद्धम्" इत्यस्य संस्करणे भेदः
Content deleted Content added
पङ्क्तिः ७४:
तादृशानि अन्नानि, खाद्यानि च, यानि श्राद्धे न युज्यन्ते - मसूरः, राजमा, कोदों, चणकः, कपित्थः, अलसी, पुरातनभोजनं, समुद्रजलनिर्मितं लवणं च। महिष्याः, हरिण्याः, ऊष्ट्र्याः, अजायाः, खुरयुक्तपशोः च दुग्धम् अपि वर्जितं भवति, परन्तु महिष्याः घृतं वर्जितं नास्ति। श्राद्धे दुग्धं, दधि, घृतं च पितृभ्यः विशेषतुष्टिकारकं मन्यन्ते। श्राद्धं कस्याऽपि अपरस्य गृहे, अपरस्य भूमौ च न कर्तव्यम्। यस्यां भूमौ कस्यापि स्वामित्वं न भवति, सार्वजनिकस्थानं भवति, एतादृशौ भूमौ श्राद्धं कर्तुं न शक्यते।
==भाद्रपदे एव श्राद्धं किमर्थम्==
अस्माकम् एकः मासः चन्द्रमसः एकस्य अहोरात्रस्य तुल्यः भवति। अतः ऊर्ध्वभागे निवासकर्तृभ्यः कृष्णपक्षः उत्तमः भवति। [[कृष्णपक्ष]]<nowiki/>स्य [[अष्टमी]]<nowiki/>-तिथ्यौ दिनानाम् उदयः भवति। [[अमावस्या]]<nowiki/>यां तेषां मध्याह्नं भवति, [[शुक्ल पक्ष|शुक्लपक्ष]]<nowiki/>स्य अष्टम्यां च तेषां दिनं भवति। धार्मिकमान्यता अस्ति यत्, अमावस्यायाः दिने कृतं श्राद्धं, तर्पणं, पिण्डदानं च तेभ्यः सन्तुष्टिम्, ऊर्जां च प्रयच्छति।
एकोदिष्टश्राद्धे केवलम् एकस्य पितुः सन्तुष्ट्यै श्राद्धं भवति। तत्र एकपिण्डस्य दानं, एकब्राह्मणभोजनं च कारणीयं भवति। यदि कोऽपि पूर्वजस्य मृत्युतिथिं न स्मरति, तर्हि सः अमावस्यायाः दिने ज्ञात-अज्ञातानां पूर्वजनां विधि-विधानेन सह पिण्डदानं, तर्पणं, श्राद्धं च कर्तुं प्रभवति। एतस्मिन् दिने कृतं तर्पणं १५ दिनानां तर्पणवत् पुण्यं प्रयच्छति। गृहे, परिवारे, व्यवसाये, आजीविकायां च विशेषोन्नतिः प्राप्यते। यदि परिवारस्य कस्यापि जनस्य अकालमृत्युः जातः, तर्हि पितृदोषस्य निवारणाय शास्त्रीयविध्यनुसारं तस्य आत्मशान्त्यै तस्मिँश्चित् पवित्रस्थले श्राद्धं करणीयं भवति। सामर्थ्यनुसारं केनापि सुयोग्येन कर्मनिष्ठेन ब्राह्मणेन [[श्रीमद्भागवतपुराणम्|श्रीमद्भागवतपुराण]]<nowiki/>स्य कथा स्वपितॄणाम् आत्मशान्त्यै कारणीया भवति। एवं विशेषपुण्यफलस्य प्राप्तिः भवति। एतस्य फलतः परिवारात् अशांतिः, वंशवृद्धौ अवरोधः, आकस्मिकरोगः, निर्धनता, सुविधायां सत्याम् अपि मनसि अशान्तिः, असन्तुष्टिः च व्यपगच्छति।
|