"तत्त्वज्ञानम्" इत्यस्य संस्करणे भेदः

तत्त्वशास्त्रम्
1
 
पङ्क्तिः २३७:
 
'''यस्तर्केणाऽनुसन्धत्ते स धर्म वेद नेतरः' ॥''' -श्रुतमात्रमेव ।
 
== न्यायस्य विकासक्रमः ==
न्यायशास्त्रविकाससम्बन्धिधाराद्वयमेव प्रधानतः समनुभूयते । यस्मिन् धाराद्वये सर्वप्रथमधाराया जन्मदाताऽस्ति श्रीगोतमः । इदमेव च न्याय शास्त्रं न्यायदर्शनशब्देनाप्यभिधीयते । न्यायश्च प्रमाणैरर्थपरीक्षणरूपः । उक्तञ्च–
 
'प्रमाणैरर्थपरीक्षणम्-न्यायः' । एतेनेदमेवाऽऽयाति यत्- समस्त प्रमाणव्यापारादर्थाऽधिगतिायः, न्या० वा० १ ( पृ० १४ )
 
'प्रमाणप्रमेयसंशयप्रयोजने'त्यारभ्य 'हेत्वाभासाश्च यथोक्ताः' इत्येतत् पर्यन्तं तदिदं पञ्चाऽध्यायात्मकं न्यायशास्त्रम् । तत्र प्रत्यध्यायमान्हिकद्वयमस्ति ।
 
नीयते = प्राप्यतेऽयनं = मोक्षो, येनासौ न्यायः । अथवा नीयते प्राप्यते विवक्षितार्थसिद्धिरनेनेति न्यायः । न्यायस्य दर्शनं 'न्यायदर्शनम्' न्यायशास्त्र मित्यर्थः । इदमेव न्यायशास्त्रम् आन्वीक्षिकीविद्याशब्देनापि प्रोच्यते । इत्थञ्च वेदार्थाविरोधितौंपयिकवैदिकतत्त्वसंरक्षणोपयोगिप्रमाणादिपदार्थप्रतिपादकत्व रूपमेवास्ति न्यायशास्त्रत्वमिति तु निष्कृष्टार्थः । अस्य महत्त्वम् -
 
'''<nowiki/>'प्रदीपः सर्वविद्यानामुपायः सर्वकर्मणाम् ।'''
 
'''आश्रयः सर्वधर्माणां विद्योद्देशे प्रकीर्तिता ॥''''
 
अपि च-
 
'''<nowiki/>'आर्ष धर्मोपदेशञ्च वेदशास्त्राविरोधिना ।'''
 
'''यस्त?णानुसन्धत्ते स धर्म वेद नेतरः ।।''''
 
एवं तुरीयपुरुषार्थमोक्षप्रकरणेऽपीत्थमुक्तवन्तः -
 
'''<nowiki/>'तत्रोपनिषदं तात ! परिशेषन्तु पार्थिव ! ।'''
 
'''मथ्नामि मनसा तात ! दृष्ट्वा चान्वीक्षिकी पराम्' ।'''
 
अपि च वात्स्यायनो ब्रूते-'प्रत्यक्षागमाश्रितमनुमानमन्वीक्षा, प्रत्यक्षा गमाभ्यामीक्षितस्यान्वीक्षणमन्वीक्षा, तया प्रवर्तते इत्यान्वीक्षिकी न्यायविद्या, न्यायशास्त्रम् । यत्पुनरनुमानं प्रत्यक्षागमविरुद्धं न्यायाभासः स'।<ref>वात्स्याय० भा० सू० १ ।</ref>
 
न्यायस्तु प्रारदर्शितव्युत्पत्तिदिशा बन्धननिवृत्तिरूपः सिद्धयति । एवं स्थिते न्यायविषये इदं प्राचीनाचार्यकथनमपि साधु सङ्गच्छते । तथाहि-
 
'''<nowiki/>'यान्ति न्यायप्रवृत्तस्य तिर्यञ्चोऽपि सहायताम् ।'''
 
'''अपन्थानन्तु गच्छन्तं सोदरोऽपि विमुञ्चति' ।'''
 
== वैशेषिकदर्शनम् ==
"https://sa.wikipedia.org/wiki/तत्त्वज्ञानम्" इत्यस्माद् प्रतिप्राप्तम्