"भारतीयदार्शनिकाः" इत्यस्य संस्करणे भेदः

1
 
1
पङ्क्तिः २९३:
 
एवं कारणतावादः, मुक्तिवादः, विषयतावादः, सादृश्यवादः, अवच्छेद वादः, पर्याप्तिवादः, आख्यातवादः, नार्थवादः, स्मृतिसंस्कारवादः, कारकवादः, इत्यादयो वादाः सन्ति ।
 
== श्रीअन्नम्भट्टः ==
अयञ्च 'अन्नम्भट्टो' विद्वान् १६५० ईसवीये वर्षे स्वास्तित्वसम्पन्नो न्यायवैशेषिकोभयशास्त्रमहत्त्वप्रदर्शकः प्रद्योतकश्चाऽस्तीति सर्वेऽपि दार्शनिका स्तदतिरिक्ताश्च विद्वांसो विदाङकुर्वन्ति ।
 
श्रीअन्नम्भट्टो विद्वान् दक्षिणप्रदेशान्तर्गत-'आन्ध्र-प्रदेशनिवासी चासीत् । अयमेव च महानुभावो विद्वान् 'तर्कसंग्रह'-नामकं न्यायवैशेषिकोभयविधशास्त्र प्रवेशकारकं द्रव्य-गुण-कर्म-सामान्य-प्रभृतिसप्तपदार्थानां संग्राहक प्रमाण-प्रमेय संशय-प्रयोजनादिषोडशपदार्थानामपि स्वान्त वित्वेन प्रकाशकं ग्रन्थं रचितवान्।
 
अयञ्च 'अन्नम्भट्टः' आन्ध्रप्रदेशं निवसन्नपि 'वैयाकरण' इति महानेवाऽऽ श्चर्यजनकीभूतोऽयं विषयः । मीमांसकश्चाऽप्यासीदिति कृत्वा पदार्थानां संग्राहक ग्रन्थरचनाकर्तृत्वेन न्याय-वैशेषिकोभयविधशास्त्रपारङ्गतत्वेन पूर्णनैयायिको वैयाकरणो मीमांसकश्चाऽऽसीत् ।
 
न्यायशास्त्रे चास्त्यस्येयं प्रसिद्धि: -
 
या 'अन्नम्भट्टेन विदुषा रचितस्तर्कसंग्रहः ।' –तर्कसंग्रहे । तय॑न्त ( प्रमितिविषयीक्रियन्ते ), इति तर्काः, द्रव्य-गुण-कर्मादयः सप्त पदार्थास्तेषां संग्रहः = संक्षेपेण नाम्ना परिगणनपूर्वकं कथनमित्यर्थः ।
 
एतान् सप्त पदार्थानधिकृत्यैव सर्गो जायते नान्यथेति खलु 'अन्नम्भट्टो' ब्रूते । तत्त्वतो विचार्यमाणे सृष्टौ सप्तपदार्थातिरिक्तो नैकोऽपि पदार्थः समनु भूयते । सप्तपदार्थाश्च प्रानिरूपिता अस्माभिः । तत्र द्रव्यं नवविधम्-पृथिव्य प्तेजोवाय्वाकाशकालदिगात्ममनांसीति । तेषां समुदितं लक्षणं द्रव्यत्वजाति मत्त्वम् । गुणसमानाधिकरणसाक्षात् सत्ताव्याप्यजातिमत्त्वं वा । गुणाश्च सन्ति चतुविशतिसंख्याकाः । ते च यथा-'रूप-रस-गन्ध-स्पर्श-संख्या-परिमाण पृथक्त्व-संयोग-विभाग-परत्वापरत्व-बुद्धि-सुख-दुःखेच्छा-द्वेष-प्रयत्नाश्च एवं गुरुत्व-द्रवत्व-स्नेह-संस्कार-अदृष्ट-शब्दाश्चेत्येवं रूपाः चतुर्विंशतिगुणा विज्ञेयाः । लक्षणञ्चैतेषां गुणत्वजातिमत्त्वम् ।
 
