"जातकशास्त्रम्" इत्यस्य संस्करणे भेदः

1
(भेदः नास्ति)

०९:१८, ४ फेब्रवरी २०२१ इत्यस्य संस्करणं

यत्र हि जन्मकालिकग्रहाद्यवस्थितिमाधारीकृत्य जनस्य भूतवर्तमानभाविशुभाशुभफलादेशः क्रियते तज्जातकशास्त्रम् ।

खस्थानां पिण्डानां भूस्थितैर्जनैः सह सम्बन्धनं सहसा न प्रतीतिमायाति । किन्तु तयोरविच्छेद्यः सम्बन्धोऽस्त्येव यथार्थतः । सत्यमेवोक्तम् -

‘ग्रहैर्याप्तमिदं सर्वं त्रैलोक्यं सचराचरम्' । इति ।

सूक्ष्मावलोकनेनैतत्स्पष्टमेव ज्ञायते यद्यत्प्रकृतिको यस्य जन्मनक्षत्रतत्स्वामिराशितत्पतिलग्नतत्पमासतत्पतिवासरतिथितत्पतीत्यादिः तत्प्रकृतिक एवं जनो भवतीति । यथा हि मेषराशी जातो जनो जलाद् बिभेत्येव । मेषराशेः स्वामी भौमः स च वह्निप्रकृतिको जलविमुखः । एवमेव सिंहस्य स्वामी सूर्यः । तद्राशौ जातो निश्चयमेव पित्तप्रकृतिकोऽल्पवाचश्च भवति । यदि योगान्तरवशात् कस्मिभिन्नापि सर्वाणि लक्षणानि घटेरंस्तथापि स्वल्पमपि जन्मराशिप्रभावं देहे दृश्यत एव । एवमेव नक्षत्रादीनामपि । तेन जातकफलादेशात पूर्वं खस्थपिण्डज्ञानमत्यावश्यकीयं भवति ।

गगने हि या हि तारका दृश्यन्ते दुरतो दर्शनेन समप्रकृतिवद्भासमानास्वपि तासु आभ्यन्तरं महदन्तरं विद्यते । तत्र काश्चनातिस्थूलाः कतिपयास्तु नितान्तकृशाः काश्चिज्ज्योतिर्मया अपरा ज्योतिहना वा स्वल्पज्योतिष्काः । काश्चिच्चलनशीला अपरास्तु सदास्थिराः । गतिमतीस्वपि काश्चिच्छीघ्रगतिका अपरास्तु मन्दगतिका अपि । या हि स्थिरा दृश्यन्ते ता नक्षत्रशब्देन ज्ञायन्ते ऋक्ष-भशब्दयो । या हि गतिशीलास्ता ग्रह-खेट-खेचरप्रभृतिशब्दैरपि ज्ञायन्ते ।। यथोक्तं पाराशरशास्त्रे -

'आकाशे यानि दृश्यन्ते ज्योतिबिम्बान्यनेकशः ।

तेषु नक्षत्रसंज्ञानि ग्रहसंज्ञानि कानिचित् ।।

तानि नक्षत्रनामानि स्थिरस्थानानि यानि वै ।

गच्छन्तो भनि गृह्णन्ति सततं ये तु खेचराः ॥'[१]

यद्यपि गगनमविभाज्यमेकं विभु चानन्तञ्च तथापि ज्योतिःपिण्डस्थित्यध्ययनाय ज्योतिविद्भिः समस्तं ज्योतिषचक्र सप्तविंशतिधा प्रथमतो विभाजित कैश्चिदष्टाविंशतिधाऽपि । ते च प्रत्येक विभागा यथाप्रकृति नाम्नाऽप्याहूताः । त एव नक्षत्राणि । तानि हि सम्प्रति निरयणमानेन उत्तराभाद्रपदातः पूर्वाभाद्रपदापर्यन्तानि सायनमानेन शतभिषातः धनिष्ठापर्यन्तानि । तेषामपि प्रत्येक सन्ति चत्वारः पादाः इति भवन्ति १०८ पादाः ये हि नवांछुविभाज्या निःशेषत्वेन । तेन हि प्रतिनवपादमेको राशिः कल्पितः । राशयो द्वादश सम्प्रति निरयणमानेन मीनतः कुम्भपर्यन्ताः सायनमानेन कुम्भतो मकरान्ताः ।

तेषु हि मेषसिंहधनु:संज्ञकाः नक्षत्रादितः प्रवृत्ती अन्ये तन्मध्यत एव । नक्षत्राणां सन्ति प्रत्येक स्वप्रकृतिनिरूपका देवताः । राशीनामपि स्वामिनः सूर्यादयो ग्रहाः सप्त स्वस्वप्रकृतिकाः यत्र क्रमेण सिंहस्य कर्कटस्य मेषवृश्चिकयोः मिथुनकन्ययोः धनुर्मानयोः वृषतुलयोः मकरकुम्भयोः सूर्यचन्द्रभौमबुधबृहस्पतिशुक्रशनैश्चराः स्वामिनः । ग्रहाणामपि उच्चनीचसाम्यस्थितिर्भवति यदानुकूल्येन ते फलं ददति । शास्त्रेषु मेषवृषमकरकन्याकर्कटमीनतुलामिथुनराशयः सराहूणां सूर्यादीनामुच्चस्थानानि ततश्च सप्तमराशयः क्रमेण नीचस्थानानि अन्तरालवतनः साम्यस्थानानि ।

वस्तुतस्त्वयं हि शास्त्रीयो विधिः । नूनं कदाचिदासीद्यत्प्रोक्तं पूर्वशास्त्रेषु । सम्प्रति तु सूर्यो निरयणमिथुने वा सायनकर्के एव परमोच्चः । शास्त्रे भीमो हि मकरे उच्चत्वेन सम्मतः । वस्तुतस्तु स्थितिरेषा शकोदयात् ९७०० वर्षाणि प्रागेव सम्भवति न तु कदापि तदनन्तरम् ( भारतीज्योतिषम्, पृ० ६२७ ) । एवमेवान्येषामपि स्थितिः ।

नक्षत्रराशिग्रहाणां स्वस्ववर्णजातिलिङ्गान्यपि कथितानि । यथोक्तं पाराशयम्-

'क्लीबौ द्वौ सौम्यसौरौ च युवतीन्दुभृगू द्विजः ।।

नराश्च शेषा विज्ञेयाः•••••••••••••••••••••••••••••••॥' इत्यादि ।

एवमेव दिगनुसारेण तेषां बलाबलमपि प्रोक्तम् । ग्रहाणां मित्रत्वामित्रत्वसमत्वञ्च तत्र तत्र शास्त्रे प्रतिपादितम् ।

किन्तु अन्योन्यतः तृतीयैकादशचतुर्थदशमद्वितीयद्वादशस्थानगतास्ते तत्कालमित्राणि भवन्ति । ते च दशमतृतीयस्थानयोः पादेनैकेन नवपञ्चमस्थानयोः पाद द्वयेन चतुरस्र पादत्रयेण सप्तमे तु सम्पूर्णदृष्टया पश्यन्ति । तथापि तृतीयदशमयो: शनिः त्रिकोणे बृहस्पतिः चतुरस्रे भौमः सम्पूर्णयैव दृष्ट्या पश्यन्ति ।

जातकस्य हि जन्मकाले यो राशिः क्षितिजस्य पूर्वभागे भवति स एव । तस्य लग्नराशिः । तदारभ्य परिगण्यन्ते द्वादश राशयः । तत्र तत्र ग्रहाणामवस्थानमपि निदश्यते । चक्रमिदं जन्मकुण्डलीपदेनाभिधीयते । राशयो हि क्रमेण स्वस्वभोगानुसार पूर्वस्यां भवन्ति सूर्योदयराशित आरभ्य । इत्थं तेषामपि प्रत्यहोरात्रं चक्रं भ्रमति । यदि कश्चिन्मिथुने हि पूर्वस्यां प्राप्ते जन्म लभते तस्य मिथुनमेव लग्नं भवति यत आरभ्य भावगणना क्रियते ।

अत्र चत्वारि केन्द्रस्थानानि लग्नं चतुर्थं सप्तमं दशमञ्च क्रमेण शरीरं सुखं जाया कर्म च । शरीरस्यात्मनो वामे व्ययस्थानं दक्षिणे धनस्थानम् । सुखस्य वामे सहजस्थानं दक्षिणे पुत्रस्थानम् । जायायाः वामे रिपुस्थानम्, दक्षिणे मृत्युस्थानम् । कर्मणो वामे भाग्यस्थानं दक्षिणे आयस्थानञ्च ।

न केवलं ग्रहा नरस्य कुण्डल्युक्तविषये शुभाशुभफलं वा स्थिति निर्दिशन्ति अपि तु स्वयमेव नरो ग्रंहमयः । यथोक्तं--

'कालात्मा दिनकृन्मनस्तु हिमगुः सत्त्वं कुजो ज्ञो वचो ।

जीवो ज्ञानसुखे सितश्च मदनो दुःखं दिनेशात्मजः ॥' इति ।

यथा हि सूर्यादिग्रहाः क्रमेण सूर्याचन्द्रमसौ सर्वतत्त्वमयी भौमाद्या अग्निभूमिनभस्तोयवायुतत्त्वमण्डिताः । यस्य यदेव तत्त्वं स तस्यैव साधकः ।

स्वभावतः कूराः सौम्या वा ग्रहा यथाप्रकृतिफलदाः । तत्र सूर्यभौम शनिराहवः क्रूराः सोमबुधबृहस्पतिशुक्रा सौम्याः किन्तु क्षीणश्चन्द्रः सकूरग्रहो बुधस्तु कुर एव ।

राशिभावोदयास्तबालतरुणवृद्धत्वादिवशाद्यदेव शुभाशुभं फलं ग्रहा ददति तदपि भावगताः पूर्ण सन्धिस्थिता न किमपि दिशन्ति ।

यद्यपि फलादेशविषये दैवज्ञा वैमत्यं भजन्ते तथापि तद्विषयकसिद्धान्तेषु तु तेषामैकमत्यमेव । इत्थं हि सुविस्तृत जातकशास्त्रं कदा विकसितमभूदिति तु न शक्यते इदमित्थन्तया वक्तुं तथापि यथामिलितोपचारैरत्र तद्विषये किञ्चिदुच्यते ।

जातकस्कन्धस्य विकासः

लग्नादिग्रहादसदाधारेण फलादेशनप्रक्रिया कदाऽऽरभ्य प्रवृत्तेति नास्माकं ज्ञातं किन्तु नितान्तप्राचीनेयमिति शास्त्रावलोकनतो ज्ञायते । वाजसनेयीय- . संहितायां 'नक्षत्रदर्शस्य ( ३०।१० ) गणकस्य ( ३०।२० ) चोल्लेखो दृश्यते । एवमेव तैत्तिरीयब्राह्मणेऽपि ( ३॥४॥४; ३।४।६ )। तत्र प्रज्ञानाय नक्षत्रदर्शमालभते गीताय गणकमित्याशयः सायणेन व्याख्यातः । एवमेव छान्दोग्योपनिषद्यपि ( ७।१।२,७५७५१ ) नक्षत्रविद्याया उल्लेखो दृश्यते । तदा हि नक्षत्रविद्या प्रज्ञानाय मता किन्तु नक्षत्रविद्यया जीवनं नितान्तमेव गहतं मतम् । मनुस्मृती नक्षत्र विद्याजीवी अपाङ्क्तेयो मतः । यथा -

‘हस्तिगोऽश्वोष्ट्रदमको नक्षत्रयंश्च जीवति ।।

पक्षिणां पोषको यश्च युद्धाचार्यंस्तथैव च ॥ ( ३।१६२ )

•••• •••••••••••••••••••••••

••••••। . . कृषिजीवी श्लीपदी च सद्भिर्गहित एव च ।। ( ३॥१६५ )

एतान् विगहताचारानपाङ्क्तेयान् द्विजाधमान् ।

द्विजातिप्रवरो विद्वानुभयत्र विवर्जयेत् ।। ( ३।१६७ ) . . .

