"सदस्यः:NehalDaveND/प्रयोगपृष्ठम्/19" इत्यस्य संस्करणे भेदः

0
1
पङ्क्तिः १:
 
== अलङ्काराणां वर्गीकरणम् ==
'''अलङ्काराणां वर्गीकरणम्''' अतीव महत्त्वपूर्णः विषयः वर्तते। अलङ्क्रियतेऽनेनेति करणव्युत्पत्तिनिष्पन्नो यमकोपमादिबोधको नायमलङ्कारशब्दः किन्तु, ‘अलङ्कृतिरलङ्कारः' इति भावव्युत्पन्नो दोषापगमगुणाऽलङ्कारसंचलनकृतसौन्दर्यपरः, तत्प्रतिपादकात्वादेवाऽयमलङ्कारः । अत्र मानं तुकाव्यं ग्राह्यमलङ्कारात्, सौन्दर्यमलङ्कारः, दोषापगमगुणालङ्कारहानोपादानाभ्याम्' इत्यादिवामनसूत्रमेवेति । अनेनालङ्कारकृतचारुत्वेनैव शब्दार्थयोः काव्यत्वनिर्वाहादिति भावः । तेनालङ्कारस्वरूपत्वञ्च–रसोपकारत्वे सति तद्वृत्तित्वं तथात्वे सति रसानिंयतस्थितिकत्वम् अनियमेन रसोपकारकत्वं वेति । अलङ्कारत्वञ्च रसादिभिन्नव्यङ्गयभिन्नत्वे सति शब्दार्थान्यतरनिष्ठा या विषयतासम्बन्धावच्छिन्ना चमत्कृतिजनकतावच्छेदकता तदवच्छेदकत्वम् । अनुप्रासादिविशिष्टशव्दज्ञानादुपमादि विशिष्टार्थज्ञानाच्च चमत्कारोदयात्तेषु लक्षणसमन्वयः शब्दार्थयोर्ज्ञाननिष्ठचमत्कृतिजनकतायां विषयितयावच्छेदकत्वे तंद्विशेपणीभूतानुप्रासोपमादेस्तन्निष्ठावच्छेदकतावच्छेदकत्वात् ।
 
रसवदाद्यलङ्कारसंग्रहाय व्यङ्गयोपमादिवारणाय च विलक्षण एवेति ध्येयम् यतो ह्यलङ्कारत्वं कविसमयसिद्धान्यतमत्वम् । कविसमयसम्बन्धेनालङ्कारपदवत्त्वं वा सूचितमन्यस्यालङ्कारत्वस्या प्रतिपादनात् । फलितार्थश्चालङ्कारस्य सारतत्त्वम् चमत्कार एवेति । चमत्कारशून्याऽलङ्कारः निःसारत्वात्काम्यो नाऽस्ति । शोभाविषये यो ह्यलङ्कारः यावदेव सहायको भवति तावदेवास्यालङ्कारपदेन तस्य महत्त्वमस्ति । किच्चाऽलङ्कारमूलकस्य चमत्कारस्य सौन्दर्यस्य च न कोऽपि वस्तुगत निश्चित मापदण्डोऽस्ति, तत्तु प्रतिभावतः कवेः विवेकवतस्समालोचकस्य कल्पनाशीलमनसः एवोद्भावनाऽस्ति । अतएव विभिन्नकालेषु काव्यशास्त्रीयरस-अलङ्काररीति-ध्वनि-वक्रोक्तिप्रभृतेः प्रकाशो विकासश्चाप्यवलोक्यते । स्व-स्व-कालेषु सर्वेषां सम्प्रदायानां स्व-स्व विशेषताऽऽसीत् । विचारस्य काऽपीयत्ता न भवति । तेन परवत्तिनः विवेकशीलमनीषिणः पूर्ववत्तिनः मान्यतायाः युक्तायुक्तत्वस्य महत्वस्य च विवेचनं कृतवन्तः ।।
 