कर्माणिपञ्चविधानि भवन्ति । तथाहि-उत्क्षेपण-अपक्षेपण-आकुञ्चन-प्रसारण गमनानि पञ्च कर्माणि । लक्षणन्तु कर्मत्वजातिमत्त्वम् इत्येव समुदितं बोध्यम् ।
 
केचन दार्शनिका दशविधकर्माणि स्वीकुर्वन्ति । तत्र-भ्रमणम्-रेचनम्-स्य न्दनम्-ऊर्ध्वज्वलनम्-तिर्यग्गमनञ्चेति पञ्च ततोऽधिकानि अतिरिक्तानि च कर्माणि सन्ति ।
 
सामान्यञ्च द्विविधम् —पराऽपरभेदात् । तत्र जगदीशतर्कालङ्कारमहोदया स्तृतीयमपि सामान्यं स्वीकुर्वन्ति-१. परं सामान्यं सत्ता, २. अपरं सामान्यं घटत्व-पटत्वादिरूपम् । ३. तृतीयं सामान्यं पराऽपररूपम्, यथा-द्रव्यत्वादि, गुणत्वादिरूपम् ।
 
विशेषाणामनन्तत्वात्, समवायस्य चैकत्वात् कथमपि विभागो न भवितु मर्हति । तल्लक्षणन्तु अन्योऽन्याभावविरोधिसामान्यरहितः समवेतो विशेष इति ।
 
समवायस्तु समवायरहितः सम्बन्धः समवायः । नित्यसम्बन्धत्वं समवाय त्वम् । सम्बन्धत्वं विशिष्टबुद्धि नियामकत्वम् । स च समवाय एक एवेति बोध्यम् ।
 
अभावस्तु द्रव्यादिषट्कान्योऽन्याभाववान् । अभावत्वञ्च द्रव्यादिषट्कान्यो ऽन्याभाववत्त्वम् । अभावत्वमखण्डोपाधिः इत्यपि केचित् ।
 
तत्र नव्या अभावत्वं नाऽखण्डोपाधिः, प्रमाणाभावात् । किन्तु समवाय, एकार्थसमवायोभयसम्बन्धेन सत्ताविशिष्टान्यत्वमभावत्वम् । एकार्थसमवायश्च स्वप्रतियोगिकत्व-स्वप्रतियोगिकसमवायप्रतियोगित्वोभयरूपः इति ध्येयम् ।
 
== श्रीविश्वनाथपञ्चाननः ==
अयञ्च श्रीविश्वनाथपञ्चाननः १५५६ ईसवीये वर्षे स्वस्थिति दृढीकृतः सन्नेव 'कारिकावली'त्यपरनामधेयं 'भाषापरिच्छेद'-नामक ग्रन्थं रचितवान् । अयञ्च ग्रन्थो न्याय-वैशेषिकोभयशास्त्रीयविषयप्रतिपादकत्वेन न्यायवैशेषिको भयशास्त्रसाधारणः परिगण्यते ।
 
तदनन्तरं लम्बायमानकालावच्छेदेन राजीवदयावशंवदः स एव विश्वनाथ पञ्चाननः कारिकावल्या उपरि आहोस्वित्तदपरनामधेयस्य भाषापरिच्छेदस्य वोपरि तट्टीका सिद्धान्तमुक्तावलिञ्च रचितवान् । उक्तञ्च -
 
'''<nowiki/>'निजनिर्मितकारिकावलीमतिसंक्षिप्तचिरन्तनोक्तिभिः ।'''
 
'''विशदीकरवाणि कौतुकान्ननु राजीवदयावशंवदः' ।'''<ref>-प्रारम्भे भाषाप० ।</ref>
 
अपि च श्रीविश्वनाथपञ्चाननः स्वयं ग्रन्थादौ श्रोतृणां प्रवृत्तिकारणीभूत मभिधेयप्रयोजनसम्बन्धाधिकारिस्वरूपमनुबन्धचतुष्टयं दर्शयन् स्वरचितटीकाया नामधेयं समुल्लिखन्नाह -
 
'''<nowiki/>'विष्णोर्वक्षसि विश्वनाथकृतिना सिद्धान्तमुक्तावली।'''
 