न चोत्पातनिमित्ताभ्यां न नक्षत्राङ्गविद्यया ।।

नानुशासनवादाभ्यां भिक्षां लिप्सेत कहिचित् ॥' ( ६।५० )

एवमेवं शङ्खलिखितावपि । यथा--

‘अनृतवादी तस्वरो''''नक्षत्रादेशवृत्तिः"""अपाङ्क्तेयाः ।

हारीतोऽपि यथा---

चिकित्सक ..........' भृतकाध्यापक:::::::::"नराशंसकापिलकदेवलघाण्टिकनक्षत्रजीविमहोदधिगामि:::::::::"पक्तिदूषका भवन्ति ।'

एतेन नैतदवधेयं यन्नक्षत्रविद्यैव तदा निन्दिताऽऽसीदिति । वस्तुतस्तु तदाऽपि नक्षत्रविद्या विशिष्टज्ञानविषयत्वेन मता । केवलं फलादेशेन जीविका तु गहता तदा । सत्यां हि नक्षत्रविद्यायामेव गहतायां नारदः स्वयमात्मानं नक्षत्रविद्याकुशलत्वेन सगौरवं नोपस्थापयेत् सनत्कुमारस्य पुरतः यथा छान्दोग्योपनिषदि नहि तथा सति याज्ञवल्क्यस्मृतो 'पुरोहितं प्रकुर्वीत दैवज्ञमदितो. दितम्' इति कथितं स्यात् (१।३।१३ ) । तथानिन्दनं न केवलं नाक्षत्रिकी

वापितु सर्वेषामेव विज्ञानजीविनाम् । यथोक्तं वायुपुराणे -

'सन्ति वेदविरोधेन केचिद्विज्ञानमानिनः ।.. ..

अयज्ञपतयो नाम ते भुञ्जन्ति यथा रजः ॥' इति ।

नक्षत्रज्ञाने एव गहिते सति पतितपावनेषु षडङ्गविदामुल्लेखो न स्या मनुस्मृतौ -

"त्रिणाचिकेतः पश्वाग्निस्त्रिसौपर्णः षडङ्गविद्' । इति ।

वेदानां यथार्थमेव प्रवृत्तिस्ते च कालसाध्या इति कालज्ञानं कयं निति स्यात् केवलं तदाश्रितजीविकैव गर्हिता तदा । यथा हि देवपूजनं प्रशस्तं किन्त पूजकवृत्तिनिन्दिता तथैवात्रापि ।

वैखानसस्मात सूत्रे जन्मकर्मसाङ्घातिकसामुदायिकवैनाशिकमानसनक्षत्राणामुल्लेखो दृश्यते। तेन हि नरः षण्णक्षत्रः । यथा . व्याख्यातं योगयात्रायाम् ( ९।१।३-१०)। नरो यस्मिन्नक्षत्रे जायते तज्जन्मनक्षत्रमाद्यं ततो दशमं कर्मनक्षत्रम् । आद्यात षोडशं साङ्घातिकम् । आद्यादष्टादशं समुदायनक्षत्रम् । आद्यात त्रयोविंशतितमं वैनाशिकम् । आद्यात् पञ्चविंशतितमं मानसमिति । जन्मनक्षत्रे दुष्टे वा दुष्टप्रभाविते नरो रोगी दरिद्रश्च कर्मनक्षत्रे दुष्टे कर्महानिः साङ्घातिके दुष्टे कपटप्रवञ्चनादि सामुदायिके दुष्टे घनक्षयः वनाशिके वाञ्छित वस्तुनाशः मानसे दुष्टे चित्तवैकलव्यं शुभे शुभयोगे वा सर्वेषामानुकूल्यमिति । राजा तु नवनक्षत्र-देशजाति राज्याभिषेकनक्षत्रयोगेन । विष्णुधर्मोत्तरेऽपि प्रथमखण्डस्य नवाशीतितमेऽध्याये विषयोऽयं शान्तिविधिसहितो निर्दिष्टः । तत्रोक्तं यत् षट्स्वेव नक्षत्रेषु प्रभावितेषु नरस्य नाशो निश्चितः । एवमेव राज्याभिषेकनक्षत्रे प्रभाविते राज्ञो नाशो ध्रुवः । यदा हि कश्चिद् भरणीनक्षत्रे जायते तदा तत्तस्यादि नक्षत्रम्, पूर्वाफाल्गुनी कर्मनक्षत्रम् अनुराधा हि साङ्घातिकनक्षत्रम्, मूलं हि समुदायनक्षत्रम्, शतभिषा हि वैनाशिकनक्षत्रम् उत्तराभाद्रपदा हि मनोनक्षत्रमिति ।

सिद्धान्तस्कन्ध इति ज्योतिषस्य जातकस्कन्धोऽपि मौलिक एवास्माकम् । तत्र तत्र प्राचीनग्रन्थेषु. शुभमुहूर्तप्रभृतिविषयस्योल्लेखो दृश्यते फलादेशप्रक्रियायाश्च । स्मयन्ते बहवो जातकग्रन्थाः प्राचीनाः बृहज्जातकादौ येषां विषये न विद्यतेऽस्माकं ज्ञानं पर्याप्तम् । कथ्यते हि नारदकश्यपवसिष्टपराशरभृगुप्रभृतिभिमुनिभिर्जातकशास्त्राणि प्रोक्तानि प्रणीतानि वाऽऽसन् । सम्प्रत्यपि पाराशरभृगुजैमिनिप्रणीतत्वेन कतिपये फलितज्योतिषग्रन्था लभ्यन्ते कामं तेषां रचना शैली विषयाश्चार्वाचीना प्रतिभान्ति । पौरुषेयग्रन्थेषु वराहमिहिरस्य बृहज्जातकं तस्यैव संक्षिप्तसंस्करणं लघुजातकं योगयात्रा तदात्मजस्य पृथुयशसः षट्पञ्चाशिका कल्याणवर्मणः सारावली केशवस्य जातकपद्धतिः गणेशदैवज्ञस्य जातकालङ्कारः वैद्यनाथस्य जातकपारिजातः ढुण्ढिराजस्य जातकाभरणम्, जीवनाथस्य भावकुतूहलम्, बलभद्रस्य होरारत्नञ्च केचन प्रसिद्धा जातकग्रन्थाः । अर्थतेषां संक्षिप्तपरिचयोऽत्रोपस्थाप्यते ।

कतिपये जातकग्रन्थाः

बृहत्पाराशरहोराशास्त्रम् । बृहत्पाराशरहोराशास्त्रं हि पराशरमुनिप्रोक्तत्वेन प्रसिद्धो होराग्रन्थः । असौ हि पराशरमैत्रेयसंवादरूपः पश्चाद्वतिना केनापि दैवज्ञेन सङ्गृह्य विलिखितः । अस्यापि मोह्मयीतः काशीतश्च प्रकाशितयोः संस्करणयोदृश्यते महान् पाठभेदः । तेन कतरच्छुद्धमिति वक्तुमपि न सुकरम् । वयमत्रास्य काशीसंस्करणमेवानुसरामोऽस्य ।

अस्योपसंहाराध्याये प्रोक्तं यच्छास्त्रं यद् ब्रह्मणा नारदाय दत्तं तदेव नारदेन शौनकादिभ्य उक्तम् । ततश्च तच्छास्त्र पराशरेण प्राप्तं मैत्रेयाय प्रोक्तमिति । ग्रन्थेऽस्मिन् सन्ति अष्टनवतिमिता अध्यायाः । अत्र हि यद्विवेचितं तद्यथोक्तमुपसंहाराध्याये -

‘सृष्टिक्रमोऽवताराश्च गुणा खेटस्य भस्य च ।

विशेषलग्नं वर्गाश्च तद्विवेकश्च राशिदृक् ।

अरिष्टं तद्विभङ्गश्च विवेको भावजस्तथा ।

भावानाञ्च फलाध्यायो भावेशोत्थफलं तथा ।।

अप्रकाशफलं स्पष्टखेटदृष्टिप्रसाधनम् ।

ततः स्पष्टबलाध्याय इष्टकष्टप्रसाधनम् ॥

पञ्चोपपदं तद्वदर्गला त्वथ कारकाः ।[२]