अलङ्काराणाञ्च विकासस्यापीयमेव स्थितिः । काव्येषु मुख्यरूपेण गौणरूपेण चालङ्काराणां विधानं कवय एवं कृतवन्तः । तेषामलङ्काराणामलङ्कारशास्त्रे यथासम्भवः निरूपणोऽभवत् । अलङ्काराणामेतेषु विधानेषु क्वाऽपि कवयः अलङ्काराणां लक्षणानुसारेण नवीन-लक्ष्यस्य रचना कृतवन्तः, कुत्रचिच्चाचार्यैः काव्यगतलक्ष्यधारे एवालङ्कारलक्षणानां निरूपणञ्च कृतम् । अनेन प्रकारेणालङ्काराणां विकासे कवेराचार्यस्य च कल्पनायाः अपूर्वयोगदानमस्ति । परवत्तिनः । आचार्याः येषु पूर्ववणितेष्वलङ्कारेषु चमत्कृतिरपश्यन् तेषामलङ्काराणां संग्रहः कृतवन्तस्तथा येष्वलङ्कारेषु तान् स्वस्वरुच्यनुसारेण चमत्कारस्य प्रतीतिर्न बभूव, तेषामलङ्काराणां ते संग्रहणम् न कृतवन्तः । अलङ्काराणामस्मिन्नभिनवनिरूपणे ग्रहण-परित्यागेषु विवेचनेन सह रुचिवैचित्र्यस्यापि कारणमस्ति ।
 
अलङ्कारशास्त्रे न केवलमलङ्काराणां विकासस्य निरूपणम्वभूवापितु | कतिपयैः आचार्यैः तेषां वर्गोऽपि दर्शितः । येष्वलङ्कारेपु समानतत्त्वस्योपलब्धिजता तेषामलङ्काराणामेकस्मिन्नेव वर्गे संग्रहीतः । अनेन प्रकारेण विभिन्नमौलिकतत्त्वोपरि विभिन्नवर्गस्योद्भावनं कृतमाचार्य प्रवरेणेति । अधः तेषामेव विभिन्नवगनामेवं तेषां मौलिकतत्त्वानां विवेचनं वर्तते।
 
== अलङ्काराणां ‘वर्गास्तेषां मौलिकतत्त्वञ्च ==
{| class="wikitable"
|१ वक्रोक्तिः अथवा अतिशयोक्ति-वर्गः
|अतिशयलोकातिक्रान्त-कथनम्।
|-
|२-( क ) अतिशयोक्ति-वर्गः
|अतिशय-वर्णनम् ।
|-
|( ख ) स्वभावोक्ति-वर्गः
|स्वभाव-वर्णनम् ।
|-
|३ -(क ) वास्तव-वर्गः
|वस्तु-स्वभाव-कथनम् ।
|-
|ख ) औपम्य-वर्गः
|उपमानोपमेय-भाव-वर्णनम् ।
|-
|ग ) अतिशय-वर्गः
|अतिशय-कथनम् ।
|-
|घ) श्लेष-वर्गः
|श्लेष-निरूपणम् ।
|-
|४ –(क) सादृश्य-वर्णनम्
|सादृश्य-वर्णनम् ।
|-
|( ख ) विरोध-वर्गः
|विरोध-प्रदर्शनम् ।
|-
|( ग ) शृङ्खलाबन्ध-वर्गः
|शृङ्खला-वर्णनम् ।
|-
|(घ ) तर्कन्याय-वर्गः
|तर्कन्याय-प्रदर्शनम् ।
|-
|( ङ ) वाक्यन्याय-वर्गः
|वाक्य-न्याय-प्रदर्शनम् ।।
|-
|( च ) लोकन्याय-वर्गः
|लोकन्याय-वर्णनम् ।
|-
|( छ ) गूढार्थ-प्रतीति-वर्गः
|गूढार्थ-प्रदर्शनम् ।
|-
|( ज ) विशेषण-विच्छित्ति-वर्गः
|विशेषण-वैशिष्ट्यवर्णनम्
|-
|( झ ) गम्यत्व-विच्छिति-वर्गः
|गम्यमानतामूलकचमत्कार-वर्णनम्
|-
|( ञ ) मिश्रित-वर्गः
|अलङ्कार-साङ्कर्य-वर्णनम् ।
|-
|५ - ( क ) साधर्म्य-वर्गः
|साधर्म्य-निरूपणम् ।
|-
|( ख ) अध्यवसाय-वर्गः
|अध्यवसाय-कथनम् ।
|-
|( ग ) विरोध-वर्गः
|विरोध-प्रदर्शनम् ।
|-
|( घ) वाक्य-न्याय-वर्गः
|वाक्यन्याय-प्रदर्शनम्
|-
|(ङ) लोक-व्यवहार-वर्गः
|लोकन्याय-वर्णनम् ।
|-
|च ) श्रृंखला-वैचित्र्य-वर्गः
|श्रृंखलावैचित्र्य-वर्णनम्
|-
|( छ ) अपह्नव-वर्गः
|अपह्नुति-वर्णनम् ।
|-
|( ज ) विशेषण-वैचित्र्य-वर्गः
|विशेषण-वैशिष्ट्य-कथनम् ।
|-
|६–रसवदादि-वर्गः
|रसभावादिमूलक-कथनम् ।।
|}
 
