"दर्शनानि" इत्यस्य संस्करणे भेदः

1
 
1
पङ्क्तिः १,००५:
 
अयञ्च वीरशैवसम्प्रदायस्य महान् ज्ञाता श्री-श्रीपतिर्दक्षिणदेश निवासीति तत्रैव सन्तिष्ठमानोऽयं स्वीयसम्प्रदायस्य प्रचारं विशेषरूपेण कृतवान् । ब्रह्मसूत्रस्योपरि कृतस्य. श्रीकरभाष्यस्य पठन-पाठनादिकमाधिक्येन तत्रैव समनुभूयते । विशेषस्तु पुनः ।
 
== दर्शनविचारः ==
दश्यते तत्त्वम् आत्मरूपम्, ब्रह्मरूपं वा तत्त्वं येन तद् दर्शनम् । तच्चाऽऽत्म दर्शन-ब्रह्मदर्शनरूपतत्त्वदर्शनमध्यात्मदृष्ट्यैव भवितुमर्हति नातोऽन्यथा इति । यथोक्तम् -
 
'आत्मा वाऽरे द्रष्टव्यः श्रोतव्यः मन्तव्यो निदिध्यासितव्यः मैत्रेय्यात्मनि खल्वरे दष्टे श्रते मते विज्ञाते इदं सर्व विदितम्'
 
अपि च प्रमाणान्तरेणापि खल्वयमेव विषयः पुष्टीक्रियते । तथाहि -
 
'''<nowiki/>'तस्मादात्माऽक्षरः शुद्धो बुद्धो नित्यः सर्वगतोऽव्ययः ।'''
 
'''उपासितव्यो मन्तव्यः श्रोतव्यश्च मुमुक्षुभिः' ॥'''<ref>-अद्भुतरामा० ।</ref>
 
अन्यच्चापि माण्डूक्योपनिषत्प्रमाणान्तरमप्याह -
 
'''<nowiki/>'अद्वैतसिद्धान्तमेव हि सत्यं शिवं सुन्दरं सिद्धान्तमस्ति' ।'''
 
'''<nowiki/>'शान्तं शिवम द्वैतं चतुर्थं मन्यन्ते स आत्मा ।''''<ref>-माण्डूक्योप० ७ ।</ref>
 
इदञ्चास्ति आत्मदर्शनम् ( अध्यात्मदर्शनम् ) अध्यात्मदृष्टिरपि कथ्यते । अतः सेयमध्यात्मविद्यापरपर्यायभूताऽध्यात्मदृष्टिरेव चास्ति दर्शनम्, दर्शनशास्त्र वेति ।
 
तत्रापि सर्वेषां दर्शनानामुपरि चास्तीदं मूर्धन्यभूतं प्रभूतं दर्शनं भारतीय दर्शनमिदं परमं प्राचीनम् । तादशप्राचीनकालत एव परस्परभेदावच्छिन्न बाहुल्य-वृद्धि-पुनरुत्थानाऽनुत्थानादिरूपाऽऽरोपितदोषावच्छिन्नं सत् संसरति समागच्छति चेत्यस्ति क्रमपरम्परा । भूयो-भूयोऽपीदमेव भारतीयं दर्शन ससाग रायां धरायां विभिन्नभेदावच्छिन्नेषु च प्रदेशेषु प्रसतेभ्यो दर्शनेभ्योऽतीव श्रष्ठ श्रेष्ठतरञ्च प्राचीनञ्चापि निर्धारितवन्तः ।
 
अस्य भारतीयदर्शनस्य समद्भवावस्थायां प्रसरति किल-गीतम-कणाद कपिल-व्यासप्रभतीनामाध्यात्मिकी दष्टिर्वाणी वा. वाणीस्वरूपा तथाविधा दष्टिरेवेति मन्तव्यम् । समस्तानामेव भारतीयदर्शनानां समुद्भवः प्रकाश। वाऽनयेव दष्टया जायते नान्यथा नान्यतो वेति सर्वेऽपि समनूभवन्ति दाशानका इति ।
 
तात्त्विकदष्ट्या विचार्यमाणे खल 'दर्शन'-शब्दार्थः ज्ञाने एव पर्यवस्यति । अत एवोक्तवान् गङ्गशोपाध्यायः
 
'प्रमाणादीनां तत्त्वज्ञानानिःश्रेयसाधिगमः। -प्रामाण्यवादः ।
 
एवम्--
 
'''<nowiki/>'तत्त्वाभ्यासान्नास्मि न मे नाहमित्यपरिशेषम् ।'''
 
'''अविपर्ययाद्विशुद्धं केवलमुत्पद्यते ज्ञानम् ॥''''<ref>साङ्ख्यका ।</ref>
 
अन्यत्र वेदान्तप्रभृतिष्वपि दर्शनेषु चास्तीयमेव दर्शनस्वरूपा दृष्टिः । तथाहि ृ
 
''''आत्मानं चेद्विजानीयादहमस्मीति पूरुषः ।'''
 
'''किमिच्छन् कस्य कामाय संसारमनुसंसरेत् ॥''''<ref>-पञ्चदशी।</ref>
 
अपि च पुनर्भागवतेऽपि---
 
'''<nowiki/>'आत्मानं चेद्विजानीयात् परमज्ञानधुताशयः ।'''
 
'''किमिच्छन् कस्य हेतोश्च देहं पुष्णाति लम्पट:' ॥'''<ref>-श्रीमद्भागवते ।</ref>
 
दर्शनानां दार्शनिक्या दृष्टेः, आध्यात्मिक्या दृष्टेश्चैतेसां सर्वेषामेव पर्यायवाचित्वान्नहि कोऽपि भेदस्तत्रानुभूयते । तत्र सच्चिदानन्दो नन्दनन्दनः श्रीकृष्णचन्द्रः खलु ज्ञानदृष्टिलक्षणलक्षितस्य दर्शनस्येत्थं विशेषरूपेण स्वरूप वर्णनं कृतवान् । तथाहि
 
'''<nowiki/>'नहि ज्ञानेन सदृशं पवित्रमिह विद्यते' ।'''<ref>-भगवद्गीता ।</ref>
 
अत्राशङ्कते—यदि राजसूय-अश्वमेधादियज्ञैः, कन्यादिविधेयकपवित्रपुण्यमय दानः, कठिन-जटिल-चान्द्रायणादितपश्चर्यादिभिरेव वा सकलदुरितक्षयसम्भवे काऽऽवश्यकता खलु वर्तते दर्शनस्वरूपस्याऽऽत्मज्ञानस्य । तन्न युक्तम्-औषधवद् यादृशमुद्देशं हृदि निधायाऽश्वमेधादयः सम्पाद्यन्ते तादृशस्यैवोद्देश विषयीभूतस्य पापस्य निवृत्तिजनकीभूतास्ते यागादयो भवन्ति नेतरस्येति कतिपयदुरितविध्वंसने पटुतां गतत्वेऽपि यागादीनाम् ।
 
तथापि बहुजन्मार्जितपापानां तथा जनन-मरण-जननीजठरे-शयनसम्पादकी भूतकर्मणां सर्वथाऽशक्यत्वमेवावधार्यताम्, अतः सर्वेषामेव कर्मणां क्षयविधाने नास्ति तदीयं तादृशसामर्थ्य मत आत्मज्ञानापरपर्यायभूतस्याऽनुष्ठेयताविधान कथनमेव साधु सङ्गच्छते । तदेवोक्तवान् साक्षाद् भगवान् कृष्णः
 
'''<nowiki/>'नहि ज्ञानेन सदृशं पवित्रमिह विद्यते'।'''<ref>भगवद्गीता, ४।३८ ।</ref>
 
अपि च शिवधर्मोत्तरेऽपि -
 
'''से 'यथा वह्निर्महान् दीप्तः शुष्कमाञ्च निर्दहेत् ।'''
 
