"होराशास्त्रस्य विभागाः" इत्यस्य संस्करणे भेदः

1
(भेदः नास्ति)

०९:२५, ४ फेब्रवरी २०२१ इत्यस्य संस्करणं

होराशास्त्रस्य विभागाः विद्यन्ते। ज्योतिविद्भिः होराशास्त्रं हि पञ्चधा विभक्तमस्ति--

1) जातकं,

2) ताजिकं,

3) रमलं,

4) प्रश्नः

5) स्वप्नश्चेति ।

तेष्वपिं सर्वातिशायित्वेन जातकस्यैव प्राधान्याद्यदा कदा होराशास्त्रमेव जातकशब्देनाऽप्यभिधीयते । यथाऽऽह कल्याणवर्मा -

‘जातकमिति प्रसिद्धं यल्लोके तदिह कीयंते होरा । ।

अथवा दैवविमर्शनपर्यायः खल्वयं शब्दः ॥” इति ।[१]

तत्र यत्र जन्मकालग्रहनक्षत्रतिथिराश्यादीनाधारीकृत्य फलादेशः क्रियते तज्जातकम् । जातकसम्बद्धग्रन्थाश्च बृहज्जातकादयः । यत्र च गोचरमाधारीकृत्य फलादेशः क्रियते तत्ताजिकम् । ताजिकग्रन्थाश्च ताजिकनीलकण्ठीप्रभूताः । यत्र च प्रस्तारद्वारा शुभाशुभफलं कथ्यते तद्रमलशास्त्रम् । रमलग्रन्थाश्च रमलनवरत्नांदयः । यत्र च प्रश्नलग्नमाश्रित्य फलादेशः क्रियते तत्प्रश्नशास्त्रम् । प्रश्नग्रन्थाश्च प्रश्नसारादयः । स्वप्नविवेचनेन शुभाशुभफलनिरूपक स्वप्नशास्त्र . तग्रन्थाश्च स्वप्नाध्यायादयः । तत्र प्रथमं जातकशास्त्रमत्र निरूप्यते ।

जातकशास्त्रम्

मुख्यलेखः : जातकशास्त्रम्

यत्र हि जन्मकालिकग्रहाद्यवस्थितिमाधारीकृत्य जनस्य भूतवर्तमानभाविशुभाशुभफलादेशः क्रियते तज्जातकशास्त्रम् ।

खस्थानां पिण्डानां भूस्थितैर्जनैः सह सम्बन्धनं सहसा न प्रतीतिमायाति । किन्तु तयोरविच्छेद्यः सम्बन्धोऽस्त्येव यथार्थतः । सत्यमेवोक्तम् -

‘ग्रहैर्याप्तमिदं सर्वं त्रैलोक्यं सचराचरम्' । इति ।

सूक्ष्मावलोकनेनैतत्स्पष्टमेव ज्ञायते यद्यत्प्रकृतिको यस्य जन्मनक्षत्रतत्स्वामिराशितत्पतिलग्नतत्पमासतत्पतिवासरतिथितत्पतीत्यादिः तत्प्रकृतिक एवं जनो भवतीति । यथा हि मेषराशी जातो जनो जलाद् बिभेत्येव । मेषराशेः स्वामी भौमः स च वह्निप्रकृतिको जलविमुखः । एवमेव सिंहस्य स्वामी सूर्यः । तद्राशौ जातो निश्चयमेव पित्तप्रकृतिकोऽल्पवाचश्च भवति । यदि योगान्तरवशात् कस्मिभिन्नापि सर्वाणि लक्षणानि घटेरंस्तथापि स्वल्पमपि जन्मराशिप्रभावं देहे दृश्यत एव । एवमेव नक्षत्रादीनामपि । तेन जातकफलादेशात पूर्वं खस्थपिण्डज्ञानमत्यावश्यकीयं भवति ।

सम्बद्धाः लेखाः

सन्दर्भाः

  1. ( २।४ )