इत्यादिः ग्रन्थोऽयं सीतारामाख्येन दैवज्ञेन १८६८ शकाब्दे सम्पाद्य प्रकाश्यं नीतः। अत्र हि सर्वेऽपि जातकसम्बद्धविषया निरूपिताः । शङ्करबालकृष्णानुसारेण सन्त्यत्र बहवः प्रक्षिप्तांशी अपि तथापि ग्रन्थस्यास्य आर्षत्वं तु न तेन हीयते । एषा परम्पराऽस्मासु न सर्वथाऽज्ञाता। वयं हि सौतिप्रोक्तत्वेन सङ्कलितं महाभारतांशमपि ( आदिपर्वणि १-६० अध्यायाः) व्यासकृतत्वेन वा सुतप्रोक्तत्वेन सङ्गृहीतं पुराणांशमपि व्यासप्रणीतत्वेन गृह्णीम एव । स्वयं भट्टोत्पल एव बृहज्जातकस्य सप्तमाध्यायस्य नवमश्लोकव्याख्यायां पाराशरीया संहिता केवलमस्माभिर्देष्टा न जातकम् । श्रूयते स्कन्धत्रयमिति पराशरस्येति कथयति। यदोत्पलकाले एवं पाराशरहोरा दुष्प्रयाऽऽसीत्तदा का वार्ता सम्पति मूलभागप्राप्तेः । किन्तु पराशरप्रोक्तं होराशास्त्रमासीदिति तु वराहस्य ‘मययवनमणित्थशक्तिपूर्वैः' ( ७।१ ) इति वचनाज्ज्ञायते, यत्र शक्तिपूर्वः पराशरः शक्तिस्तदाख्यो वसिष्ठमुनिपुत्रः पूर्वं पिता यस्येति विग्रहात् । एवमेव ‘चित्रं प्रोज्झ्य पराशरः कथयते दौर्भाग्यद योषिताम् इति मयाचार्य-मणित्थाचार्यप्रणीतहोराशास्त्रवचनाच्च पाराशरहोराशास्त्रस्यावस्थितिस्तु स्पष्टैव यस्य भट्टोत्पलोऽपि श्रुतिसाक्षी कामं न दृष्टिसाक्षी । पाराशरशास्त्रे अत्र यत्रोक्तं तगर्गाचार्यशास्त्रतो ज्ञेयमिति वचनादस्य गर्गशास्त्रसंक्षिप्तरूपत्वं प्रतिभाति, किन्तु कथनस्यास्य मौलिकत्वं न संशयबाह्यम् ।

पाराशरहोराशास्त्रस्य लघुरूपं मध्यमरूपञ्च प्रकाशितं दृश्यते । लघुरूपं हि लघुपाराशरीति उडुदायप्रदीप इति वा कथ्यते । उडुदायप्रदीपो हि पुनरुक्तं शास्त्रमिति तस्य -

वयं पाराशरीं होरामनुसृत्य यथामति ।

उडुदायप्रदीपाख्यं कुर्मो देवविदां मुदे' ॥ २ ॥ इति कथनादेव सिध्यति ।

अत्र संज्ञाध्यायो योगाध्यायः, आयुर्विचाराध्यायः, दशाफलाध्यायः मिश्रकाध्यायश्चेति पञ्चाध्यायाः पञ्चचत्वारिंशच्छ्लोकाश्च सन्ति ( १३+९+९+८+६==४५ ) । ग्रन्थोऽयं केन कदा पुनः प्रणीत इति न ज्ञातमस्माकम् । एतावदेवानुमीयते यदसौ भट्टोत्पलादर्वाचीनो यतो हि स स्मरतीति । मध्यपाराशय सन्त्यष्टी परिच्छेदाः यस्या अयमादिमः श्लोकः -

‘पराशरमुनि नत्वा तस्य होरा निरीक्ष्य च ।।

वक्ष्येऽप्युडुदशामार्ग पूर्वशास्त्रानुसारतः ।।' इति ।

उभयोरपि पाराशर्योः प्रणेता एक एवेति तज्ज्ञाः । ते उभेऽपि न हि बृहत्पाराशरहोराशास्त्र तथ्यतोऽनुसरतः । तेन ते कस्यचित् प्राचीन ग्रन्थस्य सारसङ्क्षेपमादत्त इति निश्चितमेव । पाराशर्याः संहिताया भट्टोत्पलो दृष्टिसाक्षी ( बृ० जा० ७१९ व्याख्यायाम् ) वयन्तु तस्याः श्रुतिसाक्षिण एव ।

वराहाचार्यों हि यवनमयमणित्थजीवशर्मसत्याचार्यप्रभृतीनाचार्यानपि स्मरति । तेन तदा तत्तत् प्रणीतग्रन्थानामस्तित्वं ज्ञायते । भट्टोत्पलस्तु स्फुजिध्वज मयमणित्थजीवशर्मापराशरसत्याचार्याणां ग्रन्थानपि चोद्धरति तदतिरिक्तं बादरायणगाग्र्योरपि । एकतः ये खलु ब्रह्मादयोऽष्टादशज्योतिषाचार्याः स्मृतास्तेषां प्रत्येक स्कन्धत्रयप्रवचनं सिद्धत्येव । तेषु हि कतिपये तु नैव सङ्गृहीता अप्यासन् । येऽपि खलु सङ्गृहीतास्तेऽपि कतिपये प्रणष्टाः कतिपये विस्मृता अपि । सम्प्रति हि ये खलु ग्रन्थाः श्रूयन्ते तेषु गर्ग कश्यपवसिष्ठनारदभृगुव्यासशौनकयवनपराशरप्रोक्ताः । शास्त्रप्रवर्तकत्वेन जैमिनेर्नाम नैव किन्तु तस्य ज्योतिषविषयकः सूत्रग्रन्थो लभ्यते । वराहमिहिरो हि केवलं तेषु यवनपराशरग्रन्थमेव स्मरति । सम्भवति तत्स्मृतौ मयमणित्थौ तेषां मध्ये यस्य कस्य प्रातिनिध्यं भजतः । जीवशर्मसत्याचार्यविषयेऽप्येवमेव । अर्थतेषां यथाज्ञातपरिचयः प्रस्तूयते ।

नारदीयहोराशास्त्रम्

नारदेन हि संहिताशास्त्रवद्धोराशास्त्रमपि प्रोक्तमासीदिति- ..

‘उक्त्वा स्कन्धद्वयं पूर्व संहितास्कन्धमुत्तमम् ।

वक्ष्ये'•••••••••••••••••••••••••••••••• ••• ।' इति कथनाज्ज्ञायते ।

एतद्विषये नास्माकं तदधिकं ज्ञानम् ।

भृगुसंहिता

भृगुहि भगवानृषिज्र्योतिषस्य स्कन्धत्रयस्यैव प्रवक्ताऽऽसीत् । सम्प्रति तस्य संहितायाः फलितभाग एव लभ्यते । कथ्यते हि तत्र सन्ति ७४६४९६०० जन्मकुण्डल्यः साधिताः । प्रतिकुण्डलि षष्टयधिकश्लोकैः फलादेशश्च । तथा हि सति तु ग्रन्थविस्तारस्यानन्त्यमेव स्यात् । कृतेऽपि 'असितगिरिसमं स्यात् कज्जलं सिन्धुपात्रे सुरतरुवरशाखा लेखनी पत्रमुर्वी नाऽस्य कोऽपि पारमियात् ।

नेपालाधिराज्यान्तर्गतखोटाङ्गमण्डलवतलामीडाड़ाग्रामवास्तव्यपण्डितवरदेवीप्रसादभट्टराईमहोदयपाश्र्वेऽस्माभिः १८८८ मितशकाब्दे भृगुसंहिता दृष्टाऽऽसीत् । पण्डितवरकथनानुसारेण तत्र विभिन्नलग्नघटिता एकसहस्रमितजन्मकुण्डल्य आसन, फलादेशस्तु श्लोकवैषम्येन । सम्प्रति सामान्यतो या भृगुसंहिता लभ्यते तत्र शतद्वयकुण्डल्य एव दृश्यन्ते । वस्तुतस्तु ग्रन्थोऽयं बृहत्कायः सम्भवति शताब्द्यधिकसमयघटयितः । एतादृशं दिक्षु प्रथितं महाग्रन्थं वराहमिहिरो भट्टोत्पलश्च नैव जानीत इति महदाश्चर्यम् । अनेन तु एतदेव सिध्यति यद् ग्रन्थोऽयं भट्टोत्पलकालादवगेव प्रणीत इति किन्त्वस्माकं चेतना न तथा मन्यते । कस्याप्येकस्यास्मरणमेव न तदर्वाग्वतत्वे दृढ प्रमाणम् । न च वराहमिहिरस्य स्वल्पज्ञानं वा तदुपेक्षणमपि सम्भवति । न च कल्याणवमुँव . ग्रन्थमिमं स्मरति । तेनात्र वयमसहायाः स्मः । एतादृशस्य बृहत्कायग्रन्थस्य प्रणयनं तु गुरुकुलेष्वेव सम्भवतीति सत्यमेव । न हि काचिद् गुरुकुलपद्धतिरप्येतादृशी साम्प्रतिकयुगे श्रुता । विषयेऽस्मिन्नेतावदेवानुमातुं शक्यते यद् ग्रन्थोऽयमार्षः प्रायो दाक्षिणात्यप्रदेशे प्रचलितो येनौदीच्यैर्बहुकालानन्तरमेव ज्ञात इति ।

गर्गसंहिता

पुराणादिषु गर्गाचार्यः सांवत्सरिकत्वेनाऽपि ज्ञातः । भट्टोत्पलो बृहत्संहिताटीकायां गर्गवचनमुद्धरति । यथा--

‘राशितुल्यांशसङ्ख्यांनि ग्रहोऽब्दानि प्रयच्छति ।।

लग्नश्च सबलोऽन्यानि मुक्तराशिसमानि तु ।' इत्यादि ।।

तेन गर्गहोराशास्त्रस्यास्तित्वं सिद्धमेव ।।

मयहोराशास्त्रम्

मयप्रणीतं होराशास्त्रं वराहमिहिरः स्वरूपेण स्मरति-‘मययवनमणित्थशक्तिपूर्वैः' ( ७।१ ) इति कथनेन । मयों मयनामा दानवः सूर्यलब्धवरप्रसादः । भट्टोत्पलो मयकृतहोराशास्त्रं स्मरति उद्धरति च तत्रत्यम्‘चित्रं प्रोज्झ्य पराशरः कथयते दौर्भाग्यदं योषिताम् ।' इति ।

‘एकोनविंशतिः सूर्यश्चन्द्रमाः पञ्चविंशतिः ।।

तिथिसङ्ख्या कुजः सौम्यो द्वादशोच्चगतो गुरुः ।।

कुजवदैत्यपूज्यस्य वर्षाणामेकविंशतिः ।

एकोनसूर्यपुत्रस्य परमोच्चगतस्य च ॥

आयुर्दायमिदं : प्रोक्तमथ नीचगतस्य तु ।

अन्तरे त्वनुपाताच्च कारयेदायसङ्ग्रहम् ॥' इत्यपि ।

मयाचार्यो हि सूर्यसिद्धान्तेऽपि स्मर्यते । कथ्यते हि सूर्यसिद्धान्तः सूर्यनिदष्टेन पुरुषेण तपस्यते मयाय प्रोक्त इति । स हि सत्ययुगेऽपि स्थित इति । स्मर्यंते पुराणादौ । त्रेतायुगे तु तस्य बाहुल्येन स्मरणम् । भट्टोत्पलवाक्येन मयस्य यवनाचार्यपूर्ववतत्वमप्यनुमीयते ।