== (१) वक्रोक्तिः किम्वाऽतिशयोक्ति-वर्गः ==
एतेषामतिशयोक्तिवर्गाणामलङ्कारेषु वक्रोक्तिरूपातिशयोक्ति एव चमत्कारस्य प्राणाधारः मन्यते । अस्यावलम्बनादेव कस्याप्यलङ्कारस्यास्तित्वञ्च स्वीक्रियते । आचार्य भामहमते-एकस्यैवातिशयोक्तिवर्गस्य सर्वेऽलङ्काराः सन्ति । अस्यातिशयोक्तिरूपमौलिकतत्वस्याभावे न कोऽप्यलङ्कारो भवितुं शक्यते । शक्यतावच्छेदकरूपेण विषयस्य लक्ष्यस्य विषयिवाचकपदेन बोधनमुपस्थितिर्वा वक्रोक्तिमूलक अतिशयोक्तिवर्ग इति फलितम् । तद्यथा- आचार्यभामहेन -
 
'''‘सैषा सर्वत्र वक्रोक्तिरनयाऽर्थों विभाव्यते ।'''
 
'''यत्नोऽस्यां कविना कार्यः कोऽलङ्कारोऽनया विना ।। २।८५ ॥'''
 
'''हेतुश्च सूक्ष्मो लेशोऽथ नालङ्कारतया मतः ।'''
 
'''समुदायाभिधानस्य वक्रोक्त्यनभिधानतः ।। २।८६ ।।'''[1]
 
लोकव्यवहारे शब्दस्य चार्थस्य च यथा प्रयोगो भवति तद्विलक्षणशब्दः, अर्थश्च लोकातिक्रान्तगोचररूपेण वक्रतया यदा प्रयुक्तो भवति तदा तेषु अलङ्कारत्वम्भवति ।
 
'''‘वक्राभिधेयशब्दोक्तिरिष्टावाचामलङ्कृति ।''''[6]
 
'''‘वाचां वक्रार्थशब्दोक्तिरलङ्काराय कल्पते ।[7]'''
 
'''‘शब्दस्य वक्रता अर्थस्य च वक्रता लोकोत्तीर्णेन रूपेणावस्थानम् ।[8]'''
 
अतो हि वस्तुनः स्वभावकथने यद्यलङ्कारस्य बीजरूपमियमतिशयोक्तिर्न भवति तदा तत्रालङ्कारत्वमपि न भवति । 'गतोऽस्तमर्कः •••••वात्तमेना प्रचक्षते ।[2]
 
उपर्युक्तालङ्कारसामान्यरूपवक्रोक्तिशब्दस्यार्थेऽतिशयोक्तिशब्दः शुद्धरूपेण यौगिकोऽस्ति अलङ्कारविशेषरूपे चातिशयोक्तिशब्दः योगरूढोऽस्ति । वक्रोक्तिः किम्बाऽतिशयोक्तिशब्दस्यातिशययुक्तकथनमेव यौगिकार्थ सर्वाऽलङ्कारबीजत्वं स्वीकृतं समथितञ्च समालोचकैविद्वभिरिति । महाकविभिर्यदेयमंतिशयोक्तिरलङ्कारस्य सर्वेष्वलकारेषु समुचितसमन्वयो भवति तदेयमतिशयोक्तिरनिर्वचनीयकाव्यशोभायाः, उत्कर्षाधायको भवति-तत्रातिशयोक्तिर्यमलङ्कारमधितिष्ठति कविप्रतिभावशात् तस्य चारुत्वातिशय-योगोऽन्यस्यालङ्कारमात्रतैवेति सर्वालङ्कार-शरीर-स्वीकरण-योग्यत्वेनाभेदोपचारात सैव सर्वाऽलङ्काररूपेत्ययमेवार्थोऽवगन्तव्यः।[3]
 