'''तथा शुभाऽशुभं कर्म ज्ञानाग्निदहते क्षणात् ॥'''<ref>शिवधर्मोत्तरः ।</ref>
 
एवम् – 'देहे ज्ञानेन दीपिते बुद्धिरखण्डाकाररूपा यदा भवति, तदा विद्वान् ब्रह्मज्ञानाग्निना कर्मबन्ध निर्दहेत्' ।<ref>पैङ्गलोप०, ४।११ ।</ref>
 
अपि च पुनस्तत्रैव
 
'''<nowiki/>'कर्मणा बध्यते जन्तुविद्यया च विमुच्यते ।'''
 
'''तस्मात् कर्म न कुर्वन्ति यतयः पारदर्शिनः ।।'''<ref>संन्यासोप०, २।९८ ।</ref>
 
तच्च दर्शनात्मकं ज्ञानं गुरूपदेशमन्तरा नहि कल्पकोटिभिरपि समवाप्तुं शक्नोति मुमुक्षुर्यतिर्योगी वा कश्चन शरीरावच्छिन्नो जीवः । उक्तञ्च -
 
'''<nowiki/>'यथा. जात्यन्धस्य रूपज्ञानं न विद्यते तथा ।'''
 
'''गुरूपदेशेन विना कल्पकोटिभिस्तत्त्वज्ञानं न जायते ॥''''<ref>-त्रिपाद्विभूतिमहाना०, ५।१ ।</ref>
 
अपि च गीतायामेव साक्षाद् भगवान् ब्रूते -
 
'''<nowiki/>'ज्ञानं लब्ध्वा परां शान्तिमचिरेणाधिगच्छति'।'''<ref>-श्रीमद्भगवद्गीता, ४।३९ ।</ref>
 
अर्थात् यस्मात् कारणात् सर्वथाऽविकृतमस्ति खलु आत्मज्ञानरूपं दर्शनम् - तथा नानायोनिषु चरण-विचरण-भ्रमणशीलानां जीवानां कृते नानाविधजन्म जातजनन-मरण-जननीजठरे-शयनरूपमहादुःखप्राप्तिकराणि यान्ति सन्ति पुण्य पापमिश्रितानि नानाकल्पेष्वर्जितानि समस्तानि कर्माणि तानि समूलोन्मूलनं विधत्ते चेदमात्मज्ञानरूपं दर्शनम् । तस्मात् कारणात् तादृशज्ञानरूपसाधनेन सदृशं नास्ति शास्त्रे लोके च किमस्ति वस्त्वन्तरम् ।
 
एतादृशमविशुद्ध यतिशयदोषानवच्छिन्नं सर्वथा भेदाधनवच्छिन्नं सांसारिक बन्धननिवृत्तिलक्षणलक्षितमोक्षकारणीभूतम् अविद्यान्धकारतत्कार्यविध्वंसनकर दर्शनरूपं ज्ञानमज्ञानतत्कार्याभासशून्यां नित्यनिरतिशयसुखस्वरूपां ब्रह्मात्मना ऽवस्थितिलक्षणलक्षितां परां विदेहात्मिकां मुक्ति प्रयच्छति, प्रापयति चेति विज्ञेयम् । उक्तञ्च -
 
''''सर्वेषां कैवल्यमुक्तिर्ज्ञानमात्रेणोक्ता ।'''
 
'''न कर्म सांख्ययोगोपासनादिभिः ॥'''<ref>मुक्तिकोप० १।५६ ।</ref>
 
'''<nowiki/>'ज्ञानादेव तु कैवल्यम्' ।'''-श्रुतिः ।
 
'''<nowiki/>'ऋते ज्ञानान्न मुक्तिः' ।।''' - श्रुतिः ।
 
अपि च-
 
'''<nowiki/>'ज्ञानस्वरूपस्यैव दर्शनं महत्त्वं ब्रूते ।'''
 
'''ज्ञानयज्ञः स विज्ञेयः सर्वयज्ञोत्तमोत्तमः ॥''''<ref>-शाटयायनीयोप०, १६ ।</ref>
 
'''<nowiki/>'अभेददर्शनं ज्ञानम्' ।'''<ref>-स्कन्दोप० ११ ।</ref>
 
इत्यादिबहुप्रबलप्रमाणैर्दर्शनस्य ज्ञानरूपा खलु सुस्पष्टैवेति । अत्रैव वेदस्यापि प्रामाण्यमाह -
 
'''<nowiki/>'अया विष्ठा जनयन् कर्वराणि स हि धणिरुरुर्वरायगातुः ।'''
 
'''स प्रत्युदैद्धरुणं मध्वो अग्रं स्वया तन्वा तन्वमैरयत' ॥'''<ref>-अथर्ववेदः, ७।३।१ ।</ref>
 
अर्थात्-धृणिः = ब्रह्मज्ञानरूपतेजोवान् । उरुः= विस्तृतहृदयशाली । गातुः = ज्ञानमार्गोपरि चलनात्मक क्रियाशीलः । सः = स ज्ञानयोगी । अया=अनया । विष्ठा = ( वि+स्था ) विशेषस्थित्या। कर्वराणि = नित्य-नैमित्तिकनिष्काम कर्माणि । जनयन् = कुर्वन् । मध्वः = मधुरज्ञानसम्बन्धिरसम् । धरुणम् = धारणार्थम् । अग्रं प्रति = सर्वतोऽग्रभागे स्थितमुक्त्यै । उदैत् = उपरि समु त्तिष्ठते । हि = यतः । स । स्वया तन्वा । वराय = वरणीयपरमात्मने । तन्वम् = स्वीयं शरीरम् । ऐरयत = प्रेरयतीत्यर्थः ।
 
अयमाशयः—'आत्मा वाऽरे द्रष्टव्यः' इति श्रुत्यनुसारेणतेनेदमेव ध्वनितं भवति यद् दर्शनलक्षणलक्षितब्रह्मज्ञानरूपतेजोवान् विशालहृदयो ज्ञानमार्गोपरि चलनात्मकक्रियाशीलो ज्ञानयोगी निष्कामभावनया खलु नित्यनैमित्तिककर्माणि समाचरन् वरणीयपरमात्मने समर्पयति तदर्थञ्च स्वात्मानं प्रेरयतीत्यर्थः ।
 
अपि च प्रमाणान्तरेणाऽप्येतदेव पुष्टीक्रियते -
 
'''<nowiki/>'एष भूताधिपतिरेष भूतपाल एष सेतुविधरणः एषां लोकानामसम्भेदाय तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेन' ।'''<ref>–बृहदारण्यकोप० ४।४।२२ ।</ref>
 
अर्थात् एष आत्मा सर्वेषां भूतानां स्वामी वर्तते, एष एव सर्वेषां भूतानां पालकोऽस्ति, एष एव भवसागरतस्तारकः सेतुः, एष एव लोकानां संरक्षणाय तेषां धारकः, अत एव ब्रह्मजिज्ञासवो मुमुक्षवो ब्राह्मणा अनाशकेन, यज्ञेन, दानेन, तपसा, वेदानुवचनेन (ज्ञानद्वारा) ब्रह्मलक्षणलक्षितमात्मानं विविदिषन्ति अर्थात् आत्मदर्शनं विधातुमिच्छन्ति, इदमस्ति सर्वं दर्शनस्यैव माहात्म्यम् इति निश्चप्रचं विज्ञेयम् । दर्शनदृष्टिस्वरूपज्ञानप्लवेनैव भवसागरं सन्तरन्तीत्यत्र नास्ति लेशतोऽपि सन्देहानध्यवसायावसरः ।
 
