"धर्मशास्त्रम्" इत्यस्य संस्करणे भेदः

No edit summary
धर्मशास्त्रम्
पङ्क्तिः ३४:
*श्रुतिः स्मृतिः सदाचारः स्वस्य च प्रयमात्मनः ।
सम्यक् सङ्कल्पजः कामो धर्ममूलमिदं स्मृतम् ॥ या १,७
 
== धर्मस्य उद्भव: विकासश्च ==
धर्मो विश्वस्य जगतः प्रतिष्ठा । लोके धर्मिष्ठं प्रजा उपसर्पन्ति । धर्मेण पापमपनुदन्ति । धर्मे सर्वं प्रतिष्ठितम् । तस्माद् धर्मं परमं वदन्ति<ref>तै. आर. १०-६३ , महानारायणोपनिषदि च</ref> ।
 
विश्ववासिनां जनानामभ्युदयनिःश्रेयससिद्ध्यर्थं जगति विराजमानस्य धर्मस्य महती प्रतिष्ठा । स्वावयवार्थप्रतिपादकत्वेऽपि धर्मशब्द: भारतीयानां प्राणभूतवेदस्य बहुत्र बहुष्वर्थेषु प्रयुक्तः । भारतीयाः सनातनधर्मं दृढं विश्वसन्ति । तदनुसारं वेद एव हिन्दुसंस्कृतेः प्राचीनप्रमाणरूपेण स्वीकृतः। भारतीया: वेदानां नित्यत्वमपि विश्वसन्ति । यतः सोऽयं धर्मो वेदप्रतिपाद्य इति वेद एव सर्वस्व मास्तिकधुरन्धराणाम् । वैदिककाले नरा: यज्ञैर्देवान् सन्तोष्य धर्ममार्गे आसन् । देवानां सन्तोषाय यज्ञान् विधाय धर्ममार्ग दृढीचक्रुः। ततस्तदानीं यज्ञ एव मुख्यधर्म आसीत् ।<ref>यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन्। जति शु.यजु.३१-१६. bp</ref>
 
भगवताऽऽदिष्टत्वाद्वेदस्य श्रुतिसंज्ञा मन्वादिभिः प्रकटिता। वेदस्य परम प्रामाण्य सवैः स्मृतिकारैः मन्वादिभिरपि स्वीकृतमस्ति । तदनन्तरञ्च स्मृतयः वेदमूलकत्वेन धर्म प्रामाण्यमधिकुर्वन्ति । ऋग्वेदे<ref>३.क) इममञ्जस्पामुभये अकृण्वत धर्माणम'''ग्निं विदथस्य साधनम् ।''' ऋग्. १०-९२-२.</ref> धर्मशब्दः प्रायश: धारणार्थे पालनार्थे च पुंलिङ्गे एव प्रयुक्तः -
 
'''क) इममञ्जस्पामुभये अकृण्वत धर्माणमग्निं विदथस्य साधनम् ।'''<ref>'''ऋग्. १०-९२-२.'''</ref>
 
'''ख) त्वे धर्माण आसते जुहूभिः सिञ्चतीरिव ।'''<ref>'''ऋग्. १०-२१- ३.'''</ref>
 
यजुर्वेदे धर्मन्शब्द: धारणार्थे धारकार्थे च दृश्यते -
 
'''क) मित्रावरुणौ त्वोत्तरतः परिधत्तां ध्रुवेण धर्मणा विश्वस्यारिष्ट्यै'''
 
'''यजमानस्य परिधिरस्यग्निरिड ईरितः।।'''<ref>'''वाज. सं. २-३.'''</ref>
 
'''ख) उद्दिवं स्तभानान्तरिक्षं पृण दंहस्व पृथिव्यां द्युतानस्त्वा मारुतो'''
 
'''मिनोतु । मित्रावरुणौ ध्रुवेण धर्मणा ॥'''<ref>'''वाज. सं. ५-२७'''</ref>
 
'''पितुं नु स्तोषं महो धर्माणं तविषीम् ।'''<ref>'''शु. यजु. ३४-७.'''</ref>
 
ऋग्वेदे यजुर्वेदेऽपि बहुषु स्थलेषु धार्मिकविधिषु क्रियासंस्कारेषु च धर्मशब्द: नपुंसकलिङ्गेऽपि प्रयुक्तः -
 
'''क) त्रीणि पदा विचक्रमे विष्णुर्गोपा अदाभ्यः।'''
 
'''का अतो धर्माणि धारयन् ॥'''<ref>'''ऋग् . १-२२-१८.'''</ref>
 
'''ख) समिधानः सहस्रजिदग्ने धर्माणि पुष्यसि ।'''
 
'''देवानां दूत उक्थ्यः ॥'''<ref>'''ऋग् . ५-२६-६.'''</ref>
 
'''तानि धर्माणि प्रथमान्यासन् ।'''<ref>शु.यजु . ३१-१६. .</ref>
 
अथर्ववेदे धर्मशब्दः धार्मिकक्रियाजनित गुणार्थे प्राप्यते -
 
'''ऋतं सत्यं तपो राष्ट्र श्रमो धर्मश्च कर्म च ।'''
 
'''भूतं भविष्यदुच्छिष्टे वीर्यं लक्ष्मीर्बलं बले ॥'''<ref>अथर्व. ९-९-१७.</ref>
 
एते धर्मस्य गुणाः खलु मानवसमाजस्य विकाशनस्य बीजम् । अनन्तरञ्च ब्राह्मणग्रन्थेष्वपि धर्मशब्द: बहुवारं प्रयुक्तः। तत्र ऐतरेयब्राह्मणे धर्मशब्दः सकलधार्मिककृत्येषु व्यवहृतः -
 
'''धर्मस्य गोप्ताजनीति तमभ्युत्कृष्टमेवं ।'''
 
'''विदभिषेक्ष्यन्नेतयार्चाऽभिमन्त्रयेत।'''<ref>'''ऐत. ब्रा. ७-१७.'''</ref>
 
छान्दोग्योपनिषदपि धर्मस्य महत्त्वपूर्णमर्थं व्यनक्ति -
 
'''त्रयो धर्मस्कन्धा यज्ञोऽध्ययनं दानमिति प्रथमस्तप एवेति द्वितीयो ब्रह्मचार्याचार्यकुलवासी तृतीयोऽत्यन्तमात्मानमाचार्यकुलेऽवसादयन् । सर्व एते पुण्यलोका भवन्ति ब्रह्मसंस्थोऽमृतत्वमेति।'''<ref>छान्दो. उप. २-२३.</ref>
 
