"कलायोत्सवः" इत्यस्य संस्करणे भेदः

No edit summary
अङ्कनम् : 2017 स्रोत संपादन
No edit summary
अङ्कनम् : 2017 स्रोत संपादन
पङ्क्तिः १:
 
== '''कलायोत्सवः''' ==
[[File:बसवनगुडिप्रदेशे विद्यमानः वृषभदेवालयः.jpg|right|thumb|बसवनगुडिप्रदेशे विद्यमानः वृषभदेवालयः]]
कार्तीकमासस्य अन्तिमे सोमवासरे कर्णाटकराज्यस्य बेङ्गलूरुनगरस्य "सुङ्केनहल्लि" इति नाम्ना परिचिते "बसवनगुडी"प्रदेशे परम्परानुसारेण कलायोत्सवः प्रतिवर्षं प्रचलति। ’बसवनगुडि’ नाम ’वृषभमन्दिरम्’ इति । अत्र वृषभस्य महान् देवालयः अस्ति । एतस्मिन् अवसरे अस्मिन् विशाले वृषभमन्दिरे वृषभस्य विशेषपूजां पुष्पालङ्कारं च कृत्वा सर्वेभ्यः भक्तेभ्यः निःशुल्कं कलायान् प्रसादरूपेण यच्छन्ति । देवालयस्य प्राङ्गणे एव प्रसादसेवनं वराय इति भक्तानां विश्वासः अस्ति । एतस्मात् पूर्वं, देवालयस्य पुरतः विशेषेण निर्मिते मण्डपे साङ्केतिकरूपेण कलायानां तुलनां कृत्वा भक्तेभ्यः संविभज्यन्ते । बेङ्गलूरुजनाः सङ्गणकतन्त्रज्ञानक्षेत्रे उच्चस्थाने सन्तः अपि स्वसम्प्रदायान् सम्यक् आचरन्ति ।
"https://sa.wikipedia.org/wiki/कलायोत्सवः" इत्यस्माद् प्रतिप्राप्तम्