== चार्वाकदर्शनम् ==
पूर्वोक्तषड्विधदर्शनानां मध्ये चार्वाकदर्शनस्याप्यस्त्येकं स्थानम् । चारुः ( सुन्दरम् ) वाको ( वचनम् ) यस्येति यौगिकव्युत्पत्त्या सुन्दरवचनप्रतिपादन परं दर्शनमित्यर्थो लभ्यते इति ।
 
अस्य चार्वाकदर्शनस्य प्रवक्ताऽऽचार्यो बृहस्पतिरस्तीति अभियुक्तोक्त्या ज्ञायते । अत एवेदं दर्शनं बार्हस्पत्यदर्शनमित्यप्युच्यते, यतोऽस्य दर्शनस्य बृहस्पतेर्जन्मदातृत्वात् ।
 
लोकायतदर्शनमप्यस्यास्ति नामान्तरम्, इदञ्चास्त्यन्वर्थकं नाम, यतो लोकेषु ( जगत्सु ) सर्वत्र आयतम् ( विस्तीर्णम् ) इति च तदर्थः । इदानीन्तन कालावच्छेदेन सर्वोऽपि लोकः चार्वाकमतं सिद्धान्तञ्चानुसरति । प्रमाणदृष्ट्या विचार्यमाणे प्रत्यक्षप्रमाणस्यैव प्रामाण्यं स्वीकरोति लोकोऽपि । व्यवहारदर्शनेन तु सर्वेऽपि सन्ति प्रायः चार्वाका एव, प्रतीयन्तेऽपि च तथैवेति ।
 
चार्वाकनये यश्चास्तीन्द्रियजन्यज्ञानस्य विषयः स एव पारमार्थिकः सत्यः ( पारमाथिकसत्तावान् इत्यर्थः )। अनुमानप्रमाणजन्यज्ञानस्य विषयः, एवं शब्दप्रमाणजन्यज्ञानस्य विषयोऽपि तन्मते नास्ति पारमार्थिकसत्तावान् सत्यो वेति ।
 
चार्वाकसिद्धान्तप्रदर्शनपराणि सूत्राणि साक्षादाचार्यप्रवरः श्रीबृहस्पतिरेव प्रणीतवान् इति श्रूयते प्रामाणिकैर्गुरुकोटिकैरिति तेषां सूत्राणामितस्ततो दर्शनान्तरसम्बद्धग्रन्थेषु श्रवणात् समुल्लेखाद्वा श्रावणप्रत्यक्षविषयतामात्र सम्पाद्यते निश्चीयते च । नहि तानि सूत्राणि अद्यतनकालावच्छेदेनापि कश्चिद् दार्शनिको विपश्चित् निर्मातुं शक्तिधरोऽनुभूयते
 
'यावज्जीवेत् सुखं जीवेत् ऋणं कृत्वा घृतं पिबेत्' । इति च प्रतिपादनपरं चार्वाकदर्शनं केनचिच्चार्वाकनामकेन दैत्येन प्रणीत मित्यपि केचिद् दार्शनिका वदन्ति विवदन्ते चात्र बहवः ।
 
चार्वाकाणां बहुत्वात् सन्ति केचन शरीरात्मवादिनः, अपरे चेन्द्रियात्म वादिनः, अन्ये च प्राणात्मवादिनः, इत्यादिरूपेण तेषां वर्णनं वैविध्येन मिलति ग्रन्थान्तरेषु वेदान्तसारप्रभृतिषु ।
 
चार्वाकस्याऽयमप्याशयः-यद् येषां पदार्थानां प्रत्यक्षप्रमाणातिरिक्ताऽनु मान-शब्दादिभिः प्रमाणैः सिद्धिः क्रियते चार्वाकमते सन्ति ते पदार्थो मिथ्या भूताः स्वास्तित्वविहीनाश्चेति मन्तव्यम् ।
 
चार्वाकदर्शने प्रथिवी-जल-तेजो-वायवश्चेति सन्ति केवलं चत्वारि द्रव्याणि प्रत्यक्षप्रमाणजन्यज्ञानविषयीभूतानि ।।
 
एतेषां प्रत्येकं जडभूतानामपि चतुर्णामेव वैजात्यमापन्नानां द्रव्याणां परस्परं सम्मेलनेन सम्पाद्यमाने शरीरे चैतन्यमुपजायते । एवञ्चैतन्मते चैतन्यं शरीर निष्ठमेव अर्थात् शरीरस्यैव धर्मश्चैतन्यमित्यतः शरीरमेवाऽऽत्मा इति चार्वाकोदात, शरारातिरिक्तः कश्चिच्चेतन आत्मा न्यायवैशेषिकाभिमतः. सांख्यप्रभति दार्शनिकाभिमतो वेति नूनं विचार्यताम् ।
 
पृथिवी-जल-तेजो-वायु-स्वरूपचतूर्द्रव्योत्पन्नं जगदिदं प्रतिभासमानं सत् समनुभूयते । एतेषां चतुर्णा जडपदार्थानां पारस्परिकसंयोगेनैव चैतन्योत्पत्ति र्जायते । यथा-मधुघृतादिष्वेकत्र कृतेषु अर्थात् परस्परं संयुक्तेषु प्रत्येक मध्वादौ स्वास्तित्वविहीना सती काचिदेका शक्तिविजातीया तेषां चतुर्णामेव द्रव्याणां सम्बन्धविशेषमहिम्ना जायते ।
 
अङ्गनालिङ्गनादिजन्यं केवलमिह लौकिकं सुखमेवं पुरुषार्थः, स एव च स्वर्गपदाभिधेयतां गच्छति ।।
 
प्रियवस्तुनो वियोगेनाऽप्रियवस्तुनः संयोगेन च जायमानं दुःखमेव चास्ति नरकः । एतन्मते जगति सखस्यैवोपादेयत्वं सिद्धयति निश्चीयते च । यद्यपि सुखस्य सर्वमतेनोपादेयत्वं सिद्धमेव नाऽसिद्धमिति पुनः पूर्वप्रबन्धेन तत्साधने सिद्धसाधनो दोषः समागच्छति ।
 
परन्तु तथापि चार्वाकमते सन्मार्गेण असन्मार्गेण वा केनापि मार्गेण सुखं जायतामिति सुखप्राप्तिरेव चास्ति सर्वथा जीवनस्य प्रधानोद्देश्यीभूता। तथा चोक्तम् -
 
'''<nowiki/>'यावज्जीवेत् सुखं जीवेत् ऋणं कृत्वा घृतं पिबेत् ।'''
 
'''हाल भस्मीभूतस्य देहस्य पुनरागमनं कुतः ॥'''<ref>-चार्वाकषष्टिः ।</ref>
 
एवं स्थितेऽङ्गनाऽऽलिङ्गनादिजन्यस्य धर्मादिरूपकारणाजन्यस्य स्वर्ग रूपफलस्य सम्प्राप्तिरेव पुरुषार्थः ।
 
एतन्मते धर्माधौं नहि सुखदुःखयोः कारणे स्तः, भवितुं वार्हतः, अपि तु प्रियवस्तुनोऽवियोगस्य, अप्रियवस्तुनः संयोगस्य च धर्माऽधमी प्रति हेतुत्वात् इति ।
 
चार्वाका वराका अर्थकामयोरेव पुरुषार्थत्वं स्वीकुर्वन्ति । 'आद्यन्तौ टकितौ' इति न्यायेनाऽऽद्यन्तयोः टित्-कित्संज्ञान्तर्गतत्वात् तादृशसंज्ञाया एव धर्मस्याऽपुरुषार्थतायां मानत्वात् । तत्त्वतो धर्मस्य पुरुषार्थत्वमेव नास्ति, तस्य स्वयमेव खपुष्पायितत्वात्, वन्ध्यापुत्रायितत्वाच्चेत्यस्ति चार्वाकस्य हादिकोऽभिप्रायः । अर्थात् यथा वन्ध्यापुत्रस्य, खपुष्पस्य च नास्ति किमपि सत्त्वम् ( अस्तित्वम् ), केवलं शब्दानुपूर्वीमात्रमेव समनुभूयते न तु तत्र चास्ति काऽप्यर्थानुपूर्वी, तस्याः सर्वथा समाप्तत्वात् ।
 
