"बुद्धजयन्ती" इत्यस्य संस्करणे भेदः
Content deleted Content added
No edit summary |
No edit summary |
||
पङ्क्तिः १:
{{बौद्धधर्मः}}
[[File:Buddha's statue near Belum Caves Andhra Pradesh India.jpg|thumb|right|बुद्धस्य स्तूपः,आन्ध्रप्रदेशः]]
==स्वरूपम्==
{{gap}} बौद्धजन्मपर्वणि बौद्धानुयायिनः गृहे दीपान् ज्वालयन्ति । पुष्पैः गृहाणि अलङ्कुर्वन्ति । बौद्धपरम्परायाः धार्मिकग्रन्थानां पठनं वाचनं च क्रियते । विहारस्थानां गृहे विद्यमानानां च बौद्धमूर्तीनां पुष्पैः दीपैः च पूजनं क्रियते । बोधिवृक्षः अपि पूज्यते । तस्य शाखाः पताकाभिः अलङ्क्रियन्ते । वृक्षं परितः दिपाः प्रज्वाल्यन्ते । वृक्षस्य मूले दुग्धं सुगन्धि जलं च समर्प्यते । अस्मिन् दिने कृतैः सत्कर्मभिः पुण्यार्जनं भवति इति जनानां श्रद्धा अस्ति ।
{{gap}}बुद्धपौर्णिमायां देहल्यां सङ्ग्रहालये विद्यमानानि बुद्धस्य अस्थीनि सर्वेषां दर्शनार्थं बहिः स्थाप्यन्ते । तत्रापि आगत्य जनाः प्रार्थनां कुर्वन्ति । अस्मिन् दिने बौद्धधर्मानुयायिनः लुम्बिनी, सारनाथः, गया, कुशीनगरं, दीक्षाभूमिः इत्यादीनि पवित्रबौद्धक्षेत्राणि गत्वा प्रार्थनां पूजां च कुर्वन्ति । बौद्धधर्मसम्बद्धानां सूत्राणां त्रिपिटकानां भागस्य वाचनं पाठनं च क्रियते । व्रतस्य भागरूपेण अस्मिन् दिने उपवासः क्रियते । दानधर्मः क्रियते । अस्मिन् दिने बहुविधाः कार्यक्रमाः आयोज्यन्ते । श्रीलङ्कायाम् अन्येशु आग्नेयदेशेषु अयम् उत्सवः ‘वेसक-उत्सवः’ इति नाम्ना आचर्यते । वेसक पदं वैशाखपदस्य अपभ्रंशः अस्ति ।
==भारतस्य बुद्धजन्मोत्सवस्य इतिहासः==
१९५१ वर्षे अम्बेडकरस्य एव अध्यक्षतायां त्रिदिनात्मकः बुद्धजन्मोत्सवः आचरितः । १९५६ वर्षे बाबासाहेबमहोदयेन जीवनस्य अन्तिमः बुद्धजन्मोत्सवः देहल्याम् एव आचरितः । देहल्याः अनन्तरं बाबासाहेबमहोदयेन महाराष्ट्रे अपि बुद्धजन्मोत्सवः आचरणं १९५३तः आरब्धम् । १९५६पर्यन्त तस्य अध्यक्षतायां प्रमुख-उपस्थतौ च महाराष्ट्रे बुद्धजन्मोत्सवस्य भव्याः कार्यक्रमाः जाताः । महाराष्ट्रे बुद्धजन्मोत्सवस्य कार्यक्रमाः प्रामुख्येन मुम्बयिनगर्यां जाताः । भारते महाराष्ट्रे च बुद्धजन्मोत्सवस्य परम्परायाः आरम्भः बाबासाहेबमहोदयेन कृतः अतः सः भारतस्य सार्वजनिकबुद्धजन्मोत्सवस्य प्रणेता अस्ति ।
==बुद्धजन्मोत्सवस्य महत्त्वम्==
{{gap}}आरम्भकाले प्रथमावस्थायाः बौद्धधर्मः सरलः सुगमः नैतिकतत्त्वावधिष्ठितः मानवता-करुणा-समतानां पुरस्कर्ता च आसीत् । अस्मिन् काले बुद्धः असामान्यगुणवान् परं मनुष्यदेहधारी एव अस्ति इति विश्वासः आसीत् । सः बोधिवृक्षस्य अधः संबोधि अर्थात् ज्ञानं प्राप्तवान् अर्थात् अस्मिन् जगति शाश्वतसत्यानि कानि जगतः व्यवहारः कथं प्रचलति इति एतेषां सम्बद्धानां ज्ञानं प्राप्तवान् । तस्य कृते प्रथमं चतुर्णाम् आर्यसत्यानां साक्षात्कारः जातः । सर्वत्र विवादः कलहः मारणम् इति एतद् दृष्ट्वा जगतः गभीरचिन्तनेन ज्ञायते यत् सर्वत्र दुःखं प्रसृतम् अस्ति । एतद् प्रथमम् आर्यसत्यं तेन ज्ञातम् । दुःखं किमर्थं भवति इत्यस्मिन् सर्दर्भे चिन्तने सः ज्ञातवान् यत् एतद् सर्वं लोभात् तृष्णायाः कारणात् भवति । एकस्य वस्तुनः विषये द्वयोः मनसि तृष्णा (इच्छा_ उत्पन्ना चेत् तस्य वस्तुनः प्राप्त्यर्थं विवादः कलहः युद्धं प्रवर्तते । अतः तृष्णा दुःखस्य मूलम् अस्ति । एतद् द्वितीयम् आर्यसत्यं सः अवगतवान् । यस्य वस्तुनः किमपि कारणं तद् वस्तु कारणे नष्टे नश्यति । इदं शाश्वतं सत्यम् अस्ति । अतः तस्य दुःखस्य निरोधः भवति । इदं तृतीयम् आर्यसत्यं सः ज्ञातवान् । निरोधः भवति चेत् तस्य प्राप्तेः अपि कश्चन उपायः स्यात् । इदं चतुर्थम् आर्यसत्यं सः ज्ञातवान् ।▼
{{gap}}हिन्दुधर्मीयानाम् इव बौद्धानां कर्मणि पुनर्जन्मनि च विश्वासः नास्ति । अतः जन्ममरणानां संसारचक्रं कथं प्रचलति इति स्पष्टीकर्तुं प्रतीत्य-समुत्पादम् अपि सः अवगतवान् । प्रतीत्य-समुत्पादः नाम किञ्चन वस्तु उत्पद्यते तत् स्वयम्भु न भवति काचित् पूर्वगामिनी कारणपरम्परा तस्य पृष्ठतः भवति । अतः जन्ममरणं कथं भवति इति प्रतिपादिका काचित् कारणपरम्परा अस्ति । एकस्य जन्मनः तस्य पूर्वापरजन्मना सह कीदृशः सम्बन्धः अस्ति इति प्रतीत्यसमुत्पादे उक्तम् अस्ति । (अर्थात् पूर्वजन्म परजन्म भवति । स्वयं गौतमबुद्धस्य अनेकानि जन्मानि जातानि । तस्य जन्मनः कथाः जातककथाः इति कथ्यन्ते । अर्थात् एतानि जन्मानि यता जातानि तदा गौतमबुद्धः नासीत् । ) ▼
▲
▲
|