यवनहोराशास्त्रम्

वराहमिहिरकल्याणवर्मभट्टोत्पलप्रभृतयो यावनं होराशास्त्रमसकृत्स्मरन्ति । वस्तुतस्तु यत्रापि यवनमतमनूदितं तत्र तत्र बहुवचनान्तशब्दद्वारा तद्विहितं दृश्यते । यथा ‘प्राहुर्यवनाः' इत्यादि । भट्टोत्पलो बृहज्जातकस्य ‘मययवनमणित्थशक्तिपूर्वैः' ( ७१) इति श्लोकस्य व्याख्यायां यवनपद बहुवचनान्तेन व्याख्याति । यथा 'यवना म्लेच्छजातीया होराविदः' इति । तेन हि यवनजाती प्रचलितं होराशास्त्रमेव यवनशब्देन स्मर्यते इति स्पष्टमेव । यच्च यवनेश्वरः स्मर्यतेऽसकृद्धोराशास्त्रकृत्त्वेन स हि भट्टोत्पलानुसारेण स्फुजिध्वजाख्यो यवनेश्वर एव । सोऽपि 'यवना ऊचुः' इति पूर्वाचार्यान् स्मरति स्वकीयग्रन्थे । अपरञ्च वराहमिहिरः ‘म्लेच्छा हि यवनाः' इति स्पष्टयति बहुवचनान्तत्वेनैव । वस्तुतः यवनशब्देन हिपार्कसटालमीप्रभृतयः आचार्याः स्मृता दृश्यन्ते । सामान्यतो सम्प्रति यवनशब्दः मौसलजात्यर्थं प्रयुक्तो दृश्यते । शिवराजविजयकृदसकृत् मौसलजातीयान् यवनशब्देन कथयति । अस्माकं मते एतच्चिन्त्यमेव । वराहमिहिरादयो यवनशब्देन साम्प्रतिकग्रीसदेशवासिनो गृह्णाति न तु आरबीयानपि । तेषां म्लेच्छत्वमपि जात्यन्तरमिश्रणादेव । यौति मिश्रीयवतीति व्युत्पत्तेः । महाभारतमत्स्यपुराणादौ यवनानामुत्पत्तिर्ययातित उक्ता । ययातेहि पञ्च पुत्रा आसन्–यदुपुरुतुर्वसुद्रुह्म-अनुसंज्ञकाः । पुरुवर्णं चत्वारः पितृप्रतिगामित्वात् पित्रा राज्यानहय म्लेच्छत्वाय च शप्ताः । तत्र यदोर्जाता यादवाः । यथोक्तं श्रीमद्भागवते -

“आह चास्मान् महाराज ! प्रजाश्चाज्ञप्तुमर्हसि ।

ययातिशापाद्यदुभिर्नोसितव्यं नृपासने ॥' इति ।[३]

पुरोः पौरवो वंशः प्रवृत्तो यत्र दुष्यन्तादय आसन् राजानः । तुर्वसोरपत्यानि तुरुष्का यवनादयः द्रुह्योस्तु भोजा अनोस्तु म्लेच्छजातय इति । यथोक्तं मात्स्ये

'यदोस्तु जाता यदवस्तुर्वस्ते यवनाः सुताः ।

द्रुह्योस्तु तनया भोजा अनोस्तु म्लेच्छजातयः ॥'[४]

एवमेव -

‘तान् देशान् प्राययन्ति स्म म्लेच्छप्रायांश्च सर्वशः ।

सप्तैतान् कुकुरान् रौत्रान् वर्वरान् यवनान् खशान् ॥'[५]

मेदिनीकोशकारस्तु यवनशब्देन वेगाधिकाश्वमपि गृह्णाति । यथा -

‘यवनो देशभेदे ना वेगवेगाधिकाश्वयोः । इति।[६]

एतेन अश्वारोहिसैनिकनिमित्तमपि यवनशब्दः प्रयुज्यत इति ज्ञायते । कथनमिदं कालिदासोऽपि स्मरति । यथा-

‘सङ्ग्रामस्तुमुलस्तस्य पाश्चात्यैरश्वसाधनैः ।।

शाङ्गकूजितविज्ञेयप्रतिरोधे । रजस्यभूत् ॥' इति ।[७]

राजनिघण्टुकारस्तु यवनशब्देन गोधूमतुरुष्कावपि निदशति । विष्णुपुराणं तु यवना हि क्षत्रिया येषां संगरराजेन सर्वशिरोमुण्डनं सर्वधर्मराहित्यञ्च कृतं ते च राजधर्मपरित्यागान्म्लेच्छत्वं ययुरिति वदति । कथनमिदं मनुस्मृतेः कथनस्यानुवादः । यथोक्तं तत्र -

‘शनकैस्तु क्रियालोपादमी क्षत्रियजातयः ।

वृषलत्वं गता लोके ब्राह्मणानापदर्शनात् ।।

पौण्डुकाश्चौडूद्रविडीः काम्बोजा यवनाः शकाः ।

पारदाः पह्रवाश्चीनाः किराता दरदाः खशाः ॥'[८]

हरिवंशे तु -

‘सगरस्तां प्रतिज्ञाञ्च गुरोर्वाक्यं निशम्य च ।

धर्मं जघान तेषां वै वेषान्यत्वञ्चकार ह ।

अर्द्धं शकानां शिरसो मुण्डयित्वा व्यसर्जयत् ।

यवनानां शिरः सर्वं काम्बोजानां तथैव च ।

पारदा मुक्तकेशाश्च पह्नवाः श्मश्रुधारिणः ।

निःस्वाध्यायवषट्काराः कृतास्तेन महात्मना ।

शंका यवनकाम्बोजाः पारदाः पह्नवास्तथा ।

कोलिसर्पाः समहिषा दावश्चोलाः सकेरलाः ॥' इति ।

बौधायनसूत्रेऽपि -

'ते च क्षात्रधर्मपरित्यागान्म्लेच्छत्वं ययुः ।' इति ।

म्लेच्छलक्षणं यथा प्रायश्चित्ततत्त्वे -

‘गोमांसखादको यश्च विरुद्धं बहु भाषते ।।

धर्माचारविहीनश्च म्लेच्छ इत्यभिधीयते ॥' इति ।

यवनो हि मुनिविशेष इत्यपि यत्र कुत्र कथितं लभ्यते । यथा तिथ्यादितत्त्वे -

‘जातं दिनं दूषयते वसिष्ठश्चाष्टौ च गर्गों यवनो दशाहम् ।

जन्माष्यमासं किल भागुरिश्च व्रते विवाहे क्षुरकर्णवेधे ।'

भट्टोत्पलः कथयति यद् वराहमिहिरेण यद्धि यवनमतमनुदितं तत्प्राचीनयवनमतमेवं यद्धि तेन न दृष्टमिति । यथोक्तम् -

'तदेतज्ज्ञायते यथा वराहमिहिरेण: पूर्वयवनाचार्यमतमेवोपन्यस्तमस्माभिस्तन्न दृष्टम् ।' इति ।

अनेन सिध्यति यद्यावनहोराशास्त्रं वराहकाले आसीत् किन्तु भट्टोत्पलकाले तन्नोपलभ्यमासीत् । तदस्तित्वं स्फुजिध्वज( यवनेश्वर )वचनादपि ज्ञायते । यथोक्तं तत्र -

'यवना ऊचुः-ये सङ्ग्रहे दिग्जनजातिभेदाः प्रोक्ताः पुराणैः क्रमशो ग्रहस्य' इति । यावनं हि शास्त्रं सुविस्तृतं बहुविषयञ्चासीत् ।

माणिस्यहोराशास्त्रम्

मणित्थाचार्यः कः, कदाऽऽसीदित्यपि ज्ञानाविषय एवास्माकम् । वराहाचार्यस्तं—'मययवनमणित्थशक्तिपूर्वैः' इति श्लोके (७१) स्मरति । भट्टोत्पलस्तस्य शास्त्रमनुवदति । यथा-- "तथा च मणित्थः -

नवरूपाः शरयमलास्तिथयोऽर्काः पञ्चरूपकाः क्रमशः ।

रूपयमाकृतिसङ्ख्याः सूर्यादीनां स्वतुङ्गभेष्वब्दाः ।।

नीचेष्वस्माद् बलमन्यत्रानुपाततः कार्यम् ।

आयुर्दायविधानं होराभक्तांशराशितुल्यमपि ॥' इति ।

एतदतिरिक्तं मणित्थविषये न वयं ज्ञातारः । भट्टोत्पलसमये मणित्थहोराशास्त्रं समग्र मेवासीद्वा खण्डितं वा भट्टोत्पलेनापि क्वचिदनूदितं प्रत्युदितमात्रमित्यपि नास्माकं ज्ञातम् । वराहाचार्यस्तु मणित्यमतमनूद्य दूषयतीति तदा तस्य प्रचलनमासीदेव । ।

जैवहोराशास्त्रम्

जीवशर्मणोऽपि होराशास्त्रमासीदिति वराहमिहिरस्य ‘स्वमतेन किलाऽऽह जीवशर्मा ( ७१९ ) इति कथनात् सिध्यति । तस्याप्यैतिह्यं नास्माकं ज्ञातम् । भट्टोत्पलोऽपि जीवशर्मवाक्यमुद्धरति । यथा-‘तथा च जीवशर्मा -

सप्तदशैको द्वियमौ वसवो वेदाग्नयो ग्रहेन्द्राणाम् ।

वर्षाऽप्युच्चस्थानां नीचस्थानामतोऽर्द्ध स्यात् ।।

मध्येऽनुपाततः स्यादानयनं शेषमत्र यत्किञ्चित् ।।

पिण्डायुष इव कार्यं तत्सर्वं गणिततत्त्वज्ञैः ॥' इति ।।

सत्यहोराशास्त्रम्

सत्याचार्य वराहमिहिरो बहुशः स्मरति चान्यविरोधेनापि तमनुसरति च। यथा---

‘एकोऽशं हरति बली तथाऽऽह सत्यः ।'[९]

‘बहुसाम्यं समुपैति सत्यवाक्यम् ।'[१०]

‘सत्योपदेशो वरमत्र किन्तु ।'[११]

‘सत्योक्ते ग्रहभिष्टम्•••••••••••••।'[१२]

