"यमद्वितीया" इत्यस्य संस्करणे भेदः

→‎बाह्यसम्पर्कतन्तु: संचित्रसारमञ्जूषे योजनीये using AWB
No edit summary
पङ्क्तिः १:
 
इदं '''यमद्वितीया''' उत्सवः '''भ्रातृद्वितीया, भ्रातृतिलकं''' च इति, लोकभाषासु '''भाई दूज''', '''भौबीज''', '''भाई टीका''', '''भाई फोण्टा''' च इति नामभिः प्रसिद्धः उत्सवः । भारते विविधप्रान्तेषु उल्लासेन आचर्यते । [[दीपावली]] पर्वणः पश्चादेव [[शुक्लपक्षः|शुक्लपक्षस्य]] द्वितीयायां तिथौ सम्पद्यते । अस्मिन् उत्सवे बहुषु कुटुम्बेषु भगिन्यः निजभ्रातृणां पूजनं कृत्वा पेयभक्ष्यादिभिः सत्कुर्वन्ति.
 
==दिनम्==
अस्य पर्वणः तिथिः [[कार्तिकमासः|कार्तिकमासस्य]] शुक्लपक्षस्य द्वितीयदिवसः भवति। केचन दीपावलीपर्वणः पश्चात् दिने, अन्ये [[होली]] पर्वणि वा इदं पर्वं व्यवहरन्ति।
 
==पौराणिकम्==
एतत् अपि कार्त्तीकमासे आचर्यमाणस्य [[दीपावलिः|दीपावली]]पर्वणः अङ्गभूतं पर्व अस्ति । एतत् पर्व आचर्यते कार्त्तीकशुद्धद्वितीयायाम् । एतद्दिनं भ्रातृद्वितीया, यमद्वितीया, भगिनीद्वितीया इति अपि वदन्ति ।
[[चित्रम्:Lanterns-at-Durpan-stores.gif|thumb|150px|right|दीपावल्यवसरे गृहात् बहिः प्रज्वाल्यमानः आकाशदीपः]]
Line ६ ⟶ १३:
 
एतद्दिने एव यमदेव: भगिन्या: [[यमुना|यमुनादेव्या:]] गृहं गत्वा आतिथ्यं प्राप्तवान् इति । अत: पुरुषा: सर्वे यमाय यमुनादेव्यै च अर्घ्यं समर्प्य भगिनीनां गृहं गच्छन्ति भोजनार्थम् । भगिनीभ्य: उपायनानि दत्त्वा ता: सन्तोषयन्ति च । [[मार्कण्डेयः|मार्कण्डेयादीनां]] चिरञ्चीवीणां स्तोत्रं कुर्वन्ति । तद्दिने विशेषतया यमुनानद्यां स्नात्वा तां पूजयन्ति । एतत् दिनं दीपावलीपर्वण: अन्तिमं दिनम् ।
 
==आचरणम्==
रक्षा-बन्धनं सदृशः अयं उत्सवः। भगवान् श्रीकृषणः क्र्रूर-दैत्यं नरकासुरं हत्वा स्व-भगिनीं सुभद्रां मिलितवान् आसीत् । सुभद्रया भगवतः स्वागतं मिष्टान्नैः पुष्पैः च् कृतम् । उत्त्तरभारते भाई दूज नाम्ना, [[नेपालम|नेपालदेशे]] भाई टीका नाम्ना, पूर्वभारते भाई फोण्टा इति, पश्चिम-भरते भौबीज इति, [[तेलङ्गाणम|तैलङ्गदेशे]] भ्रातृ-द्वितीया यमा-द्वितीया वा इति नाम्ना भाई-दूज-पर्वं सुभद्रया कृतं भ्राता-प्रेमं जनान् स्मारयति इति बहवः मन्यन्ते ।
एतस्मिन् दिवसे भगिन्यः स्व-भ्रातृन् आमन्त्रयित्वा, तान् स्वादिष्ट-भोजनैः मधुपाकैः च हर्षयन्ति । क्षीरं,पुरिका इत्यादि विशेष-व्यञ्जनानां प्रबन्धः भवति च । नेपाल-देशे तु भगिन्या भर्तारं सप्त-वर्ण-तिलकेन पूजनम् एका प्राचीन-परम्परा अस्ति । यदि भगिनी-भर्त्रोः मेलनं असम्भवं, तर्हि सा भगिनी चन्द्रदेवं स्वाग्रजं मत्वा तस्य आराधानां करोति। तस्मात् कारणात् अद्य अपि बालाः चन्द्रदेवं स्वमातुलं मत्वा तं “चन्दामामा” इति नाम्ना संबोधयन्ति ।
 
भ्राता सदैव भगिन्यः रक्षणे तत्तपरः इति पर्वणः तात्पर्यम् ।
 
 
==बाह्यसम्पर्कतन्तु==
"https://sa.wikipedia.org/wiki/यमद्वितीया" इत्यस्माद् प्रतिप्राप्तम्