तदनुसारं धर्मः यज्ञाध्ययनदानार्थेष्वभिहितः । ताश्च दानादिशाखा: ब्रह्मचारि-गृहस्थ- वानप्रस्था ख्यमाश्रमत्रयमभिव्याप्य तिष्ठन्ति । अत्र पुनः धर्मशब्द आश्रमाणां विलक्षण कर्तव्येषु संकेतितः । तैत्तिरीयोपनिषद्यपि धर्मशब्द: नियमाचरणाय निर्दिष्टः -
 
'''सत्यं वद धर्मं चर।'''<ref>'''तैत्ति. उप. २-२३.'''</ref>
 
एवमेवासौ समयानुसारं परिवर्तितो भूत्वाऽन्ते च मानवस्य विशेषाधिकारेषु, कर्त्तव्येषु, नियमेषु, आचारविधौ च प्रसिद्धो जातः।
 
अनन्तरञ्च स्मृतिकाले धर्मशब्द: पूर्णविकाशमभजत । तत्र सर्वत्र धर्मशब्दः पुंलिङ्गे एव दर्शितः । तस्यैव विशेषव्याख्यानाद् धर्मशास्त्रमिति नाम । तस्मिन् काले परमाराध्य: वैदिककालस्य पूज्य: स्मार्त्तधर्मस्य प्रतिष्ठापक: मनुः धर्मस्य सुस्पष्टं गाम्भीर्यपूर्णमर्थं प्राकाशयत् -
 
'''विद्वद्भिः सेवितः सद्भिर्नित्यमद्वेषरागिभिः ।'''
 
'''हृदयेनाभ्यनुज्ञातो यो धर्मस्तं निबोधत ॥'''<ref>मनुस्मृ. २-१.</ref>
 
तस्य मतमिदं यद् विद्वांस: विचारपूर्वकं यानि कर्माणि सर्वदा आचरन्ति तान्येव धर्मपदेनाख्यायन्ते । अन्यत्र च वानप्रस्थाश्रमप्रकरणे मनुः साधारणधर्मस्य परिभाषायां धृत्यादीन् दशगुणान् धर्मस्य लक्षणत्वेन व्याचख्ये -
 
'''धृतिः क्षमा दमोऽस्तेयं शौचमिन्द्रियनिग्रहः ।'''
 
'''धीविद्या सत्यमक्रोधो दशकं धर्मलक्षणम् ॥'''<ref>मनुस्मृ. ६-९२.</ref>
 
स धर्मस्य मूलत्वेन वेदं स्वीकृत्यापि पुन: स्मृतिसदाचारा त्मतोषान् त्रीन् धर्ममूलत्वेन प्रत्यपादयत् । एतेषां चतुर्णां धर्ममूलानां प्रामाण्यं स्वीकृत्य प्राय: सर्वे स्मृतिकाराः धर्मलक्षणानि कृतवन्तः। मनुमहर्षेरनन्तरं स्मृतिकारेषु सम्मानास्पदः स्मृतिकारः याज्ञवल्क्य:१४ धर्मलक्षणे श्रुतिस्मृति सदाचारात्मतोषान् प्रमाणीकृतवान् -
 
'''श्रुतिः स्मृतिः सदाचारः स्वस्य च प्रियमात्मनः।'''
 
'''सम्यक् संकल्पजः कामो धर्ममूलमिदं स्मृतम् ॥'''<ref>याज्ञ. स्मृ. १-७.</ref>
 
वसिष्ठ-आपस्तम्ब-बौधायन-गौतम -हारीतादयः धर्मसूत्रकारा अपि धर्मप्रमाणेषु श्रुतेः प्राथम्यं स्वीकृत्यानन्तरं स्मृतेः प्रामाण्यं स्वीकृतवन्तः -
 
'''श्रुतिस्मृतिविहितो धर्मः । तदलाभे शिष्टाचार: प्रमाणम् ।'''
 
'''शिष्टः पुनरकामात्मा।'''<ref>'''वसि. धर्म. १/४-६.'''</ref>
 
'''धर्मज्ञसमयः प्रमाणम् । वेदाश्च ।'''<ref>'''आप. धर्म. १-१-१ ,२.'''</ref>
 
'''उपदिष्टो धर्मः प्रतिवेदम् । स्मार्तो द्वितीयः।'''
 
'''तृतीयः शिष्टाचारः।''' <ref>'''बौधा . धर्म . १-१-१ , ३-४'''</ref>
 
'''वेदो धर्ममूलम् । तद्विदां च स्मृतिशीले।''' <ref>'''गौ. धर्म. १-१-१, २.'''</ref>
 
'''श्रुतिप्रमाणको धर्मः । तदभावे स्मृतिः ।'''<ref>'''हारीतः, मन्वर्थमु. (मनु.२-१)'''</ref>
 
अन्येषां विश्वामित्र-विष्णु-बृहस्पति-देवल-शंखलिखित-यमस्मृतीनां धर्मलक्षणान्यपि विभिन्ननिबन्ध ग्रन्थेषूदाहृतानि दृश्यन्ते -
 
'''यमार्याः क्रियमाणं हि शंसन्त्यागमवेदिनः।'''
 
'''स धर्मो यं विगर्हन्ति तमधर्मं प्रचक्षते ॥'''<ref>'''विश्वामित्रः , कृ. र. पृ -७.'''</ref>
 
'''क्षमा सत्यं दमः शौचं दानमिन्द्रियनिग्रहः ।'''
 
'''अहिंसा गुरुशुश्रूषा तीर्थानुसरणं दया ॥'''
 
'''आर्जवं लोभशून्यत्वं देवब्राह्मणपूजनम् ।'''
 
'''अनभ्यसूया च तथा धर्म: सामान्य उच्यते ॥'''<ref>'''विष्णुः, कृ. र., पृ- १४.'''</ref>
 