भट्टोत्पलोऽपि सत्यवाक्यान्युद्धरति । यथा -

‘राश्यंशकसंयोगदायुरिह समासतो ग्रहा दद्युः' । इति ।

विष्णुगुप्तहोराशास्त्रम्

एवमेव वराहमिहिरो विष्णुगुप्तं स्मरति । यथा‘आयुर्दायं विष्णुगुप्तोऽपि चैवं देवस्वामी सिद्धसेनश्च चक्रे ।' इति । (७७) भट्टोत्पलश्च विष्णुगुप्तवाक्यमुद्धरति । यथा'यथा च विष्णुगुप्तः--

परमोच्चगतैः सर्वैर्मीने मीनांशसंस्थिते ।।

सौम्ये च वृषगे जातः परमायुः स जीवति ॥' इति ।

स हि विष्णुगुप्तं चाणक्यापरनामकं मन्यते । चाणक्यो हि चन्द्रगुप्तगुरुः परमप्रसिद्धः ।

देवस्वामीहोराशास्त्रम्

वराहमिहिरो देवस्वामिनं स्मरति आयुर्दायप्रकरणे। भट्टोत्पलश्च देवस्वामिवाक्यमुद्धरति । यथा -

'यथा च देवस्वामी1. सूर्याचैरुच्चगते मीने मीनांशसंस्थिते लग्ने ।

सौम्ये वृषभं याते जातः परमायुराप्नोति ॥ इति ।

देवस्वामी ज्योतिविद् विष्णुगुप्तस्य सतीथ्र्यो मित्रञ्चेति मुद्राराक्षसतो ज्ञायते ।

सिद्धसेनहोराशास्त्रम्

‘सिद्धसेनोऽपि होराचार्यत्वेन वराहमिहिरेण स्मृतः ( बृह० ७५७ ) ।

भट्टोत्पलस्तद्वाक्यमुद्धरति । यथा - 'यथा च सिद्धसेनः -

मीने परमांशगते सौम्ये गवि पञ्चवर्गलिप्तास्ये ।

सर्वैः परमोच्चगतैजनः परमायुराप्नोति ॥' इति ।

यवनेश्वरहोराशास्त्रम् यद्यपि वराहमिहिरो न स्पष्टं यवनेश्वरस्फुजिध्वजं स्मरति तथापि कल्याणवर्मा भट्टोत्पलश्च तमसकृत्स्मरन्ति तत्कृतशास्त्रञ्च । यथा सारावल्याम्--

'अत एव विस्तरेभ्यो यवननरेन्द्रादिरचितशास्त्रेभ्यः ।

सकलमसारं त्यक्त्वा तेभ्यः सारं समुदध्रियते ॥' (१।४)

भट्टोत्पलस्तु तद्राक्यमप्युद्धरति बृहज्जातकटीकायाम् । यथा वदति सः -

‘अत्राचार्येण परमतमेवोपन्यस्तं मययवनमणित्थशक्तिपूर्वैः' इति । न च यवनेश्वरकृते शास्त्रे तथाऽऽयुदयो दृष्टः । यस्माद्यवनेश्वरेणोक्तम्-‘आयूंषि राश्यंशकराशियोगात्' इति । अत्रोच्यते । यवनेश्वरेण स्फुजिध्वजेनान्यच्छास्त्रं कृतम् । तथा च स्फुजिध्वजः -

गतेन साभ्यर्धशतेन युक्ताप्येकेन केषां न गताब्दसङ्ख्या ।

कालः शकानां सविशोध्य तस्मादतीतवर्षांद्युगवर्षजातम् ॥” इति ।

एवं स्फुजिध्वजकृतं शककालस्यार्वाग्ज्ञायते । अन्यच्च यवनाचार्यैः पूर्वैः कृतमिति तदर्थ स्फुजिध्वजोऽप्याह -

'यवना ऊचुः—ये सङ्ग्रहे दिग्जनजातिभेदाः प्रोक्ता पुराणैः क्रमशो ग्रहस्य । तदेतज्ज्ञायते यथा वराहेण पूर्वयवनाचार्यमतमेवोपन्यस्तमस्माभिस्तन्न दृष्टम् । स्फुजिध्वजकृतमेव दृष्ट्वा '••••।'

अनेनैतत्सिध्यति यत्स्फुजिध्वज एवं कल्याणवर्मस्मृतो यवनेश्वरः वराहस्मृतपूर्वयवनाचार्याद्भिन्नः शकोदयानन्तरजात इति । सम्भवति तस्य स्थितिकाल: १४४ मितशकाब्दमभितः ।

बादरायणहोराशास्त्रम्

यद्यपि वराहाचार्यो बादरायणं तत्कृतशास्त्रञ्च न तथा स्मरति तथापि भट्टोत्पलस्तु न केवलं तं स्मरत्यपितु तद्वाक्यमप्युद्धरति बृहज्जातकटीकायाम् । यथा| ‘अत्र च व्याख्याने परमग्रहदायसाध्यमानेन वर्षाणि भवन्ति । एतच्च व्याख्यानं बादरायणादिभिरङ्गीकृतम् । तथा च बादरायणः -

‘राश्यंशकलागुणिता द्वादशनवभिग्रहस्य भगणेभ्यः ।।

द्वादशहूतावशेषेन्दमासदिननाडिकाः क्रमशः ॥' इति ।

एते हि सर्वेऽपि ग्रन्थाः सम्प्रति विलुप्ता इति किमतः परं कष्टकरमस्माकम् ।।

जैमिनिसूत्रम्

जैमिनिसूत्रं हि सम्प्रत्यपि समुपलभ्यते । गद्यात्मकसूत्ररूपे ग्रन्थेऽस्मिन् सन्ति चत्वारोऽध्यायाः । ‘उपदेशं व्याख्यास्यामः' इत्यस्य प्रथमं सूत्रम अन्तर्भुक्त्यंशयोरेतदिति चरमम् । अत्र हि राहुकेत्वोरुल्लेखः रिःफआरप्रभृतिशब्दप्रयोगश्च ग्रन्थस्यास्याषेत्वे बाधकाः । वराहकल्याणभट्टोत्पलप्रभृतयो ग्रन्थमेतं न स्मरन्ति ज्योतिषशास्त्रप्रवर्तकेष्वस्य मुनेर्नामाऽपि नास्ति । किन्त्वस्य शैली सूत्रमयी प्राचीना। ग्रन्थोऽयं शकोदयकालमभितः प्रणीतः सम्भवति । अस्य सन्ति बह्वयष्टीकाः । अस्य हि मलावारारिदाक्षिणात्यप्रदेशे प्रचारः । ।

ध्रुवनाडीग्रन्थः

ध्रुवनाडीग्रन्थो हि वराहस्मृतसत्याचार्यप्रणीत इति विश्वस्यते । प्रायः कथ्यन्ते दशाधिकनाडीग्रन्थाः, येषु प्रस्तुतः सर्वातिशायीति शक्करबालकृष्णसाक्ष्येण ज्ञायते । ग्रन्थोऽयमपि भृगुसंहितावत्सुविस्तृतः । अस्य सन्ति प्रायः सप्ततिभागाः श्रुताः । ग्रन्थेऽस्मिन्नपि सर्वविधा एव जन्मकुण्डल्यो लभ्यन्ते इति जनश्रुतिः ।

बृहज्जातकम्

भारतीयं हि ज्योतिषशास्त्र शास्त्रान्तरवत् प्रवचनव्याख्यानसङ्क्षेपणेति त्रिविधक्रमतो विनिर्गतम् । यथा वराहमिहिराचार्यः कथयतिः -

‘भूयोभिः पटुबुद्धिभिः पटुधियां होराफलज्ञप्तये

कदम्यायसमन्वितेषु बहुशः शास्त्रेषु दुष्टेष्वपि ।

होरातन्त्रमहार्णवप्रतरणे भग्नोद्यमानामहं

स्वल्पं वृत्तिविचित्रमर्थबहुलं शास्त्रप्लवं प्रारभे ॥' इति । ( १॥२)

वस्तुतस्तु बृहज्जातकं हि शास्त्रप्लव एव । असौ हि पौरुषेयजातकग्रन्थेषु प्रथमः । ग्रन्थवरेऽस्मिन् सन्ति सप्तविंशत्यध्याय उपसंहाराध्यायश्चाष्टाविंशः । तत्र निरूपितविषया यथा उपसंहाराध्याये -

‘राशिप्रभेदो ग्रहयोनिभेदो वियोनिजन्माऽथ निषेककालः ।

जन्माऽथ सद्यो मरणं तथाऽऽयुर्दशाविपाकोऽष्टकवर्गसंज्ञः ।।

कर्माजीवो राजयोगाः खयोगश्चिन्द्रायोगा द्विग्रहाद्याश्च योगाः ।

प्रव्रज्याऽथो राशिशीलानि दृष्टिर्भावस्तस्मादाश्रयोऽथ प्रकीर्णः ।।

नेष्टा योगा जातक कामिनीनां निर्याणं स्यान्नष्टजन्मकाणः ।

अध्यायानां विशतिः पञ्चयुक्ता जन्मन्येतद्यात्रिकं चाभिधास्ये ।।

प्रश्नास्तिथिर्भ दिवसः क्षणश्च चन्द्रो विलग्नं त्वथ लग्नभेदः ।।

शुद्धिग्रहाणामथ चापवादो विमिश्रकाऽऽख्यं तनुवेपनञ्च ।।

अतःपरं गुह्यकपूजनं स्यात् स्वप्नं ततः स्नानविधिः प्रदिष्टः ।।

यज्ञो ग्रहाणामथ निर्गमश्च क्रमाच्च दिष्टः शकुनोपदेशः ।।

विवाहकालः करणं ग्रहाणां प्रोक्तं पृथक्तद्विपुलाश्च शाखाः ।

स्कन्धेस्त्रिभिज्र्योतिषसङ्ग्रहोऽयं मया कृतो वेदविदां हिताय ।।' इति ।।

ग्रन्थान्ते प्रोक्तम् -

'पृथुविरचितमन्यैः शास्त्रमेतत्समस्तं

तदनु लघु मयेदं तत्प्रदेशार्थमेव ।

कृतंमिह हि समर्थं धीविषाणामलत्वे

मम यदिह यदुक्तं सज्जनैः क्षम्यतां तत् ॥' इति ।[१३]

विषयस्य सक्षिप्ततया स्पष्टतया. च प्रस्तुतिः सरलत्वं किन्तु काव्यात्मकत्वं समग्रत्वञ्च वराहमिहिरस्य कृतेर्वैशिष्ट्यानि । निभाल्यतामस्य सङ्घटनावैचित्र्यं यथा -