चार्वाकः, चार्वाकदर्शनं वा मोक्षविषये चेत्थं विचारयति यत्-देहोच्छेद रूपस्य मोक्षस्यापि नास्ति पुरुषार्थत्वम् । यतः-मोक्षस्य कोऽस्ति अनुभव कर्ता, तथा कोऽस्ति तस्य पूर्णतया ज्ञाता, कश्चास्ति मोक्षस्याऽऽधारः आत्यन्ति कदुःखनिवृत्तिश्चेन्मोक्षस्तस्याऽनुभवविधानन्तु, तथा प्राप्तिस्तु इदानीमप्यत्रैव भवितुमर्हति तेषां येषां पयोदधियुतस्य, सघृतस्य, भोजनस्य अङ्गनालिङ्गना देश्चाऽस्ति समीचीना साध्वी व्यवस्थेति ध्येयम् ।
 
अपि च धर्मशास्त्रिणो वा, वेदशास्त्रिणो वा तथाऽन्यशास्त्रशास्त्रिणो वा केवलं धर्माऽधर्मयोरीश्वरस्य च विभीषिकां प्रदाय वेदशास्त्रमधिकृत्य सञ्चाल्य मानं लोकायतं निखिलमपि नित्यम्, नैमित्तिकञ्च वेदोक्तं कर्मकाण्डम् अस्या उदरदर्या आहोस्विज्जीविकाया उपायभूतं प्रभूतं साधनं कथयन्तो जनान् वराकान् सम्मोहयन्ति व्यामोहयन्ति मदयन्ति भ्रमान्धकारेऽज्ञानान्धकारे वा पातयन्ति । उक्तञ्च -
 
'''<nowiki/>'अग्निहोत्रं त्रयो वेदास्त्रिदण्डं भस्मगुण्ठनम् ।'''
 
'''बुद्धिपौरुषहीनानां जीविकेति बृहस्पतिः ॥'''<ref>चार्वाकषष्टिः ।</ref>
 
अपि च -
 
'''<nowiki/>'अङ्गनालिङ्गनाज्जन्यं सुखमेव पुमर्थता।'''
 
'''कण्टकादिव्यथाजन्यं दुःखं निरय उच्यते। -तत्रैव।'''
 
एवम् -
 
'''<nowiki/>'लोकासिद्धो भवेद्राजा परेशो नापरः स्मृतः ।'''
 
'''देहस्य नाशो मुक्तिस्तु न ज्ञानान्मुक्तिरिष्यते' ॥''' -तत्रैव ।
 
'''<nowiki/>'अत्र चत्वारि भूतानि भूमिवार्यनिलाऽनलाः ।'''
 
'''चतुर्यः खलु भूतेभ्यश्चैतन्यमुपजायते' ॥'''
 
'''किण्वादिभ्यः समेतेभ्यो द्रव्येभ्यो मदशक्तिवत् ।'''
 
'''अहं स्थूल: कृशोऽस्मीति समानाधिकरण्यतः ।।''' -तत्रैव।
 
अन्यत्रापि च -
 
'''<nowiki/>'निहतस्य . पशोर्यज्ञे स्वर्गप्राप्तिर्यदीष्यते ।'''
 
'''स्वपिता यजमानेन किन्नु तस्मान्न हन्यते' ॥'''<ref>विष्णुपुराणम् ।</ref>
 
== आर्हतदर्शनम् ==
अर्हत इमे आर्हताः ( जैनाः )। इमे चाऽऽहंता जैनपदजन्यबोधविषयता वन्तः सन्तः 'अर्हत्'-पदसम्बोध्यं तं स्वीयं देवं समुपासते इति । तथा चोक्तम्
 
'''<nowiki/>'अर्हन्नित्यथ जैनशासनरताः''''<ref>-सर्वद० सं०</ref>
 
एतेषां नये 'अर्हत्'-पदजन्यबोधीयविषयता वानस्ति कश्चिदेतज्जैनसम्प्र दायानुगतोऽभिमतश्चैको देवविशेषः । स चाऽऽर्हतानामस्ति समुपास्यो देव इति । तत्र 'हेमचन्द्र'-नामको जैनदार्शनिक आप्तनिश्चयाऽलङ्कारे आह -
 
'''सर्वज्ञो जितरागादिः सर्वथा लोकपूजितः ।'''
 
'''यथा स्थितार्थवादी च देवोऽर्हन् परमेश्वरः ।।'''<ref>-सर्वद० सं० आर्हतद० प्रकरणे ।</ref>
 
एतनाऽऽहतानां सेश्वरवादिताऽस्तित्वं सुस्पष्टमेव सिद्धयति ततो निरीश्वर वादिता च स्वयमेव निराकृता भवतीति कथं पुनः 'जनशासनरताः' नास्तिक शब्देनोच्यन्ते इत्युच्यताम् ?
 
समाधानमाह-केवलं 'वेदानङ्गीकारात्' इत्यनेन हेतुना, 'नास्तिको सनकः इति न्यायेन च 'नास्तिक'-पदजन्यबोधविषयतावत्त्वेन नास्ति कता-'आहत'-निष्ठा सती, आर्हतमतनिष्ठा सती वा ना व्यपदिश्यमाना अवश्यमेव खल भवन्ति जैनाश्चावाकबाड
 
परन्तु जैनापरनामधेयाः खलु आर्हता बौद्धानां क्षणभङ्गवादम्, निरीश्वर पारच नाङ्गाकुर्वन्ति, नापि समादरन्ति च । यतस्तयोर्द्वयोरपि वादयोः सर्वथा. ऽननुभवात् शास्त्रप्रामाण्यविरोधाच्चेति ।
 
एवमेतन्मते चार्वाकदर्शनानुसारं नास्ति सुखदुःखकारणीभूतयोर्धर्माऽधर्मयोरनङ्गीकारः । अपि तु सुख-दुःखयोर्हेतुभूती धर्माऽधर्मावपि जैनदर्शनाऽभि मतौ स्वीकृतौ च वर्ततेऽतोऽस्मिन् दर्शने नास्ति तयोः कथमप्यनङ्गीकारः ।
 
अपि च प्राणिनां धर्माऽधर्मरूपाऽदृष्टवशादेव परमाणूनां पारस्परिक संयोगेन द्वयणुकादिक्रमेण स्थूलपृथिवीजलप्रभृतिद्रव्याणां समुत्पत्तिर्जायतेऽतो धर्माऽधर्मावेव सृष्टेस्तज्जायमानस्य प्रपञ्चस्य तदन्तर्गतानां वा पदार्थानां कारणीभूतौ, तदवच्छेदकीभूतौ वा आहोस्वित्तदवच्छेदकतावच्छेदकीभूतौ स्तः इति धर्माऽधमौ विना सृष्टेस्तदन्तर्गतप्रपञ्चस्य वाऽनुपपत्तेर्जायमानत्वेन सृष्टिरेव व्याहत्येतेति सृष्टि प्रति प्रयोजकत्वेनापि धर्माऽधर्मयोरङ्गीकारो नितान्त मावश्यक:-इति जैनदर्शनरता दार्शनिका आर्हताश्च वदन्ति विवदन्ते चात्र बहवो बौद्धाश्चार्वाकाश्चेति ध्येयम् ।
 