'''दया क्षमाऽनसूया च शौचानायासमङ्गलम् ।'''
 
'''अकार्पण्यास्पृहत्वञ्च सर्वसाधारणानि च ॥'''<ref>'''बृहस्पतिः, कृ. र. पृ - १४.'''</ref>
 
'''शौचं दानं तपः श्रद्धा गुरुसेवा क्षमा दया।'''
 
'''विज्ञानं विनयः सत्यमिति धर्मसमुच्चयः॥'''<ref>'''देवलः , कृ. र., पृ. १४.'''</ref>
 
'''देशः काल उपायो द्रव्यं श्रद्धा पात्रं त्याग इति समस्तेषु धर्मोदय:'''
 
'''साधारणोऽन्यथा विपरीतः।'''<ref>'''शंखलिखितौ , कृ. र., पृ - ४१.'''</ref>
 
'''वेदाः प्रमाणं स्मृतयः प्रमाणं , धर्मार्थयुक्तं वचनं प्रमाणम् ।'''
 
'''यस्य प्रमाणं न भवेत् प्रमाणं , कस्तस्य कुर्याद्वचनं प्रमाणम् ॥<ref>यमः, कृ.र.,पृ- ४०.</ref>'''
 
एते सर्वे मनूक्तं साधारणधर्ममनुसृत्य धर्मलक्षणं व्याख्यान्ति।
 
अन्येऽपि शास्त्रकाराः धर्मस्य महत्त्वमनुभूय तस्य लक्षणाकरणेन स्वशास्त्रस्य मर्यादाहानिभयाद् धर्मस्य लक्षणं कृतवन्तः। तेषु वेदमीमांसाकारो जैमिनिः स्वशास्त्रस्य प्रारम्भ एव धर्मलक्षणं कृतवान् । तन्मते वैदिकमन्त्रोपदेशानुष्ठितकर्मभिरुत्पादितं पुण्यमेव धर्मः। वैशेषिकशास्त्रमपि येन कर्मणा इहलौकिक-पारलौकिककल्याणसिद्धिः भवति स एव धर्म इति धर्मलक्षणं बबन्ध । योगशास्त्रमपि धर्मप्रभावादेव विश्वस्य स्थितिः सम्भाव्यत इति प्रतिपादयति । शास्त्रोपदिष्टं यागादि कर्म एव धर्म इति केचित् । विहितकर्मजन्योऽपूर्वविशेषो धर्म इत्यपरे । विहितकर्मजन्यापूर्वजन्यो धर्म इति अन्ये । विधेयत्वेनोपदिष्टमपि धर्मः। यथा ब्रह्मचारिधर्मः । विहितानुष्ठानं निषिद्धवर्जनं च धर्म इति शास्त्रकाराः -
 
'''चोदनालक्षणोऽर्थो धर्मः।'''<ref>'''पूर्वमी., १-१-२.'''</ref>
 
'''अथातो धर्मं व्याख्यास्यामः। यतोऽभ्युदयनिःश्रेयससिद्धिः स धर्मः।'''<ref>'''वैशे.सू. १-१-१,२. २८.'''</ref>
 
'''निरालम्बा निराधारा विश्वाधारा वसुन्धरा ।'''
 
'''यच्चावतिष्ठते तत्र धर्मादन्यन्न कारणम् ॥'''
 
'''आप्लावयति नाम्भोधिराश्वासयति चाम्बुदः।'''
 
'''जन्महिंसाप्रभावोऽयं ध्रुवं धर्मस्य नेतरः।'''<ref>'''यो. शा., ४-९६.'''</ref>
 
अनन्तरं महाभारतकाले धर्मस्य विशेषत: प्रशंसाभिवृद्धिरजायत। सर्वेषु पुराणेषु धर्मः मुख्यध्येयरूपेण स्तुतिमवाप । महाभारतस्यारण्यक-वन-कर्ण-शान्तिपर्वसु धर्मस्वरूपं विवेचितम्। गरुडपुराण-भागवतादिषु आत्मतुष्टिं विनाऽन्यानि मनूक्तानि प्रमाणानि धर्मलक्षणे अन्तर्भावितानि। पुनश्च केचन धारणाद् धर्म इति लक्षणमपि प्रस्तुवन्ति -
 
'''वेदोक्तः परमो धर्मो धर्मशास्त्रेषु चापरः ।'''
 
'''शिष्टाचीर्णश्च शिष्टानां त्रिविधं धर्मलक्षणम् ।।'''<ref>'''महाभा.आर. ११८- ७८.'''</ref>
 
'''आनृशंस्यं परो धर्मः। महाभा. वन. ३७३-७६.'''
 
'''धारणाद् धर्ममित्याहुः धर्मो धारयते प्रजाः।'''<ref>'''महाभा. कर्ण. ४९-५०.'''</ref>
 
'''सदाचारः स्मृतिर्वेदास्त्रिविधं धर्मलक्षणम् ।'''
 
'''चतुर्थमर्थमित्याहुः कवयो धर्मलक्षणम् ॥'''<ref>'''महाभा. शान्ति. अ. ८६.'''</ref>
 
'''श्रुत्युक्तः परमो धर्मो स्मृतिशास्त्रगतोऽपरः।'''
 
'''शिष्टाचारेण शिष्टानां त्रयो धर्मोः सनातनाः॥'''<ref>'''गरु. पु. १/२०५/४.'''</ref>
 
स्मृतिकालानन्तरं तत्परवर्त्तिभिः निबन्धकारैः ऋषीणां धर्मलक्षणानि सम्यग् व्याख्याय तेषां निगूढार्थः प्रकाशितः। कोशेष्वपि धर्मशब्दः बहुधा व्याख्यातः। तत्र धर्मशब्दस्य जीवाचार- वस्तु- गुण- रूप-स्वभाव- यागाद्यहिंसा न्यायोपनिषद्यम- सोमाध्यायी- सत्संग-दानाद्यर्थेषु व्यवहार: दृश्यते । अमरसिंहस्तु विश्वं धर्म: धारयति, जनाः धर्मं धारयन्तीति धर्मशब्दं व्युत्पादितवान्। मेदिनीकोष-हैमकोषयोस्तु पुण्यार्थे धर्मशब्दः प्रयुक्तः -
 