‘कालात्मा दिनकृन्मनस्तुहिनगुः सत्त्वं कुजो ज्ञो वचो

जीवो ज्ञान सुखे सितश्च मदनो दुःख दिनेशात्मजश्च ।

राजानो रविशीतगू क्षितिसुतो नेता कुमारी बुधः।

सूरिदनवपूजितश्च सचिवौ प्रेष्यः सहस्रांशुजः ॥' [१४]

ग्रहाणां वर्णनिरूपणं यथा--

‘रक्तश्यामो भास्करो गौर इन्दुत्युच्चाङ्गो रक्तगौरश्च वक्रः ।

दूर्वाश्यामो शो गुरुगरगात्रः श्यामः शुक्रो भास्करिः कृष्णदेही ।'[१५]

अभिव्यक्तेः सौष्ठवं यथा -

‘सत्योपदेशो वरमत्र किन्तु कुर्वन्त्ययोग्य बहुवर्गणाभिः । ।

आचार्यकत्वञ्च बहुघ्नताया येकं तु यदभूरि तदेव कार्यम् ॥'[१६]

ग्रन्थस्यास्य सन्ति बह्वयष्टीकाग्रन्थाः, यासु भट्टोत्पलस्य विवृतिः प्रामाणिकी प्राचीना च । अस्यैव बलभद्रमीदासमहीधरादिभिरपि टीकाग्रन्थाः प्रणीताः सन्ति । अस्य हि सुबोधिनीटीकाऽपि स्मर्यते । एतदतिरिक्तमपि सन्त्यन्येऽपि टीकाग्रन्था अस्य ।

लधुजातकम्

लघुजातकं वराहमिहिरस्यैव कृतिबृहज्जातकस्य सारसङ्क्षेपः । यथोक्तं तत्र -

‘होराशास्त्र वृत्तमैया निबद्धं निरीक्ष्य शास्त्राणि ।

यत्तस्याप्यार्याभिः सारमहं सम्प्रवक्ष्याभिः ॥'[१७]

ग्रंथप्रयोजनं यथा -

‘यदुपचितमन्यजन्मनि शुभाशुभं तस्य कर्मणः पक्तिम् ।

व्यञ्जयति शास्त्रमेतत्तमसि द्रव्याणि दीप इव' ।। ३ ।।

अत्र राशिप्रभेदः, ग्रहभेदः, ग्रहमैत्रीविवेकः, ग्रहस्वरूपं, गर्भाधानादि सूतिकाप्रकरणम्, अरिष्टविचारः, अरिष्टभङ्गः, आयुदयः, दशान्तर्दशा, अष्टकवर्गः, प्रकीर्णकविषयाः, राशिशीलनिरूपणम्, आश्रययोगः, स्त्रीजातकं निर्याणं नष्टजातकञ्चेति निरूपितविषयाः ।।

लघुजातकस्य हि भट्टोत्पलप्रणीता टीका प्रसिद्धा । गणेशदैवज्ञानुजस्यानन्तदैवज्ञस्यापि टीकाऽस्य लभ्यते १४५६ शकाब्दे प्रणीता । |

स्वल्पजातकम्

वराहमिहिरस्य स्वल्पजातकमपि भट्टोत्पलः स्मरति किन्तु तत्तदैवालभ्यमासीदिति स एव सूचयति । इदमाचार्यवराहमिहिरेण विनष्टे एव स्वल्पजातकेऽभिहितम्' इति ( बृह० ७९ टीकायाम् ) । सम्भवति ग्रन्थोऽयं लधुजातकस्याऽपि सारसंक्षेपः स्यात् ।।

षट्पञ्चाशिका

षट्पञ्चाशिका हि वराहमिहिरात्मजस्य पृथुयशसः कृतिः । सन्त्यत्र सप्ताध्यायाः-होरा-गमागम-जयपराजय-शुभाशुभ-प्रवासचिन्ता-नष्टप्राप्ति-मिश्रिकाऽऽख्याः । ग्रन्थोऽयं षट्पञ्चाशच्छ्लोकैनिबद्धः (७ + १४+५+५+५+ ४+१३=५३+३=५६ )। अस्य वर्णनावैशिष्टयं प्रभावोत्पादकं सारविशिष्टञ्च । दिङमात्रमुदाहरणं यथा -

‘स्वांशे विलग्ने यदि वा त्रिकोणे स्वांशे स्थितः पश्यति धातुचिन्ताम् ।

परांशकस्थश्च करोति जीवं मूलं परांशोपनतः परांशम् ॥' इति ।[१८]

अस्यापि भट्टोत्पलेन व्याख्याग्रन्थः प्रणीतोऽस्ति । पृथुयशसः समयः ४६० मितशकाब्दमभितः ।

जातकसारः

जातकसाराऽऽख्यः कश्चित् प्राचीन ग्रन्थः सारस्वतसुषमायां (२०३१ वै० ) मुरलीधरचतुर्वेदेन सम्पाद्य 'प्रकाशितो दृश्यतेऽज्ञातकर्तृकत्वेन । ग्रन्थोऽयमुमा. महेश्वरसंवादरूपः । प्रमाणान्तराभावेनं वयमिमं ग्रन्थं लल्लाचार्यप्रणोतत्वेन गृह्णीमः । तत्रेयं युक्तिः -

"एतत्तु ज्ञातमेव यल्लल्लाचार्येण धीवृद्धिदतन्त्रातिरिक्तमपि संहिताहोराग्रन्थेऽपि प्रणीते आसन् । लल्लस्य संहिताग्रन्थं मुहूर्तचिन्तामणेर्गोविन्दप्रणीतपीयूषधाराटीकायां स्मर्यंते कथनेनानेन -

यथाऽऽह लल्लः --

‘वारसँतिथियोगेषु यात्रायां विवर्जयेत् ।।

विवाहादीनि कुर्वीत गर्गादीनामिदं वचः ॥' इति ।

तथैव जातकसारे नृसिंहविपश्चिद् होराशास्त्रप्रणेतृत्वेन वसिष्ठगर्गात्रिपराशरवराहलल्लाद्याचार्यान् स्मरति कथयति च तेषां ग्रन्थे क्रममाधृत्य फलादेशो नोक्त। इति । स एव नृसिंहस्मृत एव ग्रन्थोऽयं सम्भवति इति ।”

राहुकेत्वोरपि स्वगृहनिर्देशोऽस्य वैलक्षण्येष्वन्यतमपक्षः लघुविग्रहोऽपि ग्रन्थः स्वविषये मननीयः । ।

सारावली

सारावली कल्याणवर्मणः कृतिः । ग्रन्थोऽयं चतुःपञ्चाशदध्यायेषु गुम्फितः । अत्र हि राशि-कालपुरुष-ग्रह-वरिश-आधान-ग्रहजलज्ञान-अरिष्टनाश-ग्रहयुतिफलभाग्यभावविचारेराजयोग-दशान्तर्दशा-वियोनिजन्म-प्रस्तारचक्रादिविषया निरूपिताः । ग्रन्थोपक्रमो यथा -

‘विस्तरकृतानि मुनिभिः परिहृत्य पुरातनानि शास्त्राणि ।

होरातन्त्र रचितं वराहमिहिरेण सङ्क्षेपात् ।।

राशिदशवर्गभूपतियोगायुदयतो दशादीनाम् ।।

विषयविभागं स्पष्टं कर्तुं न तु शक्यते यतस्तेन ॥

अत एव विस्तरेभ्यो यवननरेन्द्रादिरचितशास्त्रेभ्यः ।।

सकलमसारं त्यक्त्वा तेभ्यः सारं समुदिधयते ॥

अवसानपद्यं यथा -

'इत्थं होराशास्त्रं रचितं कल्याणकोविदेनैव ।

पूर्वाचार्यनिर्मितमवलोक्य मुदं प्रयातु दैवज्ञः ।।

पोलिशवसिष्ठरोमशेयवनबादरायणाः शक्तिः ।

अत्रिश्च भरद्वाजो विश्वामित्रो गुणाग्निकेशौ च ।

गर्गपराशरजीवा एतैरन्यैश्च विस्तरं रचितम् ।

कथयति शास्त्रे पृक्तं जातकमिति चित्रगुप्तकृतम् ॥'[१९]

कल्याणवर्मा हि स्वं व्याघ्रपदीश्वरं कथयति । कल्याणवर्मा वराहमिहिरं स्मरति भट्टोत्पलश्च सारावलीं स्मरतीति कल्याणवर्मणः तदुभयान्तरालवतसमयः स्थितिकाल इति तस्य समयः ५५० मितशकाब्दमभितोऽनुमितः । शङ्करबालकृष्णो हि भट्टोत्पलेन सारावल्युद्धृतवचनानां सम्प्रत्युपलब्ध सारावल्यामभावाद् भट्टोत्पलज्ञातसारावली एतद्भिनैवेति समनुमाति। वयन्तथा न मन्यामहे पाठादिभेदादपि तथासम्भवात् । अधिकतरश्लोका भट्टोत्पलोधूताः साम्प्रतिकसारावल्यां लभ्यन्ते एव । यथा भट्टोत्पलेन समुद्धृतम् अंशोद्भवं ‘विलग्नात्-' इति पद्यं सारावल्याम् एकोनचत्वारिंशदध्यायस्य द्वितीयं पद्यम् । एवमेवान्यविषयेऽपि ।

कल्याणवर्मणः कथनेनैतज्ज्ञायते यद्वराहमिहिराचार्येण मुनिप्रणीतग्रन्थानां सारसङ्क्षेपः कृत आसीद् बृहज्जातके यदा कल्याणवर्मणा यवनेश्वरादिप्रणीतग्रन्थानां सारसङ्क्षेपो गृहीत इति । ( १॥२-४ ) ग्रन्थस्य प्रयोजनमादाय तत्रोक्तम् -

‘राशिदशवर्गभूपतियोगायुर्दायतो दशादीनाम् ।

विषयविभागं स्पष्टं कर्तुं न तु शक्यते यतस्तेन ।'

अत एव तत्पूयँ ग्रन्थोऽयं प्रणीत इति । प्रतिज्ञानुसारमेव ग्रन्थोऽयं प्रणीतोऽपि । वस्तुतोऽसौ स्वविषयेऽप्रतिमः । कथ्यते हि कल्याणवर्मा सारावलीमपूर्णामेव त्यक्त्वा पञ्चत्वमाप । तस्या अवशिष्टभागो भट्टोत्पलेन पूरित इति । यथोद्धृतं सुधाकरेण -

‘वर्षशतानां मध्ये न केनचित् पूरिता युता चीनैः ।।

भट्टोत्पलस्तु पूर्णा चकार सारावलीं सकलाम् ॥' इति ।

किन्तु ग्रन्थावलोकनेन न तथा प्रतिभाति । अत्र हि मन्दिलाचार्यः देवकीतिराजः ( ३७/१ ) कनकाचार्यश्च स्मृता आचार्यत्वेन वराहास्मृताः ।

कल्याणवर्मणो विषयचयनं प्रस्तुतिसौष्ठवं स्पष्टता च वैशिष्ट्यानि । वस्तुतस्त्वयं होरातृष्णार्तानां स्फुटतरार्थशिशिरजल एव । दिङ्मात्रमुदाहरणं यथा -

‘आद्यन्तवर्णलोपाद्धोराशास्त्रं भवत्यहोरात्रम् ।

तत्प्रतिबद्धश्चायं ग्रहभगणाश्चिन्त्यतै यस्मात् ।।

कर्मफललाभहेतुं चतुराः संवर्णयन्त्यन्ये ।

होरेति शास्त्रसंज्ञा लग्नस्य तथार्द्धरात्रेश्च ।।

जातकमिति प्रसिद्धं यल्लोके तदिह कीय॑ते होरा ।

अथवा देवविमर्शनपर्यायः . खल्वयं शब्दः ॥ इति ।

विषयप्रस्तुतिर्यथा-.