'''विन्यस्ता मनसो मुदं वितनुतां सद्युक्तिरेषा चिरम्' ।'''
 
इतः पूर्वभागावच्छेदेनाऽनुबन्धचतुष्टयं दर्शितमनेन चार्धश्लोकात्मकेन पद्येन स्वरचितटीकाया नामधेयं समुल्लिखति विश्वनाथपञ्चाननः 'सिद्धान्तमुक्तावली' इत्यादिना। अयञ्च श्रीविश्वनाथपञ्चाननः सच्चिदानन्दस्याऽऽनन्दकन्दस्य नन्दनन्दनस्य मथुराचन्द्रस्य श्रीकृष्णचन्द्रस्याऽनन्यभक्तिभाजनभूतो बङ्गदेशीयोऽपि सन् वृन्दावने पवित्रतीर्थस्थाने निवसति स्म । अयञ्च श्रीविद्यानिवासस्य विद्वद्वरस्याऽऽत्मज आसीत् । एवमितोऽतिरिक्तविविधटीकानां लेखकश्चासीत् । तासां टीकानां लेखविस्तरभयान्नामधेयं नोल्लिख्यते ।
 
अयञ्च न्यायसिद्धान्तमुक्तावली' नामको ग्रन्थो महामहोपाध्याय-श्री विश्वनाथपञ्चाननभट्टाचार्येण न्यायशास्त्राम्बुराशिना विद्यानिवासभट्टाचार्य स्याऽऽत्मजेनैव स्वयं निरमायि । अयञ्चास्ति ग्रन्थः श्रीविश्वनाथपञ्चाननद्वारा स्वविनिर्मित-'कारिका'-ग्रन्थस्याऽऽधेयभूतः प्रभूतो महानिबन्धरूपो यश्चास्ति बङ्गदेशे रचनाकल्लोलकोलाहल: ।
 
अपि चाऽयं महानिबन्धभूतो ग्रन्थः नानाविध-'दिनकरी-राम रुद्री-प्रभा मञ्जूषा'-लवपुरनिवासिश्रीनृसिंहदेवशास्त्रिविरचितज्ञानाविषयिणी टीका मुकुन्द शर्मविनिर्मित-'अभिनवप्रभा'-सहितस्तथा तत्तत् टिप्पण्या चापि विभूषितः, एवं मया श्रीज्वालाप्रसादगौडेनापि विरचित-कृष्णा-विलासिनी'-संस्कृत-हिन्दी टीकाभ्यां तथा प्राचीन-नवीननैयायिकेतिहासेन सनाथीकृतस्तथा 'गौतमद्वयी' नामिकया भूमिकया भूषितोऽयं कारिकानिरूपितं यत् साहित्यं तादृशसाहित्या वच्छिन्नो न्यायसिद्धान्तमुक्तावलीनामकोऽयं ग्रन्थः समस्तशास्त्राध्येतृणामुपकारं विदधात्वित्येतदर्थं जगन्नाथोऽनाथनाथो भगवान् विश्वनाथो प्रवृत्तिमार्गगामिना मया शशिबालागौडेन भूयो भूयः सम्प्रार्थ्यते ।
 
अयमपि विश्वनाथः सप्तपदार्थानेव निरूपितवान् स्वीय-न्यायसिद्धान्तमुक्ता वलि-नामके ग्रन्थे । अस्मिन्नपि ग्रन्थे द्रव्य-गुण-कर्म-सामान्य-विशेष-समवाया ऽभावानां सप्तानामेव पदार्थानां निरूपणं कृतवान् विश्वनाथपञ्चाननभट्टाचार्यो महामनीषी नैयायिकः । पदार्थानां विवेचनक्रमस्तर्कसंग्रहोक्तदिशा विज्ञेयः । लक्षणानि अपि तयैव दिशा बोध्यानि ।
 
== सम्बद्धाः लेखाः ==
"https://sa.wikipedia.org/wiki/भारतीयदार्शनिकाः" इत्यस्माद् प्रतिप्राप्तम्