'''वेदप्रणिहितो धर्मो ह्यधर्मस्तद्विपर्ययः।।'''<ref>'''भाग. ६-१-४०.'''</ref>
 
'''धरति विश्वमिति। धरति लोकान् ध्रियते वा जनैरिति ।'''<ref>'''अमर.१-६-३.'''</ref>
 
'''धर्मोऽस्त्री पुण्य आचारे स्वभावोपमयोः क्रतौ ।'''
 
'''अहिंसोपनिषन्याये नाधनुरभिसोमपे ।'''<ref>'''मेदिनी., १०९ -१६.'''</ref>
 
'''सुकृते पावने धर्मे ।'''<ref>'''हैमको . २-३७५."'''</ref>
 
== धर्मभेदाः ==
का नानालक्षणविशिष्टोऽसौ धर्म आचरणदृष्ट्या बहुभिः बहुधा विभक्तः। धर्म आचरणसंहितासंज्ञार्हत्वाद् द्विधा विभज्यते। मत्स्यपुराणे३८ पराशर माधवीयादिषु श्रौतस्मार्त्तभेदेन धर्मः द्विधा विभक्तः । तत्र श्रौतधर्म: त्रिविधः । इष्टिः, पशुयागः, सोमयागश्चेति । तत्रौषधिप्रधानयागः इष्टिः । ओषधिभिः यवब्रीहि- प्रभृतिभिः पुरोडाशं निर्माय या दर्शपौर्णमासेष्टिः सम्पाद्यते सा प्रथमप्रकारक: यागः । पशुयागे प्रधानतः पशुः, सोमयागे च सोम एव समर्प्यते। पशुयागे पशोरङ्गानि वपाहृदयादीनि देवताभ्य: समर्प्यन्ते । सोमयागे च सोमलतायाः काशात् सोमरसं निष्कास्य तेनैव द्रव्येण सोमयागोऽनुष्ठीयते। यागः प्रकृति वकृतिभेदेन द्विविधः। प्रकृतियागोऽपि त्रिविधः । सर्वासामिष्टीनां प्रकृतियाग: भवति र्शपौर्णमासः। सर्वेषां पशुयागानां प्रकृतिरग्नीषोमीययागः। सर्वेषां सोमयागानां कृतिश्चाग्निष्टोमसोमयागो भवति । एतदतिरिक्ता: यागा: विकृतिसंज्ञा धारयन्ति -
 
'''दाराग्निहोत्रसम्बन्धमिज्या श्रौतस्य लक्षणम् ।'''
 
'''स्मार्तो वर्णाश्रमाचारो यमैश्च नियमैर्युतः ॥'''<ref>'''मत्स्यपु . १४४/३०'''</ref>
 
'''अग्न्याधानादिपूर्वकोऽधीतप्रत्यक्षवेदमूलो दर्शपौर्णमासादिः श्रौतः।।'''
 
'''अनुमितपरोक्षशाखामूलः शौचाचमनादि: स्मार्त्तः ।'''<ref>'''परा.माध. १/६४.'''</ref>
 
'''उपदिष्टो धर्मः प्रतिवेदम् । स्मार्तो द्वितीयः।'''
 
'''तृतीय: शिष्टागमः॥'''<ref>'''बौ. ध. सू. १/१/२-४.'''</ref>
 
'''वेदोक्तः परमो धर्मः स्मृतिशास्त्रगतोऽपरः।'''
 
'''शिष्टाचीर्णः परः प्रोक्तस्त्रयो धर्माः सनातनाः।'''<ref>'''अनुशा. १४१/६५.'''</ref>
 
'''वेदोक्तः परमो धर्मः धर्मशास्त्रेषु चापरः।।'''
 
शास्त्रकाराः श्रौतधर्मे वैदिकसंहितासु ब्राह्मणग्रन्थेषु वर्णितानां र्शपौर्णमासादि-यज्ञानां समावेशं कुर्वन्ति । स्मार्त्तधर्मे विशेषतः मृतिप्रतिपादितान् वर्णाश्रमसम्बन्धिशौचाचमननियमानन्तर्भावयन्ति । सौधायनधर्मसूत्र-अनुशासनपर्व-शान्तिपर्वादिषु च धर्म: दस्मृतिशिष्टागमप्रतिपाद्यरूपेण त्रिधा वर्णितः। हेमाद्रि-विज्ञानेश्चरादयः धर्म विष्यपुराणदृष्ट्या षोढा विभजन्ति । यथा - वर्णधर्मः, आश्रमधर्म:, र्णाश्रमधर्मः, गुणधर्मः , निमित्तधर्म:, साधारणधर्मश्च। तत्र वर्णधर्मः यथा साह्मणो नित्यं सुरां विवर्जयेत् । आश्रमधर्मः ब्रह्मचारी नित्यं दण्डं गृह्णीयात्। वर्णाश्रमधर्मः - ब्राह्मणः ब्रह्मचारी पलाशदण्डं गृह्णीयात् । गुणधर्मः - राज्ञः जापालनम्। निमित्तधर्मः - विहितस्याननुष्ठाने प्रतिषिद्धकर्मकरणे च प्रायश्चित्तम्। साधारणधर्म: अस्तेयाहिंसादयः ।
 
 
साधारणधर्मोऽपि मनुस्मृति-विष्णुस्मृति-महाभारतादिषु वस्तृततया वर्णितः । मेधातिथिः भविष्योक्त्यनुसार सामान्यधर्मं विहाय पञ्चधा प्रतिपादयति। मनु:४९ लोकप्रचलितधर्मं महत्वमर्पयति । अत: लोकप्रसिद्ध धर्म केचन बहुधा प्रतिपादयन्ति । मनुस्मृति-आनुशासनिकपर्व-देवीभागवत-पराशरमाधवीयादिषु देशधर्म - जातिधर्म - कुलधर्म - गुणधर्म - वयोधर्म - शरीरधर्म - कालधर्म - आपद्धर्म - ग्राम्यधर्म - युगधर्मादीनां विभागाः दर्शिताः।
 
'''वर्णधर्मः स्मृतस्त्वेक आश्रमाणामतः परम् ।'''
 
