"श्राद्धम्" इत्यस्य संस्करणे भेदः

3
5
पङ्क्तिः ८५:
==अल्पव्यये श्राद्धम्==
[[विष्णुपुराण]]<nowiki/>स्य अनुसारं दरिद्रजनः केवलं अन्नस्य, वन्यशाकस्य, पत्तानां, फलानां, न्यूनतमधनस्य च दक्षिणां दातुं शक्नोति। तदपि शक्यं नास्ति चेत्, सप्त उत अष्ट अञ्जलियावत् जलं नीत्वा [[ब्राह्मण|ब्राह्मणाय]] दातव्यानि भवन्ति उत गवे आदिनं ग्रासं भोजयितुं शक्नुवन्ति। अन्यथा हस्तम् उन्नीय दिक्पालेभ्यः, [[सूर्य देवता|सूर्यात्]] च याचना करणीया भवति यत् हे! प्रभो अहं मे हस्तौ वायौ उन्नितवान्, मम पितरः मम भक्त्या सन्तुष्टाः भवेयुः।
 
==काकानां महत्त्वम्==
मन्यते यत्, मृत्योः अनन्तरं सर्वप्रथमम् आत्मा काकस्य योनौ जन्मति। काकेभ्यः अन्नदानं पितॄन् प्रति गच्छति। अत एव श्राद्धपक्षे काकानां विशेषं महत्त्वं वर्तते। प्रत्येकं श्राद्धकाले पितृभ्यः भोजनदानत्वेन काकेभ्यः भोजनदानं भवति। यः जनः श्राद्धकर्म करोति, सः स्थालिकायां सर्वं भोज्यं प्रस्थाप्य स्वगृहस्य छदि उच्चस्वरेण "काकवासः" इति वदतु। यदि भोजनस्थापनोत्तरं काकः समायाति, तर्हि तस्मै भोजनेन सह जलपात्रम् अपि प्रदातव्यम्। काकस्य आगमनेन एव मन्यते यत्, यस्य पूर्वजस्य श्राद्धम् अस्ति, सः एव भोजनाय, जलपानाय च समागतः इति। काकानां विलम्बः उत भोजनाय न आगमनं सङ्केतत्वेन मन्यते यत्, पितरः खिन्नाः सन्ति इति। ततः तान् मोदयितुं प्रयासाः भवन्ति। तस्मिन् समये कस्यापि दोषस्य कृते क्षमायाचना करणीया भवति।
 