अनयातिशयोक्त्या यदा पूर्बप्रतिपादितोऽर्थोऽपि चमत्कारोत्पादकरूपेणाभिहितो भवति, तदा तत्र सौन्दर्यस्य सृष्टि कुर्वन् रसमयो भवति–'तेनातिशयोक्तिः सर्वालङ्कारसामान्यम् । तथा ह्यनथातिशयोक्त्यार्थः सकलजनोपभोग पुराणीकृतोऽपि विचित्रतया भाव्यते । तथा प्रमोदादयानादिभिर्विभावतां नीयते विशेषेण च भाव्यते रसमयी क्रियते ।[4] अतएवातिशयोक्तिमू काव्यजीवितरूपेण स्वीकृतमलङकारवादिभिः ‘अथ सा काव्यजीवितत्त्वेन तु विवक्षिता ।'
 
आनन्दाभिनवगुप्ताभ्यां मतेन सहमतो मम्मटभट्टः अतिशयोक्तेः सर्वाऽलङ्कारसामान्यरूपेण किञ्चित् संशोधनं कुर्वन् दण्डिनः मतानुसारेण स्वभावोक्तेरपि अलङ्कारत्वं मन्यते। विशेषालङ्कारस्य स्वरूपनिरूपणप्रसङ्ग तेनोक्तम्यत्र प्रसिद्धमाधारं विनाधेयस्य विशिष्टावस्थितिर्यदभिधीयते स एको विशेषः । तत्र प्रसिद्धमित्यनेनेदमुक्तं यदत्र वास्तवमाधारत्वं न विवक्षितमु किन्तु कविप्रसिद्धिमात्र सिद्धमिति -
 
'''विना प्रसिद्धमाधारमाधेयस्य व्यवस्थितिः'''
 
'''एकात्मा युगपद् वृत्तिरेकस्यानेकगोचरा'''
 
'''अन्यत् प्रकुर्वतः कार्यमशक्यस्यान्यवस्तुनः'''
 
'''तथैव करणञ्चेति विशेषस्त्रिविधस्मृतः ॥'''[5]
 
एवं त्रिविधविशेषे आधारं विनाऽधेयस्य स्थितिः एकस्य वस्तुनो युगपद्या एकात्मा तथा चैकस्मिन्नेव प्रयत्ने कार्यद्वयस्य सम्पादनं व्यावहारिकदृष्ट्याऽनूपपन्नोऽस्ति । एवंविधस्थलेषु अलङ्कारत्वमेवासम्भव इति । अस्य समाधानं कुर्वन्नवदत्-‘सर्वत्र एवंविध विषयेऽतिशयोक्तिरेव प्राणत्वेनावतिष्ठते, तां विना प्रायेणालङ्कारत्वायोगात् । अत्र प्रदीपकारोऽपि-नन्वाधारं विना वास्तवस्याधेयस्य व्यवस्थितिरनुपपन्नैव एवमन्ययोरप्यनुपपत्तिरिति चेन्न, अतिशयोक्तिमालम्ब्य तथाभिधानात् । सवत्रैवंविधे विषयेऽतिशयोक्तिरेव प्राणायिता । तां विना प्रायशोऽलङ्कारात्वाभावात् । अतएवाहुः -
 
'''सैषा सर्वत्र वक्रोक्तिरनयर्थोिं विभाव्यते ।'''
 
'''यत्नोऽस्यां कविभिः कार्यः कोऽलङकारोऽनया विना।'''' इति ।
 
== ( २ ) अतिशयोक्तिवर्गस्तथा स्वभावोक्तिवर्गश्च ==
आचार्य दण्डिना भामहोक्तातिशयोक्तिं वृहस्पतिप्रशंसितं मत्वा तामन्यालङ्काराणां प्राणरूपत्वेन स्वीकृतम्
 