'''near वर्णाश्रमस्तृतीयस्तु गौणो नैमित्तिकस्तथा ।।'''
 
'''वर्णत्वमेकमाश्रित्य यो धर्मः सम्प्रवर्त्तते ।'''
 
'''वर्णधर्मः स उक्तस्तु यथोयनयनं नृप ।'''
 
'''आश्रमञ्च समाश्रित्य यो धर्मः सम्प्रवर्त्तते । ।'''
 
'''स खल्वाश्रमधर्मस्तु भिक्षादण्डादिको यथा ।'''
 
'''वर्णत्वमाश्रमत्वञ्च योऽधिकृत्य प्रवर्त्तते ।'''
 
'''स वर्णाश्रमधर्मस्तु स्यान्मौजी मेखला तथा॥'''
 
'''यो गुणेन प्रवर्तेत गुणधर्मः स उच्यते ।'''
 
'''यथा मूर्धाभिषिक्तस्य प्रजानां परिपालनम् ॥'''
 
'''निमित्तमेकमाश्रित्य यो धर्मः सम्प्रवर्त्तते ।'''
 
'''नैमित्तिकः स विज्ञेयः प्रायश्चित्तविधिर्यथा ॥'''
 
'''साधारणधर्म: महाभारते विष्णुधर्मसूत्रे च वर्णितः ।''' <ref>'''चतु.चिन्ता.व्रत.१-४.'''</ref>
 
'''मिता., याज्ञ. स्मृ.,'''<ref>'''१-१. ४५.'''</ref>
 
'''अहिंसा सत्यमस्तेयं शौचमिन्द्रियनिग्रहः ।'''
 
'''एतं सामासिकं धर्मं चातुर्वण्योऽब्रवीन्मनुः॥'''<ref>'''मनुस्मृ. १०-६३.'''</ref>
 
'''क्षमा सत्यं दमः शौचं दानमिन्द्रियसंयमः ।'''
 
'''अहिंसा गुरुशुश्रूषा तीर्थानुसरणं दया ॥'''
 
'''आर्जवं लोभशून्यत्वं देवब्राह्मणपूजनम् ।'''
 
'''अनभ्यसूयता तथा धर्मः सामान्य उच्यते ॥'''<ref>'''विष्णुस्मृ., २''/''१६, १७'''</ref>
 
'''श्राद्धकर्म तपश्चैव सत्यमक्रोध एव च ।'''
 
'''स्वेषु दारेषु सन्तोषः शौचं नित्यानसूयता ॥'''<ref>'''महाभारते'''</ref>
 
'''मेधातिथिभाष्ये'''<ref>'''(मनु . २/२५)'''</ref> <ref>'''मनु . २-२५.'''</ref>
 
'''धर्म जिज्ञासमानानां प्रमाणं परमं श्रुतिः।'''
 
'''द्वितीयं धर्मशास्त्रं तु तृतीयं लोकसंग्रहः॥'''<ref>'''सत्सि. पृ -४६८.'''</ref>
 
'''देशधर्मान् जातिधर्मान् कुलधर्मांश्च शाश्वतान् ।'''
 
'''जो पाखण्डगुणधर्मांश्च शास्त्रेऽस्मिन्नुक्तवान् मनुः ॥'''<ref>'''मनु., १-११८.'''</ref>
 
'''धर्माः बहुविधा लोके श्रुतिभेदमुखोद्भवाः।'''
 
'''देशधर्माश्च दृश्यन्ते कुलधर्मास्तथैव च ॥'''
 
'''जातिधर्माः वयोधर्माः गुणधर्माश्च शोभने ।'''
 
'''शरीरकालधर्माश्च आपद्धस्तिथैव च।'''
 
'''एतद्धर्मस्य नानात्वं क्रियते लोकवासिभिः ॥'''<ref>'''महाभा. अनुशा., परा. माध. १''/७४''.'''</ref>
 
'''५३. ग्रामधर्मा जातिधर्माः देशधर्माः कुलोद्भवाः ।'''
 
'''परिग्राह्या नृभिः सर्वैः नैव तान् लङ्घयेन्मुने ।'''<ref>'''देवीभा., १-१-१७.'''</ref>
 
'''५४. कृतेऽभूत् सकलो धर्मस्त्रेतायां त्रिपदः स्थितः।'''
 
'''पादः प्रविष्टोऽधर्मस्य मत्सरः द्वेषसम्भवः ॥'''
 
'''धर्माधौ समौ भूत्वा द्विपादौ द्वापरे स्थितौ ।'''
 
'''तिष्येऽधर्मस्त्रिभिः पादैः धर्मः पादेन संस्थितः ।।'''<ref>'''परा. माध., ''१/''७५.'''</ref>
 
एते धर्माः कदाचिदपि परिवर्तिताः सन्त: युगधर्मादिवत् वैरूप्यं धारयन्ति। युगधर्मा अपि कृतयुगे यथावदनुष्ठिताः भवन्ति । युगसामर्थ्येन त्रेतादिषु क्रमेण क्षीयमाणाः धर्माः कलियुगावसाने सर्वात्मना विनष्टाः भवन्ति। एते धर्माः लोकाचाररूपा: न कदापि अनादरणीयाः भवेयुः । एतेषु नानाविधेषु धर्मविभागेषु वर्तमानेषु लोकाचारनिमित्तमावश्यकनियमाः प्राधान्येन एषु धर्मेष्वन्तर्भुक्ताः। मुनिभिः प्रतिपादितेष्वाश्रमेष्वेव एते सर्वे धर्मा: अन्तर्भाविताः। तथापि गौतम-बौधायनादयः जातिदेशधर्मादीनां परस्परं विप्रतिपत्तिनिवारणाय तेषां पृथक् स्वरूपं स्पष्टीकृतवन्तः।
 