==पिण्डस्य अर्थः==
श्राद्ध-कर्मणि पक्वतण्डुलान्, दुग्धं, तिलान् च मिश्रीकृत्य यः पिण्डः निर्मीयते, तस्य नाम 'सपिण्डीकरणम्' इति उच्यते। पिण्डस्य अर्थः अस्ति शरीरम् इति। कश्चन पारम्परिकः विश्वासः वर्तते, यस्य विज्ञानम् अपि समर्थनं करोति। प्रत्येकं वंशेषु मातृकुलस्य, पितृकुलस्य च मिश्रिततया पूर्वजानां समन्वितं 'गुणसूत्रम्' उपस्थितं भवति। पक्वतण्डूलानां पिण्डः पितुः, पितामहस्य, प्रपितामहस्य च शरीराणां प्रतीकमात्रं भवति। प्रतीकात्मकतया येषां जनानां श्राद्धं भवति, तेषां गुणसूत्राणि (gene) श्राद्धकर्तॄणां स्वस्य देहे एव सन्ति, तेषां तृप्तिः भवति। सः पिण्डः गोभ्यः, काकेभ्यः च दानात् प्राक् पिण्डदानकर्तृणा तस्य आघ्राणं कर्तव्यम्। भारतवर्षे आघ्राणम् अर्धभोजनं मन्यते। अतः श्राद्धकर्त्ता पिण्डदानात् पूर्वं स्वपितॄणाम् उपस्थितिम् आत्मनि एव गृह्णन्ति।
==पिण्डदानम्==
पिण्डः वामहस्ते स्वीकरणीयम्। मन्त्रेण सह पितृतीर्थ-मुद्रया दक्षिणाभिमुखेन भूत्वा पिण्डः कस्यामपि स्थालिकायाम् उत पत्रपात्रे क्रमशः स्थापयतु।<ref>{{cite web |url=http://hindi.awgp.org/?gayatri/AWGP_Offers/parivar_nirman/sanskar/sradh/ |title=अखिल विश्व गायत्री परिवार |accessmonthday=3 अक्टूबर |accessyear=2010 |last= |first= |authorlink= |format=एचटीएमएल |publisher= |language=हिन्दी}}</ref>
{| class="wikitable" width="100%" border="1"
|+पिण्डदान
|-
! क्रमांक
! पिण्ड
! श्लोक
|-
| 1
| प्रथमपिण्डः देवतायाः निमित्तः
| <poem>ॐ उदीरतामवर उत्परास, ऽउन्मध्यमाः पितरः सोम्यासः।
असुं यऽईयुरवृका ऋतज्ञाः, ते नोऽवन्तु पितरो हवेषु।- 19.49</poem>
|-
| 2
| द्वितीयपिण्डः ऋषीणां निमित्तः
| <poem>ॐ अंगिरसो नः पितरो नवग्वा, अथवार्णो भृगवः सोम्यासः।
तेषां वय सुमतौ यज्ञियानाम्, अपि भद्रे सौमनसे स्याम॥ - 19.50</poem>
|-
| 3
| तृतीयपिण्डः दिव्यमानवानां निमित्तः
| <poem>ॐ आयन्तु नः पितरः सोम्यासः, अग्निष्वात्ताः पथिभिदेर्वयानैः।
अस्मिन्यज्ञे स्वधया मदन्तः, अधिब्रवन्तु तेऽवन्त्वस्मान्॥- 19.58</poem>
|-
| 4
| चतुर्थपिण्डः दिव्यपितॄणां निमित्तः
| <poem>ॐ ऊजरँ वहन्तीरमृतं घृतं, पयः कीलालं परिस्रुत्।
स्वधास्थ तपर्यत मे पितृन्॥ - 2.34</poem>
|-
| 5
| पञ्चमपिण्डः यमस्य निमित्तः
| <poem>ॐ पितृव्यः स्वधायिभ्यः स्वधा नमः, पितामहेभ्यः स्वधायिभ्यः स्वधा नमः, प्रपितामहेभ्यः स्वधायिभ्यः स्वधा नमः।
अक्षन्पितरोऽमीमदन्त, पितरोऽतीतृपन्त पितरः, पितरः शुन्धध्वम्॥ - 19.36</poem>
|-
| 6
| षष्ठपिण्डः मनुष्य-पितॄणां निमित्तः
| <poem>ॐ ये चेह पितरो ये च नेह, याँश्च विद्म याँ२ उ च न प्रविद्म।
त्वं वेत्थ यति ते जातवेदः, स्वधाभियर्ज्ञ सुकृतं जुषस्व॥ - 19.67</poem>
|-
| 7
| सप्तमपिण्डः मृतात्मनां निमित्तः
| <poem>ॐ नमो वः पितरो रसाय, नमो वः पितरः शोषाय, नमो वः पितरो जीवाय, नमो वः पितरः स्वधायै, नमो वः पितरो घोराय,
नमो वः पितरो मन्यवे, नमो वः पितरः पितरो, नमो वो गृहान्नः पितरो, दत्त सतो वः पितरो देष्मैतद्वः, पितरो वासऽआधत्त। - 2.32</poem>
|-
| 8
| अष्टमपिण्डः पुत्रदाररहितानां निमित्तः
| <poem>ॐ पितृवंशे मृता ये च, मातृवंशे तथैव च। गुरुश्वसुरबन्धूनां, ये चान्ये बान्धवाः स्मृताः॥
ये मे कुले लुप्तपिण्डाः, पुत्रदारविवजिर्ताः। तेषां पिण्डो मया दत्तो, ह्यक्षय्यमुपतिष्ठतु॥</poem>
|-
| 9
| नवमपिण्डः उच्छिन्नकुलवंशयुक्तानां निमित्तः
| <poem>ॐ उच्छिन्नकुलवंशानां, येषां दाता कुले नहि।
धमर्पिण्डो मया दत्तो, ह्यक्षय्यमुपतिष्ठतु॥</poem>
|-
| 10
| दशमपिण्डः गभर्पातेन मृतानां निमित्तः
| <poem>ॐ विरूपा आमगभार्श्च, ज्ञाताज्ञाताः कुले मम।
तेषां पिण्डो मया दत्तो, ह्यक्षय्यमुपतिष्ठतु॥</poem>
|-
| 11
| एकादशमपिण्डः अग्नौ दग्धानां जीवानां निमित्तः
| <poem>ॐ अग्निदग्धाश्च ये जीवा, ये प्रदग्धाः कुले मम।
भूमौ दत्तेन तृप्यन्तु, धमर्पिण्डं ददाम्यहम्॥</poem>
|-
| 12
| द्वादशमपिण्डः एतस्य जन्मनः उत अन्यजन्मनः बन्धूनां निमित्तः
| <poem>ॐ ये बान्धवाऽ बान्धवा वा, ये ऽन्यजन्मनि बान्धवाः।
तेषां पिण्डो मया दत्तो, ह्यक्षय्यमुपतिष्ठतु॥</poem>
|}
 