अथ यथा बौद्धवैशेषिकयोमते प्रत्यक्षमनुमानञ्चेति प्रमाणद्वयमेवाऽङ्गी कुरुतस्तथैव जैनास्तदनुयायिनश्च प्रत्यक्षानुमानयोर्द्वयोरेव प्रमाणयोः प्रामाण्य मभ्युपगच्छन्ति न तु शब्दोपमानयोरपि, आहोस्वित् अर्थापत्त्यनुपलब्ध्यादीनां प्रमाणत्वेनाऽभिमतानां प्रमाणानां सर्वेषामेव नास्ति प्रामाण्यं यतस्तेषां सर्वेषा मेव प्रत्यक्षाऽनुमानातिरिक्तानामनुमानेऽन्तर्भावात् इति । यथोक्तम्
 
'''<nowiki/>'शब्दोपमानयो व पृथक् प्रामाण्य मिष्यते ।'''
 
'''अनुमानगतार्थत्वादिति जैनादिसम्मतम् ॥''''
 
अपि च-
 
जैनदर्शने ‘मा हिंस्यात् सर्वाभूतानि'। इत्यनया श्रुत्या पुष्टी कृतः 'अहिंसापरमो धर्मः' अयमेवोपनिषत्सु वर्णितः सिद्धान्तः परमसिद्धान्तत्वेन मान्यत्वेन चाऽङ्गीकृतो वर्तते । अत एवाऽत्र दर्शने पिपीलिकाजीवमारणम्, पिपीलिकाण्डमारणम्, एवं तत्समवृश्चिकादिवधोऽपि ब्रह्महत्यासदृश एव वधो मन्तव्यः । तथा चीटिकावधोऽपि तथाविध एवेति विचारयन्तु शास्त्रशास्त्रिण इति ।
 
एवमस्मिन् दर्शने नास्ति-'अर्हतो'ऽतिरिक्तस्य वेदान्त सिद्धान्तसिद्धस्य परब्रह्मणः कृते किमपि स्थानम् । नापि च न्याय-वैशेषिकमतसिद्धस्येश्वरस्य, परमेश्वरस्य कृतेऽपि नास्ति किमपि स्थानम । तथा चोक्तं व्यतिरेकक्रमेण
 
'''<nowiki/>'अर्ह नित्यथ जैनशासनरताः'।''' -श्रुतिः इत्यभियुक्तोक्तेः ।
 
अपि च जैनसम्प्रदायानुसारतो जीवः सङ्कोचविकासशाली, शरीरेन्द्रियादि जडवर्गतश्चास्ति सर्वथा भिन्नः परिणामी नित्यश्च ।
 
सष्टिरपि तन्मते परमविलक्षणा, सा च मूलपरमाणुस्वरूपा, जडत्वेना ऽचेतनस्वरूपा, प्रवाहरूपेणाऽनादिः स्वयम्भू चापीति मन्तव्यम् । जडस्वरूपपुद् गलतः कर्मणां समुत्पत्तिर्जायते । जीवो नानाविधानि कर्माणि अहर्निशमनिशं समाचरन्नेव नैव कदापि कथमपि विश्रमसुखशय्यां लभते । तेनैव च पुनर्जीव कर्मसम्बन्धेन जगदुत्पत्तिर्जायते देहिनाम् । तदनन्तरञ्च पुनस्तादृशे नैव सम्बन्धेन कर्मण एवैतस्मिन् मते संस्कारोत्पत्तिर्जायते स्वीक्रियतेऽपि च जैनदार्शनिकैः ।
 
एवमेव पुनः संस्कारोत्पत्त्यनन्तरकालावच्छेदेनैव च स संस्कारः पौन: पुन्येन प्राणिनां मरणं दुःखञ्च जनयति प्रापयति च । पुनश्च जन्मापि च संस्कारवशादेव भवतीति नहि तत्र संस्कारातिरिक्तं किमपि कारणान्तरमभ्यु पेयम् । to तथाऽऽर्हतानां धर्मोऽपि सृष्ट्युत्पत्तिकालोत्तरकालत एवाऽधुनातनकालपर्यन्तं समागच्छति। पुनश्चेतः पुरस्तादपि स एवमेव प्रचलिष्यतीति जैनसिद्धान्ता वलम्बिनो वदन्ति ।
 
जैनमतानुसारं चतुर्विंशतिसङ्ख्याकाः खलु तीर्थङ्कराः सञ्जायन्ते प्रत्येक मुत्सपिण्यवसर्पिण्योरिति चास्ति प्रामाणिको वादः ।
 
तत्रापि च यथा न्याय-वैशेषिकमतानुसारं पुराणपुरुषोत्तमस्य भगवतो विष्णोः खलु रामकृष्णप्रभृतयोऽवतारा जायन्ते, तथैव जैनमतेऽपि तीर्थङ्करगति गणनावसरेऽपीदमेव निर्णीयते यदन्तिमाया अवसर्पिण्याः प्रथमस्तीर्थङ्कर आदि नाथापरनामधेयो ऋषभदेवो बभूव
 
अयञ्च श्रीऋषभदेवो भगवतः पुराणपुरुषोत्तमस्य श्रीविष्णोश्चतुर्विंशत्यवता रेषु परिगणितः ।
 
पुनरयं खलु ऋषभदेवोऽवतारेष्वपि श्रीमनुवंशीयस्य श्रीनाभिराजस्य पुत्र त्वेन परिगणितः प्रचलितश्चासीदिति जानन्ति सर्वेऽपि ते जैनसिद्धान्तविदो वेत्तारः ।
 
अस्य च श्रीऋषभदेवस्य तीर्थङ्करस्य श्रद्धास्पदीभूता पूज्या माता ( जन्म दात्री = जननी ) चासीत् 'मरुदेवी'-नाम्नीति । सा एवम्भूतं प्रभूतमवतारस्व रूपं पुत्रं लब्ध्वा जनयित्वा चाऽऽत्मानं कृतकृत्यां मन्यमाना सती धन्यवाद भाजनभूताऽभूत् ।
 
एवं शान्तिनाथः, नेमिनाथः, पार्श्वनाथः, तथा चतुर्विंशतितमस्तीर्थङ्करः 'श्रीमहावीरवर्धनः' मगधराजस्य क्षत्रियस्य सिद्धार्थस्य पुत्रोऽयमासीदिति चास्ति महती प्रसिद्धिजनमतावलम्बिषु । जैनसम्प्रदायस्याऽयमासीदन्तिमस्तीर्थङ्कर इति चापि विज्ञेयमिति तु परमार्थः ।।
 
एवमयं नन्दीवर्धनभ्रातृकः सन् 'त्रिशला'-मातृकश्च सन् 'यशोदा'-पत्नीकश्च सन् काश्यपगोत्रीय आसीत् ।।
 
अयमेव च 'महावीरवर्धनः' खल्वस्य जैनसम्प्रदायस्य तथाविधमतस्य वा प्राधान्येन प्रवर्तक आसीदित्यपि प्रसिद्धि गतो विषयः कर्णाकर्णिकया ग्रन्थ शब्दानुपूर्वीकतया तदर्थानुपूर्वीकतया च श्रावण प्रत्यक्षविषयीक्रियते ।
 
अयञ्च श्रीवर्धनः 'क्षत्रियकुण्ड'-नामके ग्रामे स्वीये स्वीयं जन्म लभमानः सन् 'पावा'-स्थाने स्वीयं पञ्चभूतविनिर्मितमिदं शरीरं परित्यक्तवान् ।
 
== जैनमतप्रतिपादकाः ग्रन्थाः ==
जैनमतस्य तत्सिद्धान्तस्य वा प्रतिपादनपराः सन्तीमे ग्रन्थास्ते च संख्या वत्त्वेन सन्ति पञ्चचत्वारिंशत् (४५) संख्याकाः । तथाहि -
 