== धर्मस्य मुख्यपुरुषार्थत्वम् ==
स्वाभिलाषानुरूपाणि पुरुषप्रयोजनानि चतुर्द्धा विभज्यन्ते। ते च पुरुषार्था: शास्त्रेषु धर्मार्थकाममोक्षभेदेन चतुर्धा प्रतिपादिताः। अपौरुषेयस्य वेदस्यानुमापकतया स्मृत्यादीनामपि वेदानुकरणेन धर्मे प्रामाण्याद् धर्मशास्त्रं पुरुषार्थचतुष्टयस्य प्रमुख प्रतिपादकम् । जीवनस्य सर्वेषु कालेषु धर्मस्य प्रभावः साक्षात् परम्परया वा वर्त्तते । अतः पुरुषार्थचतुष्टयेषु धर्मस्य श्रेष्ठत्वं सर्वे: स्वीक्रियते। पुरुषार्थेषु पुरुषस्य प्रवृत्तिः सुखायैव भवति । जीवमात्रस्य सुखमत्यन्तमभीष्टम् । तस्माद् धर्मार्थकामा: पुरुषार्थाः प्रथमत आहरणीयाः। अनन्तरमनायासेनैव मोक्ष: सिद्ध्यति । एतेषां पुरुषार्थानां नियन्त्रकः धर्मः। पुनश्च सकामभावेन धर्माचरणं न कृत्वा निष्कामभावेन कुर्यात् । अर्थोपार्जन त्यागाय, कामसेवनं पुन: शरीररक्षणायैवाऽऽचरणीयम्। एतेषां धर्मार्थकामानां पुरुषार्थत्रयाणां विशुद्धाचरणेन मोक्षप्राप्ति म चतुर्थः पुरुषार्थ:५५ सिद्ध्यति । चतुर्वर्गेऽर्थकाममोक्षाणां पुरुषार्थानां मूल: धर्मः।
 
'''तत्रापि मोक्ष एवार्थ आत्यन्तिकतयेष्यते ।'''
 
'''त्रिवर्गोऽर्थो यतो नित्यं कृतान्तभयसंयुतः ॥'''<ref>भाग., ४-२२-३५</ref>
 
पुरुषार्थचतुष्टयस्य विशदविवरणं धर्मशास्त्रे एव प्राधान्येन प्राप्यते । सर्वेषु विषयेषु पुरुषार्था: प्राधान्येन वर्ण्यन्ते। यत: धर्मशास्त्रं शृङ्खलितजीवन धारणायैवोपदिष्टम् । अतः मनुष्यस्य परमाकाङ्कितपुरुषार्थानां वर्णनं तत्रैव सन्निविष्टम् । प्रथमत: 'सत्यं वद , धर्मं चर' इत्यादिना धर्मस्य, तथा शरीरस्य विना क्लेशं, सत्यपथे स्थित्वा श्ववृत्त्यादिवर्जनपूर्वकं धनार्जनं विधेयमि त्यादिनाऽर्थस्य , पर्वकालं विहाय स्त्रियां रतिवासनां प्रपूरयेदित्यादिना कामस्य, पुनश्च 'सर्वमात्मनि संपश्येदि'त्यादिना मोक्षस्य वर्णनं भवति ।
 
यथा - धर्मपालनं ब्रह्मचर्याश्रमे मुख्यतया विहितम् । गृहस्थाश्रमे धर्योपायेनार्थ कामयोरर्जन सेवनञ्च विहितम् । पुनश्च वानप्रस्थाश्रमे संन्यासाश्रमे च मोक्षे चित्त निवेश्य कामार्थौ परित्यज्य च धर्मपालनमुपदिष्टम् । तत्रापि धर्ममात्रं यथायोगं सर्वेषां साधनम् । अतः प्रवृत्तिनिवृत्त्यात्मकतया द्विविधस्यापि५६ धर्मस्य पुरुषार्थसाधनतोक्ता । धर्मादेवेहलौकिकं पारलौकिकं च सुखं जायते । अत: पुरुषार्थचतुष्टयप्राप्तये धर्मशास्त्रमेव सर्वथाऽऽदरणीयं सर्वेषाम् ।
 
'''प्रवृत्तं च निवृत्तं च द्विविधं कर्म वैदिकम् ।'''<ref>मनुस्मृ., १२-८८.</ref>
 
धर्मस्य महत्त्वं सर्वजनविदितम्। अनियतेऽपि संसारे धर्मस्यैव नियतत्वं सर्वैरनुभूयते। अतस्तस्य प्रतिपादकशास्त्रत्वेन धर्मशास्त्रस्य महत्त्वमत्यन्तं राजते। धर्मशास्त्रमेव मानवचरित्रस्य नियामकम् । धर्मशास्त्रस्योद्देश्य प्रत्यक्षसिद्धम् । मनुष्य: स्वाभिलषितपदार्थान् यस्मात् प्राप्तुं शक्नोति, तस्य प्रतिपादनमेव धर्मशास्त्र स्योद्देश्यम्। धर्मः परलोकेऽपि कर्मानुसारं फलं ददाति। अत: परलोकविश्वास: हिन्दुधर्मस्य मुख्याधारः। मनुष्यस्य मरणकाले यद्यपि प्रियजनेषु न कोऽपि सहायको भवति तथाऽप्यसौ धर्म एक एव तमनुसरतीत्येव धर्मस्य नित्यसहायकत्वं वैशिष्ट्यञ्च -
 
'''प्रवृत्तं च निवृत्तं च द्विविधं कर्म वैदिकम् ।'''<ref>'''मनुस्मृ., १२-८८.'''</ref>
 
'''एक एव सुहृद्धर्मो निधनेऽप्यनुयाति यः।'''
 
'''शरीरेण समं नाशं सर्वमन्यद्धि गच्छति ॥'''<ref>'''मनुस्मृ. ८-१७.'''</ref>
 
'''धर्माद्राज्यं धनं सौख्यमधर्माद् दुःखसम्भवः।'''
 
'''तस्माद् धर्मं सुखार्थाय कुर्यात् पापंच कीर्तयेत् ॥'''<ref>स्कन्दपु., चतु. चिन्ता. व्रत. १''/''१४.</ref>
 