यदि तीर्थश्राद्धस्य, पितृपक्षस्य च मध्ये एकाधिकपितॄणां सन्तुष्ट्यै पिण्ड-दानं करणीयं भवति, तर्हि निम्नदत्तेषु वाक्येषु पितॄणां नाम-गोत्रादिकं योजयित्वा वाञ्छितसङ्ख्यायां पिण्डदानं कर्तुं शक्नोति।
 
'''........... गोत्रस्य अस्मद् ....... नाम्नो, अक्षयतृप्त्यर्थम् इदं पिण्डं तस्मै स्वधा॥'''
 
पिण्डसमपर्णस्य अनन्तरं पिण्डेषु क्रमशः दुग्झं, दधि, मधु च अर्पयित्वा पितॄणां तृप्तेः प्राथर्ना क्रियते।
 
* निम्नमन्त्रेण पिण्डे दूध अर्पणीयम् - ॐ पयः पृथिव्यां पयऽओषधीषु, पयो दिव्यन्तरिक्षे पयोधाः। पयस्वतीः प्रदिशः सन्तु मह्यम्।
*पिण्डदाता निम्नाङ्कितमन्त्रांशस्य पुनरावृत्तिं कुर्यात् - ॐ दुग्धम्। दुग्धम्। दुग्धम्। तृप्यध्वम्। तृप्यध्वम्। तृप्यध्वम्॥
*निम्नांकितमन्त्रेण पिण्डे दधि अपर्णीयम् - ॐ दधिक्राव्णे ऽअकारिषं, जिष्णोरश्वस्य वाजिनः। सुरभि नो मुखाकरत्प्रण, आयुषि तारिषत्।
 
*पिण्डदाता निम्नाङ्कितमन्त्रांशस्य पुनरावृत्तिं कुर्यात् - ॐ दधि। दधि। दधि। तृप्यध्वम्। तृप्यध्वम्। तृप्यध्वम्।
 
*अधः दत्तैः मन्त्रैः सह पिण्डेषु मधु अर्पणीयम् - ॐ मधुवाताऽऋतायते, मधु क्षरन्ति सिन्धवः। माध्वीनर्: सन्त्वोषधीः। <br />ॐ मधु नक्तमुतोषसो, मधुमत्पाथिर्व रजः। मधु द्यौरस्तु नः पिता। <br />ॐ मधुमान्नो वनस्पतिर, मधुमाँ२ऽ अस्तु सूयर्:। माध्वीगार्वो भवन्तु नः।
 
*पिण्डदानकर्त्ता निम्नाङ्कित-मन्त्रांशस्य पुनरावृत्तिं कुर्यात् - ॐ मधु। मधु। मधु। तृप्यध्वम्। तृप्यध्वम्। तृप्यध्वम्
 
== सम्बद्धाः लेखाः ==
"https://sa.wikipedia.org/wiki/श्राद्धम्" इत्यस्माद् प्रतिप्राप्तम्