'''अलङ्कारान्तराणामप्येकमाहुः परायणम् ।'''
 
'''वागीशमहितामुक्तिमिमामतिशयाह्वयाम् ।।[6]'''
 
अनेन प्रकारेण भामहस्यानुकृतिं कुर्वन्नप्यमुना पदार्थस्य नानावस्थानां स्वाभाविक-यथार्थकथनेऽपि चमत्कृतिः, स्वीकृत्यालङ्काराणां द्वितीयः स्वभावोक्ति-वर्गोऽपि स्वीकृतः---
 
'''नानावस्थं पदार्थानां रूपं साक्षात् विवृण्वती ।'''
 
'''स्वभावोक्तिश्च जातिश्चेत्याद्या सालङ्कृतिर्यथा ।।'''[7]
 
स्वभावस्य वर्णनीयतत्तद्वस्तुमात्रगतस्य प्रकृतिसिद्धस्य धर्मस्योक्तिः । एवञ्च यस्य कश्चिद्वस्तुनोऽसाधारणधर्मवर्णनं स्वभावोक्तिरलङ्कारः । अत्राऽपि चमत्कृतिहेतुत्वमलङ्कारसामान्यलक्षणप्राप्तमस्त्येव । तेन ह्यलङ्कारस्य अनुकरणमूलकचमत्कारत्वात् तस्य अलङ्कारस्य द्वितीयः स्वभावोक्ति वर्गोऽपि सर्वथा मान्य एव प्रतिभाति । अतएव स्वभावोक्तिरूपजात्यादेः विधानं काव्ये [[बाणभट्ट]]<nowiki/>मतेऽपि काम्योऽस्ति -
 
'''नवोऽर्थो जातिरग्राम्या श्लेषोऽक्लिष्टः स्फुटो रसः ।'''
 
'''विकटाक्षरबन्धश्च कृत्स्नमेकत्र दुर्लभम् ॥[8]'''
 
== ( ३ ) वास्तवौपम्यातिशयोक्तिश्लेषवर्गः ==
रुद्रटाचार्येण भामहस्यातिशयोक्तिमूलकम् दण्डिनश्च स्वभावोक्तिमूलकमलङ्कारं च विहाय औपम्यमूलकः श्लेषमूलकश्चालङ्काराणामतिरिक्तं वर्गद्वयं । स्वीकृतम् । अलङ्कारेषु चमत्कारः न केवलातिशयकथने न वा स्वभाववर्णने एवाऽस्ति प्रत्युत् रुद्रटमते औपम्यः श्लेषश्चाऽपि ईदृशं तत्त्वमस्ति यो हि चमत्कारस्य सर्वथा सृष्टि करोति । अतएवोपर्युक्त तत्वद्वयस्याधारं गृहीत्वाऽनेन स्वतन्त्रवर्गद्वयस्य कल्पना कृतेति । ( क ) वास्तववर्गः | औपम्य-अतिशय-श्लेषाद्भिन्नम् वस्तुस्वरूपयथार्थकथनमेव वास्तवमिति ज्ञेयम् । यस्यार्थः पुष्टः अर्थात् सहृदयहृदयाह्लादकारी भवति तथाऽविपरीतः अर्थाद्वण्र्यविषयकस्य यथार्थप्रतिपादको भवति तदेववास्तवमिति बोध्यम् । तद्यथा--
 
वास्तवमिति तज्ज्ञेयं क्रियते वस्तुस्वरूपकथनं यत् । पुष्टार्थमविपरीतं निरूपममनतिशय-श्लेषम् ।। –रुद्रटा० ७॥१०
 
132
 
वस्तुस्थितिस्वरूपस्य यथार्थवर्णने वास्तवमूलकाऽलङ्कारेषु हृदयाकर्षणस्य चमत्कारोत्पादनस्य च क्षमता भवत्येव । रुद्रटानुसारेण वास्तववर्गे निम्नलिखितास्त्रयोविंशत्यलङ्काराः सन्ति ।
 