वेदोपनिषत्स्वपि धर्मस्य माहात्म्यं प्रतिपादितम् । धर्मं विना विश्वस्य स्थितिरपिन सम्भवति। श्रुतिस्मृतिप्रतिपादितधर्माणामाचरणं कृत्वा मानवः परत्रेह च सुखस्याधिक्यं फलं प्राप्तुमर्हति । स्कन्दपुराणमपि धर्मस्य प्रशंसां कृत्वा धर्माद्राज्यधनसुखादीनां प्राप्तिर्भवतीति प्रतिपादयति । चतुर्वर्गचिन्तामणौ धर्मादेवेतरपुरुषार्थसिद्धि: वर्णिता । धर्मः रक्षितो रक्षकं रक्षति । य: धर्महानिं करोति धर्मोऽपि तं नाशयति । अत: सर्वथा धर्मयुक्तकर्माणि विद्वानाचरेदिति शास्त्रकाराणामादेशः -
 
'''धर्मात् सञ्जायते ह्यर्थो धर्मात् कामोऽभिजायते।'''
 
'''धर्मादेव परब्रह्म तस्माद् धर्म समाश्रयेत् ॥'''<ref>'''चतु. चिन्ता. व्रत कर'''</ref>
 
'''धर्म एव हतो हन्ति धर्मो रक्षति रक्षितः।'''
 
'''तस्माद्धर्मो न हन्तव्यो मा नो धर्मो हतोऽवधीत् ॥'''<ref>'''मनु., ८-१५.'''</ref>
 
'''धर्मे मतिर्भवतु व: सततोत्थितानां ।'''
 
'''स ह्येक एव परलोकगतस्य बन्धुः।'''<ref>'''महाभा. आदि. २-३९१.'''</ref>
 
== धर्मशास्त्रस्य उत्पत्तिः विकासश्च ==
धर्मशास्त्रं नाम सकलशास्त्रपुरस्कृतं निखिललोकसुरक्षकं कृत्याकृत्य विवेकप्रतिपादकत्वेन नित्यनियतोपादेयं साक्षाद् वेदार्थानुमापकत्वेन वेदवत् प्रमाणभूतं तप:स्वाध्यायपूतचरित्राणां मनुगौतमवसिष्ठादीनामनवरतस्वाध्याया ध्ययनपूतकण्ठोद्गीर्णत्वेन परमपवित्रं गुणिगणसमादरणीयं सर्वजनग्रहणीय शास्त्रम् -
 
'''धर्मशास्त्रस्य लक्षणमिदं पण्डितश्रीकुलमणिमिश्रशर्मणा श्रीदेवयानपत्रिकायां प्रतिपादितम् ।'''
 
धर्मस्य मूलं वेद एव। स च वेदः सर्वासां विद्यानां मूलभूतः। वेदवृक्ष माश्रित्य सर्वाणि शास्त्राणि प्रभवन्ति । तस्यैव वेदस्य षडङ्गानि सन्ति । तानि यथा शिक्षा, कल्पः, व्याकरणं, छन्दः,निरुक्तं, ज्योतिषञ्चेति । एतेषु वेदाङ्गेषु कल्पभागे एव धर्मशास्त्रस्यान्तर्भावः। अत: कल्पभागादेव धर्मशास्त्रस्योत्पत्तिः समभूत् । कल्पभाग: वेदपुरुषस्य हस्ततुल्यो भवति । प्राचीनशास्त्रवत् कल्पभागोऽपि सूत्रमय आसीत् । कल्पसूत्रं चतुर्विधं भवति । श्रौतसूत्रं, शुल्वसूत्रं, धर्मसूत्रं, गृह्यसूत्रश्चेति । तत्र श्रौतसूत्रेषु यागानुष्ठानविधयः, शुल्वसूत्रेषु यागवेदि-यागपात्रकुण्डादीना निर्माणविधयः, धर्मसूत्रेषु धर्मशास्त्रीयविषयाणां विचाराः, गृह्यसूत्रेषु च कर्मकाण्डीयविषयाणां संस्कारादीनामनुष्ठानविधयः प्रतिपादिताः सन्ति।
 
वेदान्तर्गतानां निखिलविषयाणां प्रतिपादकत्वाच्छ्रुत्यनन्तरं धर्मविषये स्मृतेरेव मान्यता स्वीक्रियते । श्रुतेश्च विप्रकीर्णत्वेनालब्धत्वात् सनातनी धर्म धर्मशास्त्रग्रन्थानामेव मौलिकं महत्त्वं विद्यते । अस्यैव धर्मशास्त्रस्य काल पि. भि. काणेमहोदयानां मतानुसारं निरुक्तकारस्य यास्कस्य कालादेव प्रारभ्यते।
 
तत्र निरुक्तस्य३ तृतीयकाण्डे प्रतिपादित: दायभागविषय: विचारपथमागच्छति। कौशीतक्युपनिषद्यपि४ दायसम्बन्धिनौ मनूक्तश्लोकावुदाहृतौ । अत एवोपनिषत् कालेऽपि धर्मशास्त्रस्य प्रामाण्यमवर्त्तत --
 
'''अर्थतां जाम्या रिक्थप्रतिषेध उदाहरन्ति । ज्येष्ठं पुत्रिकाया इत्येके ।'''<ref>निरुक्त . ३''/''४-५.</ref>
 
'''अङ्गादङ्गात् सम्भवसि हृदयादधिजायसे ।'''
 
'''आत्मा वै पुत्रनामासि स जीव: शरदः शतम् ॥'''
 
'''अविशेषेण पुत्राणां दायो भवति धर्मतः।'''
 
'''मिथुनानां विसर्गादौ मनुः स्वायम्भुवोऽब्रवीत् ॥'''<ref>कौशीतक्युपनिषदि</ref>
 
गौतमधर्मसूत्रेऽपि ‘तस्य च व्यवहारो वेदाः धर्मशास्त्राणि' इत्यादिना गौतमवचनेनैतत् स्पष्टीभवति यत्तदानीन्तनकालेऽपि धर्मशास्त्रस्य प्रचलनमासीत्। महाभारत - रामायणादिषुः मनूक्तधर्मशास्त्रस्य बहूनि प्रमाणवचनानि दृश्यन्ते। अत: महाभारतरामायणादीनां कालत: प्रागेव धर्मशास्त्रस्योत्पत्तिरभवत् । पतञ्जले: व्याकरणमहाभाष्येऽपि धर्मशास्त्रीयग्रन्थानामुदाहरणानि इतस्तत उद्धृतानि। अत: वैदिककालादारभ्यैव धर्मशास्त्रस्योत्पत्तिरिति भारतीयपरम्पराऽवितथरूपेण प्रमाणमधिगच्छति<ref>गौ. धर्म. २-२-१९</ref> -
 