१. एकादशसंख्याकाः ( ११) सन्ति ग्रन्थाः 'अङ्ग'भूताः सिद्धान्तग्रन्थाः ।
 
संख्याकाः ( १२ ) सन्ति ग्रन्था 'उपाङ्ग'भूताः सिद्धान्तग्रन्था जैनप्रस्फोरणपराः।
 
३. दशसंख्याकाः (१०) सन्ति 'प्रकीर्ण'-भूता ग्रन्था ये जैनसिद्धान्त प्रकाशनपराः ।
 
४. षट्त्वसंख्याकाः (६) सन्ति 'छेदसूत्र'-भूताः ग्रन्था ये जैनमतं सैद्धान्तिकत्वेन प्रतिपादयन्ति ।
 
५. चतुष्ट्वसंख्याकाः ( ४ ) सन्ति ग्रन्था 'मूलसूत्र'-भूताः ये जैनदर्शनस्य मूलं दर्शयन्ति ।
 
६. एकत्वसंख्याविशिष्टः (१) 'अनुपयोगद्वारसूत्र'भूतः सिद्धान्तग्रन्थ श्वास्ति जैनमतस्य ।
 
७. ( १ ) एकत्वसंख्यावच्छिन्नश्वास्ति 'नन्दीसूत्र'-नामकोऽयं ग्रन्थः सिद्धान्ततः आर्हतमतं समीचीनं प्रस्फोरयति ।
 
इदानीं जैनमतप्रतिपादका ये सन्ति ग्रन्थाः सिद्धान्तग्रन्थाश्चाऽङ्गभूतास्तथो पाङ्गभूतास्ते. सर्वेऽपि मिलित्वा पञ्चचत्वारिंशत् ( ४५ ) संख्यां पूरयन्तीति
 
सैव संख्या प्रदर्श्यते । तथाहि
 
अङ्गभूतान् सिद्धान्तग्रन्थानाह-१. आचारः, २. सूत्रकृतः, ३. स्थानम्, ४. समवायः, ५. भगवती, ६. ज्ञातृधर्मकथा, ७. उपासककथा, ८. अन्त कृद्दशा, ९. अनुत्तरोपपातिकदशा, १०. प्रश्नव्याकरणम्, ११. विपाकः ।
 
इदानीमुपाङ्गभूतांस्तान् ग्रन्थान् आह-१. औपपातिकः, २. राजप्रश्नीयः, ३. जीवाभिगमः, ४. प्रज्ञापना, ५. जम्बूद्वीपप्रज्ञप्तिः, ६. चन्द्रप्रज्ञप्तिः, ७. सूर्य प्रज्ञप्तिः, ८. निरयावलिः, ९. कल्पावतंसिका, १०. पुष्पिका, ११. पुष्पचूलिका, १२. वह्निदशा।
 
इदानीं खलप्रकीर्णग्रन्थानां प्रातिस्विकरूपतां प्रतिपादयति--१. चतुः शरणः, २. संस्तरकः, ३. आतुरप्रत्याख्यानः, ४. भक्तापरिज्ञा, ५. तण्डुल बैयासीयः, ६. चन्द्रवेध्यकः, ७. देवेन्द्रस्तवः, ८. गणिवीज्जा, ९. महाप्रत्या ख्यानः, १०. वीरस्तवः ।
 
अधुना च छेदसूत्रसिद्धान्तग्रन्थानां प्रातिस्विकरूपेण गणनामाह - १. निशीथः, २. महानिशीथः, ३. व्यवहारः, ४. दशाश्रुतस्कन्धः, ५. बृहत्कल्पः, ६. पञ्चकल्पः । -
 
इदानीं खलु चतुर्विधत्वेन विभाजनपराणां मूलसूत्रसिद्धान्तग्रन्थानां प्राति स्विकरूपेण गणनामाह-१. उत्तराध्ययनम्, २. दशवैकालिका, ३. आवश्यकः, ४. पिण्डनियुक्तिः ।
 
अपरावपि द्वौ ग्रन्थाववशिष्टौ ब्रूते १. अनुपयोगद्वारसूत्रम्-इत्यप्यस्ति एकः सिद्धान्तग्रन्थः ।
 
२. नन्दीसूत्रम्-इति नामकोऽप्यस्ति एकः सिद्धान्तग्रन्थो जैनमत प्रकाशकः । एवं क्रमेण मिलित्वा सर्वेऽपि सिद्धान्तग्रन्थाः जैनमतसम्बन्धिनः खलु पञ्चचत्वारिंशत्संख्याकाः भवन्तीति ध्येयम् ।
 
== जैनानां द्वैविध्यमाह ==
जैना द्विविधा भवन्ति, श्वेताम्बराः, दिगम्बराश्च । इत्थञ्च श्वेताम्बर दिगम्बरभेदेन पारस्परिकभेदमापन्नेषु जैनेषु श्वेताम्बरा इत्थं समुगिरन्ति, यत्-दिगम्बरमतस्य 'शिवभूति'-कृतः प्रादुर्भावः खलु ईसवीये ८२ वर्षेऽभूत् इति सर्वेऽपि जैनशासनरता दार्शनिकास्तदितरे च विद्वांसो विदाङकुर्वन्ति । '
 
एवं दिगम्बरमते प्रादुर्भूता दिगम्बरा आर्हताः श्वेताम्बरनयस्य भद्र बाहुविहितं प्रादुर्भावम् एकोनाऽशीतितमे (७९) वर्षे जात इति च प्रस्फोरयन्तीति ध्येयम् ।
 
तत्रापि तात्त्विकदृष्ट्या विचार्यमाणे दिगम्बरमतावलम्बिना खल्वार्हताना ञ्चास्ति प्राधान्यं दक्षिणे भारते । तत्र सर्वत्र प्रायो दिगम्बरवेषधारिणी दिगम्बरा एव चरन्तो विचरन्तश्च दर्शनगोचरीभूता भवन्ति । तत्र नैकोऽपि प्रायः श्वेताम्बरश्चाक्षष-श्रावण-प्रत्यक्ष-विषयतां गतो व्यक्तिविशेषो वा समुपलभ्यते इति ।
 
एवमेवोत्तरभारतेऽपि च श्वेताम्बराणामेव जैनानां मुख्यत्वम् (प्राधान्यम् ) अनुभूयते । उत्तरभारते चास्ति मदीया अर्थात् दर्शनेतिहासलेखिकायाः शशि बालायाः स्वीया वसतिः । तत्र च मयाऽहर्निशमनिशं चरन्तो भ्रमन्तो दक्षिण भारते दिगम्बरवत् श्वेताम्बरा एव चाक्षुष-प्रत्यक्षविषयतां नीयन्ते । तत्र प्रायो नैकोऽपि दिगम्बरमतावलम्बी दिगम्बरः समुपलभमानो भवति । इमांश्च श्वेताम्बरांश्चाऽहं सम्यक्त्वेन विजानामि यदि मे श्वेताम्बरा महान्तो धनवन्तो दानवन्तश्व जायन्ते इति नहि केषामपि प्रच्छन्नो विषयः ।
 
तीर्थङ्कराणां विषये चास्तीयं धारणा दिगम्बराणां यत्ते तीर्थङ्करा भोजन मन्तरैव अर्थात् भोजनमकृत्वैव स्वीयं जीवनं प्रायो यापयितुं कामयन्ते कामयन्ते स्म च । अर्थात् कन्दमूलफलादिकं भक्षयित्वैव स्वीयं जीवन निर्वाहयन्ति निर्वाहयन्ति स्म चेतः पूर्वकालावच्छेदेनेति । एतादृशमापन्न एव च स्वीयां तपश्चर्यामपि चरन्ति स्म । एवमेतेषां तीर्थङ्कराणां विषये चेदमपि श्रूयते यद् यश्च तीर्थङ्करो भिक्षुर्भवति वस्त्रधारी सम्पत्तिधारी च स नैव कदापि कथमपि मोक्षं लभते। _नापि च सम्पत्तिमान् वस्त्रादिवेषभूषादिमान् तीर्थङ्करो भिक्षुस्तुरीय पुरुषार्थमोक्षाधिकारी भवति, भवितुं वा प्रभवति, तदर्थं वैराग्यं योगाभ्यासादि रूपं तत् साधनमपेक्षते । नापि चैतज्जैनमतेन स्त्रियोऽपि मोक्षाधिकारिण्यो भवितुं प्रभवन्ति, मोक्षं वा समवाप्नुवन्ति-अयमेव चास्ति खलूभयपक्षयो विवादः । तथा चोक्तमपि ।
 
