"कलायोत्सवः" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १५:
 
चिन्तामणी, श्रीनिवासपुरः, कोलारः, चिक्कबल्लापुरः,मागडी, मण्ड्य, मैसूरु, तुमकूरु, कुणिगल् - एवं विविधैः भागैः कृषकाः कलायान् आनयन्ति । तमिलुनाडु, अन्ध्रप्रदेशराज्यस्य कृषकाः अपि अस्मिन् उत्सवे भागं वहन्ति । उत्सवं प्रति आगताः सर्वे अपि जनाः किञ्चित् वा कलायान् क्रीणन्ति । एतेन कृषिकाः लाभान्विताः भवन्ति ।
==काव्येषु उल्लेखः==
शतावधानिना रा गणेशवर्येण रचिते ऋतुकल्याणम् इति काव्ये कलायोत्सवस्य उल्लेखः कृतः दृश्यते । यथा -
बसवनगुडिकेन्द्रे नन्दिनो मन्दिराग्रे
प्रतिशरदमुपात्तं कान्त कालाय्यपर्व ।
अनुभव नगरेऽपि ग्रामसीम्नः प्रमोदं
त्वमहमिव सुधारुट्साक्षिकं च प्रकामम् ॥
 
अलमलमयि कृत्वा श्लाघनं पर्वणोऽस्य
प्रतिमुहुरतिवेलं दूषितं निर्मलत्वम् ।
जनपद इव नेत्रा दूरदृष्टिच्युतेन
प्रकटपरिसरेऽस्मिन् स्फूर्जितेन क्षणेन ॥
 
भर्जितानां कलादानां समुद्गं पाणिना वहन् ।
अट क्षणे मया सार्थं स्मारयं बाल्यविक्रमम् ॥
 
कलायोत्सवः कोषमोषोत्सवाख्यां
वहत्येव मुग्धे क्वबाल्यस्मृतिस्ते ।
मिलद्बालका अत्र लुण्टाकलीलाः
खलन्तीत्यलं विस्तरेणप्रणीय ॥<ref>{{cite book| last=आर् गणेशः|first=शतावधानी|title=ऋतुकल्याणम्| year=2020|page=67}}</ref>
==उल्लेखाः==
{{reflist}}
[[वर्गः:हिन्दु-उत्सवाः]]
"https://sa.wikipedia.org/wiki/कलायोत्सवः" इत्यस्माद् प्रतिप्राप्तम्