"कलायोत्सवः" इत्यस्य संस्करणे भेदः

No edit summary
अङ्कनम् : 2017 स्रोत संपादन
No edit summary
अङ्कनम् : 2017 स्रोत संपादन
पङ्क्तिः ४:
''कडलेकायि परिषे'' इत्येषः कन्नडभाषाशब्दः यस्य अर्थः भवति कलायोत्सवः इति । [[कलायोत्सवः <ref>http://www.karnataka.com/festivals/groundnut-festival.html</ref>
==मनोरञ्जनकार्यक्रमाः==
[[File:बसवनगुडिप्रदेशेकलायोत्सवे विद्यमानःपूजितः वृषभदेवालयःअलङ्कृतः वृषभः.jpg|right|thumb|कलायोत्सवे पूजितः अलङ्कृतः वृषभः]]
उत्सवे अस्मिन् न केवलं कलायानां विपण्यः अपि च दोला, बृहत्-चक्रक्रीडा इत्यादीनि अपि भवन्ति। उत्सवे केचन भक्तिभावेन, केचन क्रीडादिभिः च हर्षम् अनुभवन्ति । अन्ये केचन अभरणानां, मेलायां विशेषेण उपलभ्यमानानां वस्तूनां क्रयणकार्ये मग्नाः भवन्ति ।
बेङ्गलूरुनगरं परितः स्थिताः कलायकृषकाः स्वस्वकलायकृषिं बसवदेवाय (वृषभदेवाय) समर्प्य श्रमस्य फलं प्राप्तुं मार्गाणां पार्श्वे कलायराशिं स्थापयित्वा विक्रयणं कुर्वन्तः भवन्ति।
 
==पौराणिकीकथा==
[[File:बसवनगुडिप्रदेशेकलायोत्सवस्य विद्यमानः वृषभदेवालयःदृश्यम्.jpg|right|thumb|कलायोत्सवस्य दृश्यम्]]
बेङ्गलूरुनगरस्य बसवनगुडिप्रदेशं परितः होसकेरेहल्लि, गुट्टाल्लि, मावल्लि, दासरहल्लि इत्यादयः ग्रामाः आसन् । एतेषु सर्वेषु प्रदेशेषु कलायस्य एव कृषिः क्रियते स्म । प्रति पौर्णिमायां वृषभः आगत्य कृषिकाणां श्रमेण प्रवृद्धान् कलायान् खादन्ति स्म। एकदा जागृताः कृषिकाः तं वृषभं ग्रहीतुं प्रयत्तवन्तः । किन्तु सः वृषभः वेगेन धावित्वा एकस्य गिरेः उपरि अदृश्यतां गतः । अनन्तरं गिरौ शिलारूपं प्राप्य स्थीतं तं वृषभं दृष्ट्वा कृषिकाः आश्र्चर्यचकिताः अभवन् । न केवलं तावत् । अग्रे सः शिलावृषभः बृहदाकारेण वर्धितः । एषः शिलावृषभः अत्रत्यः महान् वृषभः (बसवः) । अस्त्रैः ये जनाः वृषभं प्रहृतवन्तः आसन् ते इमं शिलावृषभं दृष्ट्वा चकिताः अभवन् । ईश्वरस्य वाहनं नन्दिः एव एषः वृषभः इति मत्वा भक्त्या नमस्कृतवन्तः। ईश्वरः अस्माकं रक्षणाय एव स्वस्य वाहनं प्रेषितवान् अस्ति इति चिन्तितवन्तः। तं पूजितुम् आरब्धवन्तः । वृषभः स्वस्य प्रियं कलायं खादति स्म । वयं तत् स्थगयितुं वृथा प्रयत्नं कृतवन्तः इति पश्चात्तापम् अनुभूतवन्तः। तदर्थं प्रथमं कररूपेण तस्मै कृषिं समर्प्य विक्रयणम् आरभ्यन्ते । ईश्वरः एव कृषिं रक्षति इति विश्वसन्ति । तस्य देवालयम् अपि निर्मितवन्तः । अनन्तरं १५३७ तमे वर्षे बेङ्गलूरुनगरनिर्मार्त्रा केम्पेगौडमहोदयेन दक्षिणभारतशैल्या मन्दिरस्य पुनर्निर्माणं कृतम् । अतः प्रतिवर्षम् अन्तिमे कार्तीकसोमवासरे कृषकाः कलायानां राशिम् अत्र स्थापयन्ति। बसवं (वृषभं) "यावत् इच्छति तावत् खादतु " इति प्रार्थयन्ति । एषः सम्प्रदायः बहुभ्यः वर्षेभ्यः आचर्यते । भक्ताः अपि कलायान् क्रीत्वा वृषभाय समर्पयन्ति । <ref>{{cite web|url=http://www.deccanherald.com/deccanherald/nov20/metro15.asp |title=कलायोत्सवः }}</ref>एषः शिलावृषभः वर्धमानः एव भवति स्म । अतः तस्य शिरसः उपरि एकं कीलं स्थापितवन्तः। तदनन्तरं तस्य वर्धनं स्थगितम् । सः कीलः त्रिशूलरूपेण अस्ति ।<ref>[http://www.bangalorewaves.com/viewerarticles/bangalorewaves-viewers-article-details.php?val1=271 सर्वजनतोषकः कलायोत्सवः ]</ref>
 
"https://sa.wikipedia.org/wiki/कलायोत्सवः" इत्यस्माद् प्रतिप्राप्तम्