१. सहोक्तिः, २. समुच्चयः, ३. जातिः ( स्वभावोक्तिः ), ४. यथासंख्यम्, ५. भावः, ६. पर्यायः, ७. विषमम्, ८. अनुमानम्, ९. दीपकः, १०. परिकरः, ११. परिवृत्तिः, १२. परिसंख्या, १३. हेतुः, १४. कारणमाला, १५. व्यतिरेकः, १६. अन्योऽन्यः, १७. उत्तरः, १८. सारः, १९. सूक्ष्मः, २०. लेशः, २१. अवसरः, २२. मीलितः, २३. एकावली। ( ख ) औपम्यवर्गः ।
 
| वय॑मानपदार्थस्याधिकस्पष्टयितुं तत्समानप्रसिद्धवस्तुनः वर्णनमेवौपम्यशब्देन व्यपदिश्यते अर्थात् साधयं किम्वा सादृश्यशब्देन व्यवह्रियते । तद्यथा
 
सम्यक् प्रतिपादयितुं स्वरूपतो वस्तु तत् समानमिति ।
 
वस्त्वन्तरमभिदध्यात् वक्ता यस्मिन् तदौपम्यम् ॥ --रुद्रटा० ८।१ रुद्रटस्य औपम्यवर्गे विंशत्यलङ्काराः सन्ति । ते च
 
१. उपमा, २. उत्प्रेक्षा, ३. रूपकम्, ४. अपहनुतिः, ५. संशयः, ६. समासोक्तिः, ७. मतम्, ८. उत्तरः, ९. अन्योक्तिः, १०. प्रतीपः, ११. अर्थान्तरन्यासः, १२. उभयन्यासः, १३. भ्रान्तिमान, १४. आक्षेपः, १५. प्रत्यनीकः, १६. दष्टान्तः, १७. पूर्वसहोक्तिः, १८. पूर्वसमुच्चयः, १९. साम्यः, २०.
 
।।
 
<nowiki>:</nowiki>
 
<nowiki>::</nowiki>
 
<nowiki>:</nowiki>
 
<nowiki>:::::</nowiki>
 
<nowiki>**</nowiki>
 
<nowiki>:::</nowiki>
 
 
।।
 
<nowiki>*</nowiki>
 
 
<nowiki>*</nowiki>
 
<nowiki>***</nowiki>
 
<nowiki>::::</nowiki>
 
!!!
 
.
 
स्मरणम् । ( ग ) अतिशयवर्गः
 
<nowiki>::::</nowiki>
 
-
 
व वयवस्तुनः अथवा वय॑मानवस्तुनो धर्मः लोकातिक्रान्तगोचररूपे भत्वा चमत्कृतो भवति तदेवातिशयशब्देन ज्ञायते । अस्मिन्नतिशयवर्गे
 
<nowiki>----</nowiki>
 
द्वादशालङ्काराः सन्ति
 
<nowiki>-----</nowiki>
 
--
 
-
 
| यत्रार्थ-धर्म-नियमः प्रसिद्धिबाधात् विपर्ययं याति ।
 
कश्चित् क्वचिदतिलोकं स स्यादतिशयस्तस्य ।। –रुद्रटा० ९५१ १. पूर्वः, २. विशेषः, ३. उत्प्रेक्षा, ४, विभावना, ५. तद्गुणः, ६. अधिकः ७. विरोधः, ८. विषमः, ९. असंगतिः, १०. पिहितः, ११. व्याघातः, १२. अहेतुः ।। (घ ) श्लेषवर्गः
 
परिवृत्तिसहानां श्लिष्टानां शब्दानां प्रकरणादिनियमाभावादनेकार्थप्रतिपादकत्वेऽर्थश्लेष इत्युच्यते । एकार्थप्रतिपादकानां सामान्यैकधर्मवत्तया सामान्यरूपस्यैकस्यार्थस्य वाचकानां शब्दानामनेकोऽर्थः, विशेषरूपो नाना, अर्थः प्रकरणादेरनियमेन बुध्यते स श्लेषः । श्लिष्यतोऽर्थावस्मिन्निति श्लेषपदव्युत्पत्तिः ।
"https://sa.wikipedia.org/wiki/सदस्यः:NehalDaveND/प्रयोगपृष्ठम्/19" इत्यस्माद् प्रतिप्राप्तम्