"श्राद्धम्" इत्यस्य संस्करणे भेदः

1
1
पङ्क्तिः १९५:
===नियमाः===
*दैनिकपञ्चयज्ञेषु पितृयज्ञस्य अतीव महत्त्वम् अस्ति। तत्र तर्पणम् अन्तर्भवति। कालान्तरे पिण्डदानस्य अपि प्रावधानम् अस्ति। सम्पूर्णे पितृपक्षे तर्पणादिकं करणीयं भवति।
*श्राद्धस्य कालखण्डे अन्यशुभकार्याणि उत नवीनानि कार्याणि उत पूजानुष्ठानादिकं न करणीयम्। तस्मिन् समये श्राद्धनियमानां योग्यतया पालनं करणीयं भवति। परन्तु नित्यकर्माणि, देवतानां नित्यपूजादिकं च न त्यक्तव्यं भवति।
*पितृपक्षे सूतकस्य प्रावधानं न भवति, अपि तु पितॄणां पूजनस्य विशेषं महत्त्वं भवति। पितृकार्याय मध्याह्नस्य समयः अतीव उत्तमः मन्यते। यतः पितृभ्यः मध्याह्नम् एव भोजनस्य समयः भवति।
*पितृभ्यः पिण्डदानं दक्षिणदिशाभिमुखेन स्थित्वा दक्षिण-अवरोहिण्यां भूमौ करणीयम्।
*भोजनादिषु ब्राह्मणाणां सङ्ख्या विषमा भवेत्। यथा एकं, त्रयः आदिकम्। गृहसूत्रे लिखम् अस्ति यत्, श्राद्धे आहुताः ब्राह्मणाः पवित्राः, वेदज्ञाः च स्युः इति। तेन सह उल्लेकः प्राप्यते यत्, श्राद्धस्य भोजनकर्तारः विप्राः तस्मिन् दिने द्वितीयवारं भोजनं यदि कुर्वन्ति, तर्हि ते कीटयोनिं प्राप्नुवन्ति। मनुस्मृतेः तृतीये अध्याये लिखितम् अस्ति यत् -
<poem>''''यथोरिणे बीजमृप्त्वा न वप्ता लभते फलम्।
'''तथाऽनुचे हविर्दत्त्वा न दाता लभते फलम्।।'</poem>
अर्थात् यथा उरिणे बीज ऋप्त्वा वप्ता फलं न प्राप्नोति, तथैव वेदविहीनेन जनेन हविदानं हविदात्रे लाभं न करोति।
*मनुस्मृतेः अनुसारं पित्रादिभ्यः त्रयाणां पिण्डानां निर्माणं करणीयम्। पार्वणे मातामहादिभ्यः अपि त्रयाणां पीडानां निर्माणं करणीयं भवति। पिण्डाः बदरीफलस्य आकारस्य भवेयुः। पिण्डदानोत्तरं ब्राह्मणभोजः कारणीयः भवति।
*श्राद्धोत्तरं गृहबलिः करणीयः भवति। एतस्मिन् अवसरे समाजैः सह भोजनस्य विधानम् अस्ति। गवां दुग्धस्य, दुग्धस्य पदार्थानां, क्षीरादिनां च श्राद्धे भोजनं कारणीयम् उत्तमं मन्यते।
*पितृलोकः, प्रेतलोकः च भुवर्लोकस्य भागत्वेन परिगण्येते। भू-लोकस्य प्रभावः तौ लोकौ यावत् प्राप्नोति। पिण्डनिर्माणोत्तरम् अवशिष्टस्य अन्नस्य समर्पणे त्रिभ्यः वंशेभ्यः अर्थात् चतुर्थात् षष्ठयावत् वंशेभ्यः आदान-प्रदानं कृत्वा परस्परं प्रभावं स्थापयितुं शक्नुवन्ति। ते सपिण्डाः उच्यन्ते। तस्योपरितनाः त्रयः वंशाः केवलं समर्पणस्य जलम् एव प्राप्नुवन्ति। ते समानोदकाः उच्यन्ते। दशवंशोत्तरं सगोत्रियाः उच्यन्ते। दशवंशोत्तरं जनेषु तर्पणस्य उत पिण्डदानस्य कोऽपि प्रभावः भवितुं नार्हति। यतः एतवति समये साधारणतया कश्चन मनुष्यः स्वर्गं प्राप्तवान् इति मन्यते।
 
== सम्बद्धाः लेखाः ==
"https://sa.wikipedia.org/wiki/श्राद्धम्" इत्यस्माद् प्रतिप्राप्तम्