'''<nowiki/>'भुङ्क्ते न केवली न स्त्री मोक्षमेति दिगम्बराः ।'''
 
'''प्राहुरेषा मयं भेदो महान् श्वेताम्बरैः सह ॥'''
 
== अधस्तादुल्लिखिताः सन्ति ग्रन्था ग्रन्थकाराश्च ==
 
== भद्रबाहुः ==
ई० पू० ४३३-३५७ दशवैकालिका-टीका-निर्माता वाचकाचार्योपाधिभूषण भूषित आर्हतेषु दृष्टिवादस्य चतुर्दशसूत्राणां सम्यक्त्वेन ज्ञानशीलो जैनसम्प्रदाये योऽस्ति प्राचीनो गोत्रस्तादृशगोत्रसम्पन्नो जैनैर्युगप्रधानपुरुषत्वेन चाऽङ्गीकृतोऽयं भद्रबाहुः श्वेताम्बरजैनसम्प्रदायजन्मदाता श्रीयशोभद्र शिष्य आसीत् ।
 
अयञ्च यशोभद्र: कस्मिन् काले प्रादुर्भूत इति तदीयं प्रादुर्भावकालं तथा तिरोभावकालञ्च वयं नैव निर्णतुं शक्नुमः । नाद्यापि कालनिर्धारणं कर्तुं प्रभवति कश्चित् विपश्चित् ।
 
केवलमस्य महानुभावस्य यशोभद्रस्य विषये वयमेतावन्मात्रमेव शक्नुमो वक्तुं यदयं महानुभावो विद्वान् विभिन्नेषु सूत्रेषु जैनसम्प्रदायसिद्धेषु नाना विधाष्टीकाः खलु रचितवान् । श्वेताम्बरसम्प्रदाये मान्योऽयं मनीषी 'भद्रबाहुः' दिगम्बरसाम्प्रदायिकैरपि स्वीक्रियते समाद्रियते चापीति ध्येयम् ।
 
== उमास्वातिः ==
अयञ्च जैनसम्प्रदायस्य प्रवर्धको महामनीषी 'श्रीउमास्वातिः'-नामको दार्शनिको विद्वान् ''('' १-८५ ) स्वीयजीवनाऽस्तित्वयापनपरायणस्तत्वार्थाधिगम सूत्रस्य तद्भाष्यस्य च निर्माणं कृतवान् इति । तथा वाचकाचार्योपाधिभूषण भूषितः सन् व्यावहारिकदूषणादिभिः सर्वथाऽदूषितः सन् पाटलीपुत्र ( पटना = बिहारप्रान्तीय राजधानी )-निवासी चासीत् ।
 
एवमयं 'श्रीउमास्वातिः' 'कौभिषणि'-गोत्रोत्पन्नः स्वातिपुत्रश्चाऽऽसीदि त्यनेनेदं सूच्यते यत् 'स्वाति'-नामा कश्चिद् व्यक्तिविशेषश्चास्य जनकी भूतः पिताऽऽसीत्, माता च 'उमा'-नाम्नी आसीदिति तदानीन्तना विद्वांसो व्याहरन्ति स्म ।
 
अस्य महानुभावस्य 'उमास्वाति'नामकस्य महाविदुषो विषये चास्तीयं प्रसिद्धि गता एका किंवदन्ती यदयं दार्शनिको विद्वान् ‘पञ्चाशत्प्रकरण ग्रन्थानां लेखको विनिर्माताऽप्यासीत् इत्यन्यत्र चास्ति विस्तरः ।
 
एवम् अयञ्च खल श्रीउमास्वातिर्मनीषी दिगम्बरैरपि जैनसम्प्रदा यान्तर्गतैः समादृतः सम्मानप्राप्तश्चासीदिति च कथानकमधुनातनकालावच्छेदे नापि प्रचलिता वर्तते।
 
अस्य महाविदुषो विषये इतोऽतिरिक्ता अन्या अपि बह्वयः किंवदन्त्यः श्रूयन्ते याश्च शास्त्रमधिकृत्य प्रवर्तन्ते, परन्तु ताः केवलं लेखविस्तरभया न्नात्रोल्लिख्यन्ते ।
 
== हेमचन्द्रसूरिः ==
'श्रीहेमचन्द्र सूरि'रासीत् खलु जैनदर्शनशास्त्रस्य महान् दार्शनिको विद्वान् । अयञ्च हेमचन्द्रसूरिर्महानुभावो मनीषी (१०८८-११७२ ईसवीये वर्षे ) चतरशीति (८४ ) वर्षपर्यन्तं स्वास्तित्वसम्पन्नः सन श्रीदेवचन्द्रस्य शिष्य आसीत् । तथाऽनेन श्रीहेमचन्द्रसूरिणा जैनदर्शनवैदुष्यभूषणभूषितेन प्रमाण मीमांसाप्रभृतीनां नानाविधमीमांसाशास्त्रग्रन्थानां रचनां पाण्डित्यपूर्णां कृतवान् । एवमयं 'कुमारपाल'-नाम्नो राज्ञः परिषत्पण्डितः सन् तत्सञ्चालकोऽप्यासीत् ।
 
== श्रीविद्यानन्दः ==
अयञ्च जैनदार्शनिकविद्वत्सु श्रीविद्यानन्दोऽप्यासीको जैनदर्शनस्याऽतीव प्रतिभासम्पन्नो विद्वान् ।
 
श्रीविद्यानन्दश्च महामनीषी ८०० ईसवीये वर्षे स्वकीयसंस्थित्या विराज मानो महती वैदुष्यधर्मसमन्वितां यां प्रतिष्ठां तदानीन्तनकालावच्छेदेनाजित वान् नहि तादृशीं वैदुष्यपूर्णां प्रतिष्ठां कोऽपि तदानीन्तनकालावच्छिन्नो जैन दार्शनिको विद्वानजितवान् ।
 
अयं खलु महाजैनदार्शनिको विद्वान् श्रीविद्यानन्द:-बिहारप्रान्तान्तर्गत पाटलि-पुत्र-(पटना) निवासी चासीत्, तथा सर्वत्रोत्तरभारते जैनदर्शनपरि शीलनपरत्वेन श्रीआनन्दो महतीं प्रतिष्ठामपि प्राप्तवान् इति । संख्यातीताः संस्कृतविद्वांसो विशेषतश्च 'वैशाली'-क्षेत्रनिवासिनो जैनदार्शनिका अहर्निश मनिशमस्य यशोगानं प्रकुर्वन्ति जैनदर्शनशास्त्रमधिकृत्य जैनदर्शनसम्भारोप नीताऽऽनन्दसुधामहाहदावगाहिनः कुशलाः ।
 
एवमयं श्रीविद्यानन्दो जैनदार्शनिको विद्वान् ‘पात्रकेशरिस्वामी' इति नामो पाधिभूषणभूषितः खलु-इत्यनेनापि नाम्ना स्वीयां पूर्णां प्रसिद्धि लभमानः श्रूयते ।
 
अस्यैव महानुभावस्य श्रीविद्यानन्दस्य जैनदर्शनस्य परमं महत्त्वं गौरवञ्च प्राकाश्यं नयन्ती चास्तीयं खलु 'अष्टसाहस्री-नाम्नी एका पुस्तिका, सैव च 'आप्तमीमांसालङ्कृति'-इत्यनेनापि नाम्ना गीयते । जैनदार्शनिकास्तां पुस्तिकां समधीत्य जैनदर्शनस्य महत्त्वं गौरवञ्च प्रमाणयन्ति । अस्या जैनदर्शनसार भूतायाः प्रभूतायाः पुस्तिकाया अयमेव श्रीआनन्द एव रचयिताऽभूदिति ।
 