"जातो न जीवति नरो मातुरपथ्यो भवेत् स्वकुलहन्ता ।

यदि जीवति गण्डान्ते बहुगजतुरगो भवेद् भूपः ॥' इत्यादि ।

प्रश्नज्ञानम्

प्रश्नज्ञानं हि भट्टोत्पलंस्य कृतिः । अस्य हि अन्येऽपि ग्रन्था आसन्निति एतत्कृतबृहज्जातकलघुजातकषट्पञ्चाशिकादिग्रन्थटीकाविलोकनतो ज्ञायते । षटपञ्चाशिकायाः ७११३ श्लोकव्याख्यानावसरे सः - ‘तथा चास्मदीयप्रश्नज्ञाने -

मेषवृषकुम्भमीना ह्रस्वा युगककिंचापधरमकराः ।

मध्या हरियुवतितुलादयः स्मृताः दीर्घा ।। इति स्मरति । ग्रन्थोऽयं -

'रविशशिकुजबुधगुरुसितरविजगणेशान् प्रणम्य भक्त्यादौ ।

वक्ष्येऽहं स्पष्टतरं प्रश्नज्ञानं हिताय देवहिताम् ॥ इति कथनतः प्रारब्धः, समापितश्न -

‘भट्टोत्पलेन शिष्यानुकम्पयावलोक्य सर्वशास्त्राणि ।।

आर्यासप्तत्यैवं प्रश्नज्ञानं समासतो रचितम् ॥'

इति कथनेन । अस्य प्रणयनचे ८९० मितशकाब्दमभितः । ग्रन्थोऽयं बृहज्जातकटीकाप्रणयनादंवगेव प्रणीत इति तस्य षट्पञ्चाशिकाटीकायामेव प्रश्नज्ञानस्मरणाज्ज्ञायते । बृहज्जातकटीका तु ८८८ मितशकाब्दे सम्पन्नेति---

‘फाल्गुनस्य द्वितीयायामसितायां गुरोदिने ।

वस्वष्टाष्टमिते शाके कृतेयं विवृतिर्मया ॥'

बृहज्जातकटीकान्तवाक्याज्जायते । भट्टोत्पलस्य खण्डखाचीकायां ग्रन्थोऽयं स्मृतो न वेति न वयं जानीमो ग्रन्थादर्शनात् ।

श्रीपतितकपद्धतिः

जातकपद्धतिरसौ रत्नमालाग्रन्थस्य प्रणेता श्रीपतिना प्रणीत इत्यतुमीयते । अस्यापि रत्नमालाया इव माधवेन टीका प्रणीता। श्रीपतेः स्थितिः ९२१ मितशकाब्दमभितः स्थितिमानित्यनुमितः । श्रीपर्तािह गर्गसंहितां स्मरति विशेषेण वराहं लल्लाचार्यञ्च । कथ्यते ह्यस्य ज्योतिषस्य विष्वेव, स्कन्धेषु ग्रन्था आसन्निति । अस्य धीकोटिसंज्ञके करणग्रन्थे करणकालः ९६१ मित- . शकाब्दो गृहीत इति ग्रन्थस्यास्य तत्समकाल एव प्रणयनकाल इति तज्ज्ञाः । ।

वृद्धजातकम्

माधवाचार्यः (११८५ श० ) रत्नमालाटीकायां वृद्धजातकं स्मरति । एतदधिकं तद्विषये न किमपि ज्ञातमस्माकम् ।

श्रीधरपद्धतिः, महालुगिपद्धतिः, दामोदरपद्धतिः, रामकृष्णपद्धतिः, केशवपद्धतिः, बल्लयुपद्धतिः, होरामकरन्दः, लघुपद्धतिः ।

ग्रन्था इमे केशवीयजातकपद्धतिटीकायां स्मृताः । तत्राद्याश्चत्वारस्तु विश्वनाथ्यामपि । तेन हीमे १४०० मितशकाब्दप्राग्वतनः । इतोऽधिकं न किमपि ज्ञातमस्माभिरेतद्विषये ।

भावनिर्णयः

विद्यारण्यप्रणीतत्वेन ग्रन्थोऽयं प्रसिद्धः । अत्र हि भावफलमादिष्टं भवेदिति अनुमामहे ।

सर्वार्थचिन्तामणिः

सर्वार्थचिन्तामणिहि वेङ्कटाद्रिदैवज्ञप्रणीतो ग्रन्थः । असौ हि जातकपारिजातप्रणेतुर्वैद्यनाथस्य पिता । तेनास्य स्थितिकालः १२५० मितशकाब्दमभितः । वैद्यनाथो हि जातकपारिजाते सर्वार्थचिन्तामणेर्मूलश्लोकानेवानुवदति ।

जातकपारिजातः

जातकपारिजातो हि केशवीयजातकस्य प्रणेतुः केशवस्य गुरुणा वैद्यनाथेन प्रणीतः । असौ हि सर्वार्थचिन्तामणिप्रणेतुर्वेङ्कटाद्वैः सुतः । तेनास्य स्थितिकालः १३०० मितशकाब्दमभितः । ग्रन्थादौ प्रोक्तं -

‘भारद्वाजकुलोद्भवस्य विदुषः श्रीवेङ्कटारिह

ज्योतिश्शास्त्रविशारदस्य तनयः श्रीवैद्यनाथः सुधीः ।

होरासारसुधारसज्ञविबुधश्रेणीमनःप्रीतये ।

राशिस्थाननिरूपणादिसकलं वक्ष्ये यथानुक्रमम् ॥' इति ।

ग्रन्थोऽयं पद्धतिविषये गर्गपराशरादिप्रणीतग्रन्थाननुसरतीति तत्रोक्तम् - (१/१) । ग्रन्थान्ते प्रोक्तम्--

'श्रीविद्याधिकवेङ्कटाद्रितनयः श्रीवैद्यनाथः सुधीरादित्यादिसमस्तलेटपया विद्वज्जनप्रीतये ।

होरासिन्धुसमुद्धृतामृतमयीमष्टादशाध्यायिनीं चक्रे जातकपारिजातसरणि गीतोत्सुकश्लोकिनीम् ।।' इति ।

विषयाश्चात्र राशिशीलग्रहगतिस्थानस्वभावाकृति-आधान-कालारिष्टआयुदय-जातकभङ्गराजयोग-ग्रहयोग-अष्टकवर्ग-भावफल-नांरीजातकादयः । ग्रन्थेऽस्मिन्.कपिलेश्वरस्य सुधाशालिनी टीका प्रसिद्धा ।

केशवीयजातकपद्धतिः

नन्दिग्रामवास्तव्येन केशवाऽऽख्येन दैवज्ञवरेण प्रणीतो ग्रन्थोऽयं लघुपि बहुप्रचारः । अत्रोक्तम्

‘नन्दिग्रामे केशवो विप्रवर्यो योऽभूद्धोराशास्त्रसङ्घ विलोक्य ।।

तेनोक्तेयं पंद्धतिर्जातकीया चत्वारिंशद्वृत्तबद्धा सुबोधा ।।' इति ।

अनेन ज्ञायते यदत्र सन्ति चत्वारिंशच्छ्लोका एव । यद्यपि श्लोकोऽयं प्रक्षिप्त इति स्पष्टमेव तथापि कथनमस्य सत्यम् ।।

ग्रन्थेऽस्मिन् भावसाधनभावसन्ध्यानयनायनादिबलसाधनचेष्टाबलेष्टकृष्ट दशान्तर्दशांऽष्टकवर्गादिविषयाः सारतो निरूपिताः । ग्रन्थेऽस्मिन् केशवस्यैव विश्वनाथस्य नारायणस्य दिवाकरस्य च सन्ति टीकाग्रन्थाः । दृश्यन्तेऽस्य बहूनि संस्करणानि । प्रणेतुरस्य संमयः १४१० मितशकाब्द-मभितः ।

जातकाभरणम्

जातकाभरणं हि ढुण्डिराजेन १४६० मितशकाब्दमभितः प्रणीतम् । यथोक्तं तत्र--

‘उदारधीमन्दरभूधरेण प्रमथ्य होरागमसिन्धुराजम् ।

श्रीढुण्डिराजः कुरुते किलायमार्यासपर्याममलोक्तिरत्नैः ।।' इति ।

असौ हि ज्ञानराजशिष्य आसीत् नृसिंहाख्यसुतश्च । यथोक्तम् -

‘गोदावरीतीरविराजमानं पार्थाभिधानं पुटभेदनं यत् ।

सगोलविद्यामलकीतभाजां यत्पूर्वजानां वसतिस्थले यत् ।।

तत्रत्यदैवज्ञनृसिंहसूनुर्गजाननाराधनजाभिमानः ।।

श्रीदुण्डिराजो रचयाम्बभूव होगमानुक्रममादरेण ॥' इति ।।

ग्रन्थेऽस्मिन् रूपनारायणेन मैथिलेन परिशिष्टभाग संयोज्यास्योपयोगिता प्रवद्धताऽस्ति ।

