"गीताजयन्ती" इत्यस्य संस्करणे भेदः

→‎References: संचित्रसारमञ्जूषे योजनीये using AWB
No edit summary
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम् iOS app edit
पङ्क्तिः १:
 
 
प्रतिवर्षं [[मार्गशीर्षमासः|मार्गशिर्षमास]]स्य [[शुक्लपक्षम्|शुक्लपक्षस्य]] एकादशीदिनं ‘मोक्षदा’ '''गीताजयन्ती''' ‘समर्पणदिनम्’ इति आचरन्ति । यतः अस्मिन्नेव दिने भगवान् [[श्रीकृष्णः]] [[अर्जुनः|अर्जुनं]] प्रति [[भगवद्गीता|गीतो]]पदेशं कृतवान्। सम्पूर्णे देशे गीताजयन्तीं भक्त्या आचरन्ति । [[महाभारतम्|महाभारतस्य]] [[भीष्‍मः|भीष्म]]पर्वणि [[कुरुक्षेत्रम्|कुरुक्षेत्र]]रणाङ्गणे [[कौरवाः|कौरव]][[पाण्डवाः|पाण्डवयोः]] सैन्ये युध्दसन्नध्दे स्तः । कौरवाणां सैन्ये भीष्मपितामहः गुरु [[द्रोणाचार्यः]], [[कर्णः]], [[शकुनिः]] इत्यादयः आसन् । पाण्डवानां सैन्ये विराटमहाराजः [[दृपदः]], इत्यादयः आसन् । [[अर्जुनः]] सर्वान् दृष्ट्वा खिन्नः अभवत् । [[श्रीकृष्णः]] एव अर्जुनस्य रथे सारथिः आसीत् । प्रथमम् उभयोः सेनयोः मध्ये रथं स्थापयितुम् [[अर्जुनः]] उक्तवान् आसीत् । किन्तु पितामहं, बन्धून् गुरुं श्वशुरं दृष्ट्वा हे कृष्ण अहं युध्दं न इच्छामि । बन्धुहत्या न सन्तोषाय । इति वदन् रथादवरुह्य अतीव दुःखितः अभवत् । तदा [[श्रीकृष्णः]] अर्जुनाय हितकरम् उपदेशं कृत्वा ‘कर्तव्यं कुरु’ इति यदुक्तवान् तदेव ‘[[भगवद्गीता]]’ इति प्रसिध्दाऽस्ति ।
 
[[उपनिषदः]] एव गावः । दोग्धा गोपालनन्दनः [[कृष्णः]] पार्थः वत्सः । गीतामृतम् एव दुग्धम् इति [[भगवद्गीता|भगवद्गीतायाः]] महत्वं वर्णितम् अस्ति । एषा [[भगवद्गीता]] व्यासकृता [[महाभारतम्|महाभारतकाव्ये]] ग्रथिता अस्ति । सप्तशताधिकश्लोकाः सन्ति । अष्टादशाः अध्यायाः सन्ति । मुख्यतः श्रीकृष्णार्जुनसंवादरुपः अस्ति एषःउपदेशः । आरम्भे [[धृतराष्ट्रः|धृतराष्ट्रमहाराजः]] कुरुक्षेत्रे प्रवृत्तं युध्दम् ईक्षितुम् असमर्थ इति व्यासमहर्षिभिः सञ्जयाय दिव्यदृष्टिः दत्ता आसीत् । तया सञ्जयः युध्दस्य वार्तांवर्णने प्रवृत्तः । [[धृतराष्ट्रः]] यदा [[कुरुक्षेत्रम्|कुरुक्षेत्रे]] मामकाः पुत्राः [[पाण्डवाः]] किं कुर्वन्तः सन्ति इति पृष्टवान् । एषः प्रश्नः एव [[भगवद्गीता|भगवद्गीतायाः]] आद्यः श्लोकः । सञ्जयः अनन्तरं सर्ववृत्तं धृतराष्ट्राय उक्तवान् ।
"https://sa.wikipedia.org/wiki/गीताजयन्ती" इत्यस्माद् प्रतिप्राप्तम्