== श्रीसिद्धसेनदिवाकरः ==
जैनदार्शनिकशिरोमणिरयं 'श्रीसिद्धसेनदिवाकर'-नामको जैनव्यवहार-धर्म दर्शनादीनाञ्च स्वरूपपरिशीलने नैपुण्यमादधानस्तथा जैनदर्शनप्रवचनपाटवे कौशलं बिभ्राणः, स्यादस्ति-स्यान्नास्तीत्यनेकान्तवादान्तर्गतभावाऽभावयोर्देश भेदावच्छेदेन, कालभेदावच्छेदेन चैकत्राधिकरणे समावेष्टं प्रयत्नशीलोऽयं जैन मनीषी ४८०-५५० ईसवीये वर्षे स्वास्तित्वसंरक्षणपरायणः खलु निम्नो ल्लिखितानां त्रयाणां पुस्तकानां (ग्रन्थानां) लेखको विनिर्माता चाऽभूत् । तानीमानि सन्ति त्रीणि पुस्तकानि । तानि च यथा—१. 'न्यायावतारः', २. 'सन्मतितर्कसूत्रम्' । ३. 'कल्याणमन्दिरस्तवः'। एतेषां त्रयाणां ग्रन्थानां रचयिता, कर्ता, धर्ताऽपि चाऽयमेवाऽऽसीत श्रीसिद्धसेनदिवाकरः । अस्य च श्री दिवाकरस्याऽपरं नामधेयम् अर्थात् नामान्तरं 'क्षपणकः' इति चासीत् इत्यपि श्रूयते ।
 
एवं 'तर्कमन्य'-पदेन सम्बोध्यमानोऽयं श्रीदिवाकरः 'श्रीवृद्धवादिसूरिणोऽन्ते वसन्, तत्रैव च पूर्णतयाऽधीतविद्योऽपि पूर्णतया जैनदार्शनिको बभूव ।
 
अयञ्च श्रीदिवाकरः पूज्यं स्वीयं पितरं श्रीदेवर्षिम्, एवं श्रद्धेयां मातरं 'श्रीदेवश्री'-नाम्नीं चापि स्वीयेन लब्धप्रतिष्ठेन दार्शनिकतासुशोभितेन च वैदुष्येण सर्वथा समलङ्कृतवान् इति ।
 
== श्रीदेवसूरिः ==
अयञ्च 'श्रीदेवसूरि'-नामको जैनसम्प्रदायमान्यतापरो जैनदार्शनिको विद्वान् जैनदर्शनस्याऽतीन्द्रियपदार्थदर्शी विद्वान् १०८८-११७२ ईसवीये वर्षे स्वास्ति त्वमक्षुण्णतया संरक्षणपरायणः स्वीयं शास्त्रीयं जीवनं जैनदर्शनशास्त्रीयवैदुष्य लेखनादिना—'दर्शनशास्त्रविनोदेन कालो गच्छति धीमताम्' इति न्यायेन शास्त्रविनोदेन च सुचारुतया यापयन् वादिप्रवरनाम्ना स्वीयां प्रसिद्धि लब्धवान ।
 
अपि च 'मुनिचन्द्रसूरि'-शिष्योऽयं श्रीदेवसूरिः, असंवेद्यभावज्ञाता सन् खल त्रयाणां ग्रन्थानां लेखकोऽभूत् इति । तथाहि-
 
१. 'प्रमाणनयतत्त्वालोका लङ्कारः',
 
२. 'अस्य' टीकालेखकः',
 
३. 'स्याद्वादरत्नाकरः ।
 
== श्रीप्रभाचन्द्रः ==
श्रीप्रभाचन्द्रो जैनदार्शनिक उद्भटो विद्वान् जैनदर्शने नवनवपदार्थवाद कल्पनायां दक्षतां गतः सन् अविगीतशिष्टाचारतया ८२५ ईसवीये वर्षे स्वीय सत्तया सन्तिष्ठमानः खलु नवनवकठिनभावविचारालोकसमुद्दीपनतां गतस्य ग्रन्थद्वयस्य रचनां कृतवान् । तद् ग्रन्थद्वयमाह--
 
१. 'प्रमेयकमलमार्तण्डः',
 
२. 'न्यायकुमुदचन्द्रोदयः' ।
 
जैनदर्शनान्तर्गतं ग्रन्यद्वयमिदमनवगतार्थं विषयाऽबाधि तञ्चार्थं सर्वथा बोधयति, तथा पदार्थाऽऽलोकेन्द्रियादिनिखिलपदार्थप्रकाशसामग्रया अर्थोपलब्धौ साहाय्यमपि जनयति ।
 
== श्रीसिद्धसेनगणीः ==
अयञ्च 'श्रीसिद्धसेनगणी'-नामको जैनदर्शनशास्त्रेऽतीव लोकोत्तरप्रतिभा भास्वरो विद्वान् खलु अलौकिकवैदुष्यभूषणभूषितः सन् ६०० ईसवीये वर्षे स्वास्तित्वसम्पन्नः 'श्रीभास्वामिपादानां शिष्य आसीत् । अपि चायं महानुभावः ग्रन्थद्वयस्यापि रचनां कृतवान् । तथाहि-१. 'तत्त्वार्थाधिगमसूत्रम्', २. 'तत्त्वार्थटीका' । इत्यनयोयोर्ग्रन्थयोरुपरि महानुभावस्यास्य परिश्रमो दृष्टि गोचरतां गतोऽनुभूयते ।
 
== श्रीअनन्तवीर्यः ==
अयञ्च 'श्रीअनन्तवीर्यः जैनदर्शनेऽलौकिकाऽद्भुतवैदुष्यसमुपार्जनजन्यमह नीयकीर्तिः सन् १०३९ ईसवीये वर्षे स्वीयं जीवनं जैनदर्शनस्य, जैनदार्शनिक विदुषाञ्च सेवायां सम्यक्त्वेन समर्पितवान् । अयमपि महानुभावो जैनदर्शनस्य ग्रन्थद्वयं रचितवान्–'प्रमेयरत्नमाला'-ऽपरनामधेयां परीक्षामुखपञ्जिकाम् । तथा—२. 'न्यायविनिश्चयवृत्तिम्' चेत्यादिग्रन्थानपि रचितवान् ।
 
== श्रीहरिभद्रः ==
अज्ञातकालोऽयं श्रीहरिभद्रः 'कलिकालगौतमे ति नाम्ना प्रसिद्धि गतः सन् 'षड्दर्शनसमुच्चय'-नामकग्रन्थस्याऽत्यन्तमेव सुप्रसिद्धि गतस्य रचनामपि अयमेव विद्वान् कृतवान् ।
 
== श्रीअमितचन्द्रः ==
श्रीअमितचन्द्रोऽपि जैनदर्शनविभूतिभूषणभूषितः प्रभूतो विद्वान् ९०० ईसवीये वर्षे स्वास्तित्वसम्पन्न आसीदिति सर्वेऽपि विदाकुर्वन्ति जैनदार्शनिकाः । अयञ्चापि महानुभावस्त्रयाणां ग्रन्थानां रचनां कृतवान् ।
 
१. 'तत्त्वार्थसारः' ।
 
२. पुरुषार्थसिद्धयुपायः' ।
 
३. 'आत्मख्याति'श्चेति वर्तते जैनदर्शनशास्त्रस्य महती चास्त्युपकृतिः ।
"https://sa.wikipedia.org/wiki/दर्शनानि" इत्यस्माद् प्रतिप्राप्तम्