ग्रन्थेऽस्मिन् सर्वोऽपि फलितविषयः क्रमानुसारेण विवेचितो येनादेष्ट्रणां प्रियतमोऽयं ग्रन्थः । अत्र संवत्सरादिफलं ग्रहस्वरूपं भावविचारः अरिष्टविचारः गोचरफलाध्यायः भावफलाध्यायः ग्रहयोगाः राजयोगाः दशाफलं नष्टजातक निर्याणं स्त्रीजातकं चेत्यादिविषया यथाक्रमं निरूपिताः। सरलता स्पष्टता चास्य वैशिष्ट्ये यतः सर्वसाधारणोपयोगित्वमस्य सिद्धमेव । नास्य कोऽपि प्राचीना टीका दृश्यते वा श्रूयते । लब्धबहुप्रसारस्यास्य ग्रन्थसङ्ख्याश्लोकसहस्रद्वयासनेति सुधाकरः ।।

अनन्तजातकपद्धतिः

ग्रन्थोऽयमनन्तदैवज्ञप्रणीतः । स हि मुहूर्त चिन्तामणिप्रणेतुः रामदैवज्ञस्य पितेति तस्य स्थितिकालः १४५० मितशकाब्दमभितः ।।

जातकोत्तमः

मुहूर्तमार्तण्डटीकायां ग्रन्थोऽयं स्मृतः । ग्रन्थोऽयं शिवदासदैवज्ञप्रणीतत्वेन केशवीयजातकपद्धतेष्टीकायां विश्वनाथेन स्मृतः ।

जातकादेशः

गुणाकराख्यस्य विदुषो जातकादेशः सर्वत्र ख्यातः । विश्वनाथेन होरास्कन्धनिरूपणेऽसौ स्मृतः ।।

होरास्कन्धनिरूपणम्

अनन्तपौत्रेण रामसुतेन वीरसिंहाश्रितेन विश्वनाथेन होरास्कन्धनिरूपणाख्यः सुविस्तृतो ग्रन्थः प्रणीतः । अस्य प्रणयनकाल: १५०० मितशकाब्दमभितोऽनुमितः । अत्र हि जातकाभरण-शौनकसंहिता-जातकादेश-समुद्रजातक-होराप्रदीपजन्मप्रदीपप्रभृतिग्रन्थाः स्मृताः ।

जातकसारः

नृहरिदैवज्ञेन प्रणीतोऽयं ग्रन्थः प्रसिद्धः । ग्रन्थोऽयं स्वरूपेण विषयप्रस्तुत्या चभ्सुविस्तृतः । असौ सारावलीमनुसरति स्वसिद्धये ।

जातकालङ्कारः

गणेशदैवज्ञप्रणीतोऽयं ग्रन्थो लघुरपि विस्तृतप्रसरः । सन्त्यत्र षडध्यायाःसंज्ञाभावयोगविषकन्याऽऽयुदयव्यत्ययस्थभावफलसंज्ञिताः। प्रणेताऽस्य शिवदास शिष्यो गोपालपुत्रः । असौ हि १५३५ मितंशकाब्दमभितः प्रणीतः । अस्य हरभानुप्रणीता टीका लभ्यते । ग्रन्थोऽसौ काव्यमिव सर्वत्र सौश्लोक्येनापि पठ्यते । यथा--

'यावन्तो वा विहङ्गा मदनसदनगाश्चेन्निजाधीशदृष्टाः

तावन्तो वा विवाहास्त्वथ सुमतिमता ज्ञेयमित्थं कुटुम्बे ।

कार्यों होरागमनैरधिकंबलवत खेचराणां हि योगा-

दादेश्यं तत्र वीर्य रविविधुकुंभुवामङ्गदिक्शैलसङ्ख्याम् ॥

पद्मजातकम्

ग्रन्थोऽयं १५४७ मितशकाब्दमभितो दिवाकराख्येन दैवज्ञेन प्रणीतः । सन्त्यत्र १०४ श्लोकाः ।।

पद्धतिभूषणम्

ग्रन्थोऽयं रुद्रभटात्मजेन सोमदैवज्ञेन जलदग्रामवासिना १५५९ मितशकाब्दे प्रणीतः । अस्य हि दिनकरप्रणीता टीकाऽपि लभ्यते ।। ।

होरारत्नम्

सुविस्तृतो ग्रन्थोऽयं दामोदरसुतेन बलभद्रदैवज्ञेन १५५७ मितशकाब्दमभितः प्रणीतः । सन्त्यत्र सुविस्तृता दशाध्यायाः । ग्रन्थोऽयं स्वपूर्ववतग्रन्थानामाकरोऽपि विषयोपस्थितौ मौलिकः । ग्रन्थान्ते उक्तमस्ति

‘वसिष्ठगर्गादिमुनिप्रणीतान् वराहकल्याणकृतान् निरीक्ष्य ।

सज्जातकाज्जन्मफलक़मार्थं सुसम्प्रदायाद्गचितं मयेदम् ।।' इति ।

सन्त्यत्र नवत्यधिका ग्रन्थकाराः ग्रन्थाश्च स्मृतास्तत्र तत्र । अन्वर्थनामा ग्रन्थोऽयं होराविषयस्य विश्वकोश एव ।।

होराकौस्तुभः

ग्रन्थोऽयं नरहरिसुतेन गोविन्दाख्येन विदुषा १६०० मितशकाब्दमभितः प्रणीतः । ग्रन्थेऽस्मिन्नपि पूर्ववतग्रन्थेष्विव क्रमेण फलादेशो निरूपितः ।।

होरासारसुधानिधिः ग्रन्थोऽयं नारायणाऽऽख्येन विपश्चिता प्रणीतः । असावपि जातकविषयं सर्वमेव क्रमशो निरूपयति । अस्य १६०० मितशकाब्दमभितः प्रणयनकालः ।।

प्रश्नमाणिक्यमाला

काशीराजाश्रितगणकेन परमानन्दपाठकेन १६७० मितशकाब्दमभितः प्रणीतोऽयं ग्रन्थः । अत्र सन्ति चत्वारो भागाः । सुविस्तृतोऽयं ग्रन्थोऽद्यावधिग्रन्थेषु सर्वोत्तम इति सुधाकरसाक्ष्येण ज्ञायते । ग्रन्थस्यास्य चतुर्थो भागस्ततनयेनोमापतिना पूरित इति जनश्रुतिः ।।

पद्धतिचन्द्रिका

ग्रन्थोऽयं राघवाख्येन विदुषा प्रणीतः । ग्रन्थोऽयमपि सङ्ग्रहात्मक एव ।

साधनसुबोधः

अन्थोऽयं काशीवासिनी गोविन्दाचारिणा प्रणीतः १७८० मितशकाब्दमभिः । भ्यते हि मोती रे दिः ।

भावकुतूहलम्

ग्रन्थोऽयं १७८० मितशकाब्दमभितः शम्भुनाथात्मजेन नीलाम्बरानुजेन जीवनाथेन प्रणीतः । तत्रोक्तम् -

‘आसीच्छीकरुणाकरो बुधवरो वेदाङ्गविद्याकर-

स्तत्सूनुः क्षितिपालवन्दितपदः श्रीशम्भुनाथ: कृती ।

विज्ञव्रतकृतादरो गणितविज्ज्योतिविदां प्रीतये

चक्रे भावकुतूहलं लघुतरं श्रीजीवनाथः सुधीः ॥' इति ।

ग्रन्थेऽस्मिन् सन्ति सप्तदशाऽध्यायाः। तत्र क्रमेण भावाध्यायः, अरिष्टाध्यायः, जातकाध्यायः, अरिष्टभङ्गयोगाः, सन्तानाध्यायः, राजयोगाः, सामुद्रिकाध्यायः, स्त्रीजातकाध्यायः, अवयवलक्षणाध्यायः, शयनादिद्वादशावस्थाविचारः, अवस्थाफलानि, भावविचारः ग्रहविचारश्चेतिप्रभृतिनिरूपितविषयाः । काव्यात्मकत्वं भावसौष्ठवञ्चास्य समुल्लेखनीयवैशिष्टयम् । यथा -

गमनागमने भवतो गमने बहुधा वसुधा वसुधाधिपतेः ।।

भवनञ्च विचित्रमलं रमया विदिनुश्च जनुः समये नितराम् ॥' इति ।

अनन्तफलदर्पणः

ग्रन्थोऽसौ १७९८ मितशकाब्दे अनन्ताचार्येण प्रणीतः । अत्र हि जातकताजिकोभयविषयः प्रपञ्चितः । कथ्यते हि ग्रन्थेऽस्मिन् कतिपये नवीना अपि फलादेशरीतयो निर्दिष्टाः ।।

जातकादेशमार्गः

ग्रन्थोऽयं दाक्षिणात्यप्रदेशे, बहुप्रचलितानां कतिपयफलितज्योतिषग्रन्थानां सारसङ्क्षेपः । ग्रन्थोऽयं केनं कदा सङ्कलित इति तु नैव ज्ञातं किन्त्वेतावदेव निश्चितं यदसौ शकानन्तरपञ्चदशशतकात् प्रागेव प्राप्तस्वरूप इति । अत्र संज्ञानिषेक-बालारिष्ट-आयुर्दाय-भरणयोग-अष्टकवर्ग-भावविचार-गोचरफल-दशापहारच्छिद्र-भार्याविचार-आनुकूल्य-पुत्रचिन्ता-सन्तानचिन्ता-मिश्रक-प्रभृतिसप्तदशप्रकरणानि सन्ति । अस्य प्रतिज्ञवाक्यं यथा

'गणेशादीन् नमस्कृत्य मया गुरुमुखाच्छु तः ।

जातकादेशमार्गोऽयमविस्मर्तुं विलिख्यते ॥' इति । [२०]

फलितविचारः

ग्रन्थोऽयं बापूदेवशास्त्रिणा नृसिंहाख्येन १८०० भितशकाब्दमभितः प्रणीतः ।

सम्बद्धाः लेखाः

सन्दर्भाः

  1. ३/२-४
  2. १०-२५ श्लोका द्रष्टव्याः
  3. (१०॥४५॥१३)
  4. ( ३४/७ )
  5. ( १२०/४३ )
  6. ( शब्द० ९ )
  7. (४॥६२ )
  8. ( १०॥४३-४४)
  9. ( बृह० ७।३ )
  10. ( ७/९ )
  11. ( ९।१३ )
  12. ( ९।१८)
  13. २८/१-७
  14. २/१
  15. २/4
  16. ( ७/१३ )
  17. १।२
  18. १/६
  19. (५४/१०१२)
  20. १/४
"https://sa.wikipedia.org/w/index.php?title=जातकशास्त्रम्&oldid=457941" इत्यस्माद् प्रतिप्राप्तम्