"ज्योतिषस्य संहितास्कन्धः" इत्यस्य संस्करणे भेदः

1
 
1
पङ्क्तिः १:
'''संहितास्कन्धः''' ज्योतिषशास्त्रस्य कश्चन भागः वर्तते। ज्योतिषस्य हि सन्ति त्रयो मुख्यभागाः स्कन्धसंहिता-सिद्धान्तसंहिता-होराऽऽख्याः । तत्र ग्रहाद्यवस्थितिर्बोधकः स्कन्धः सिद्धान्तो यस्य गणितग्रहगणितगोलभेदेन त्रयः पादाः । ग्रहाणां सामूहिकप्रभावो येन ज्ञायते स संहितास्कन्धः सार्वत्रिकविषयः । येन सः प्रभावो व्यक्तावन्विष्यते स होरास्कन्धः । एतेनैतत्सिध्यति यद्ग्रहस्थितिज्ञानमेव सिद्धान्तस्तस्याः समूहे प्रभाव ज्ञानं संहिताव्यक्ती तु होरेति । केचित्तु नैतद वाञ्छन्ति । तेषां मते जातकप्रश्नमुहूर्तनिमित्तादिहोराविषयम् । सिद्धान्तहोयोरेका वर्णनमेव संहितेति । मतभेदोऽयं संहिताहोरे आदायैव । कल्याणवर्मा स्पष्टमेव निर्दिशति यज्ञातस्य शुभाशुभादिकमैफलादेशिका होरेति । यथोक्तम्--
 
'''<nowiki/>'कर्मफललाभहेतु चतुराः संवर्णयन्त्यन्ये।'''
पङ्क्तिः ३८६:
'''‘तुष्यन्तु सुजना बुद्ध्वा विशेषान्मदुदीरितान् ।'''
 
'''अबोधेन हसन्तो मां स्वतस्तुष्यन्तु दुर्जनाः ॥'''<nowiki/>' इति । ( १/७)
 
तथैव, शिरोमणौ गोलाध्यायस्य छेद्यकाधिकारे समुपन्यस्तं दिव्यज्ञानमतीन्द्रिय::::(९) इत्यादिपद्यं व्यवहारंप्रदीपे तथा शौनकसंहितायाम् इत्युपक्रम्य दत्तमस्ति यथापाठम् । तथैव सिद्धान्तशिरोमणी गोलाघ्याये यत् 'यो वेद वेदवदनम्' (८) इति पद्यं व्यवहारप्रदीपे 'यथा चोक्तं वासिष्ठे' इत्युपक्रम्य वेदवदनमित्येतस्य स्थाने वेदनयनमिति पाठं कृत्वा यथायोगं पठितमस्ति । वस्तुतस्तु भास्करीयेऽपि नयनमेव पाठः समीचीनः प्रतिभाति, ज्योतिषशास्त्रप्रशंसनप्रसङ्ग तथैवान्वयित्वात् । ‘शब्दशास्त्रे पटिष्ठ' । इति पूर्वमेवोक्तत्वाच्च । प्रथमं शब्दशास्त्रं ततो गणितशास्त्रं ततश्च समग्न ज्योतिषशास्त्रं च ज्ञात्वैव वेदाध्ययनेऽधिकारी भवति इति पद्यद्वयस्याशयाच्च । एतदपि सम्भवति यदुभाभ्यामेव तद्ग्रन्थान्तरतो यथा शौनकसंहिता वसिष्ठसंहितादितो गृहीतं स्यात् ।
"https://sa.wikipedia.org/wiki/ज्योतिषस्य_संहितास्कन्धः" इत्यस्माद् प्रतिप्राप्तम्