'''तैरेवमुक्तो भगवान् मनु: स्वायम्भुवोऽब्रवीत् ।'''
 
'''शुश्रूषध्वं यथावृत्तं धर्मं व्याससमासतः॥'''<ref>'''महाभारते'''</ref>
 
'''राजभिभृतदण्डास्तु कृत्वा पापानि मानवाः।'''
 
'''निर्मला: स्वर्गमायान्ति सन्तः सुकृतिनो यथा ॥'''
 
'''मा शासनाद्वा विमोक्षाद्वा स्तेन: पापात् प्रमुच्यते ।'''
 
'''राजा त्वशासन् पापस्य तदवाप्नोति किल्विषम् ।।'''<ref>रामा. किष्कि. १८/३३-३४, मनु. ८/३१६,३१८ .</ref> <ref>महाभाष्ये - पा. सू. १-१-४६.</ref>
 
पूर्वप्रतिपादितधर्मलक्षणानां पर्यालोचनेनैतत् स्पष्टीभवति यत् निखिलैरपि शास्त्रकारैः वेद एव धर्ममूलत्वेनाङ्गीकृतः। किन्तु वेदेषु धर्मशास्त्रान्तर्गताः सर्वे विषयाः न सन्ति। वेदानां विप्रकीर्णत्वात् सर्वतोभावेनानुपलब्धत्वात्ते ते विषयाः स्मृतिष्वनुसन्धेयाः। एतदपि जैमिनिना पूर्वमीमांसायां स्मृतिप्रामाण्याधिकरणे सिद्धान्तितम् । सर्वे वेदगता: विषया: धर्मशास्त्रेऽस्मिन् प्रतिपादिताः। मन्वादिभिः सर्वेषां ज्ञानार्थं सरलसुबोधशैल्या धर्मशास्त्रे समग्र: वेदार्थः प्रतिपादितः। वेदविषयानुद्धृत्य धर्मशास्त्रं मानवसमाज सन्मार्गमुपदिशति।
 
वेदेषु विवाह-वर्णाश्रम-पुत्रभेद-उत्तराधिकारिनिर्णय-धनविभाग श्राद्धादिविषयका: बहवः प्रसङ्गा उपलभ्यन्ते। ते प्रसङ्गाश्च कालक्रमेण धर्मशास्त्रस्य विषयीभूताः। यास्कमतानुसारं पुत्रिकाग्रहणविधिः ऋग्वेदे दृश्यते । भ्रातृहीना कन्या वरं लब्धुं न शक्नोतीति ऋग्वेदे दृश्यते। मनु - याज्ञवल्क्यस्मृत्यादिष्वपि तत्त्वमिदं स्पष्टमुद्घोषितम् । ऐतरेयब्राह्मणे शुन:शेपोपाख्याने औरसपुत्रे विद्यमानेऽपि दत्तपुत्रग्रहणं युज्यत इति प्रतिपादितम्। तैत्तिरीयसंहितायामत्र्युपाख्याने दत्तपुत्रग्रहण विधि: विवृतोऽस्ति। ज्येष्ठपुत्रस्य श्रेष्ठभागस्तैत्तिरीयसंहितायां प्रतिपादित: । आपस्तम्बधर्मसूत्रे बौधायनधर्मसूत्रे चायमेव विषयः गृहीतः। ऋग्वेदे ब्रह्मचारिणः प्रशंसनं क्रियते , तदाचरणविधिश्च निर्णीयते । तथैव मनुसंहितायामपि ब्रह्मचारिणः कर्त्तव्यं निरूपितम् -
 
'''अमाजूरिव पित्रोः सचा सती समानादा सदसस्त्वामिये भगम् ।'''
 
'''कृधि प्रकेतमुपमास्या भरदद्धि भागं तन्वो येन मामहः ॥'''<ref>ऋग्.२.१७.७.</ref>
 
'''तस्माज्येष्ठपुत्रं धनेन निरवसाययन्ति । (तैत्तिरीयसंहितायां)'''<ref>'''ऋग् . १०-१०९ सूक्ते।'''</ref>
 
शतपथब्राह्मणे तैत्तिरीयारण्यके ७२ च पञ्चमहायज्ञानामुल्लेखोऽस्ति । धर्मशास्त्रेऽपि पञ्चमहायज्ञा: मानवस्य कर्त्तव्यरूपेणोपदिष्टाः । अत एव विविधैरुदा हरणैः प्रतिपाद्यते यद् वेद एव धर्मशास्त्रस्य मूलम् । वेदस्तु कर्मकाण्ड-ज्ञानकाण्ड भेदेन द्विधा विभज्यते। धर्मशास्त्रस्याङ्गविशेषैः धर्मसूत्रैः सह वेदाङ्गभूतस्य कल्पस्य साक्षात् सम्बन्धसत्वादस्य प्रमाणं वेदा एवेति निश्चप्रचम् । परवर्तिनि काले धर्मसूत्रकारा: श्रौतसूत्राणां गृह्यसूत्राणाञ्च विधानान्यनुसृत्य स्वग्रन्थेषु कर्माणि निर्दिशन्ति -
 
'''पञ्च वा एते महायज्ञाः शतति प्रतीयन्ते । शतति संतिष्ठते ।'''
 
'''देवयज्ञः पितृयज्ञः भूतयज्ञः मनुष्ययज्ञः ब्रह्मयज्ञश्चेति ।'''
 
== धर्मशास्त्रस्य शास्त्रत्वम् ==
धर्मस्य मूलं वेद एव । धर्मादयः पुरुषार्थाः यत्र विद्यन्ते स एव वेद इति व्युत्पत्त्या इतरपुरुषार्थानां वेदे वर्तमानत्वेऽपि धर्मस्य मुख्यतया वर्णन विहितम्। अनन्तरं धर्मस्य विस्तृतवर्णनं धर्मशास्त्रे एव क्रियते । अतस्तस्य धर्मशास्त्रं नाम। तस्यापरा संज्ञा स्मृतिः। अनयोः स्मृतिधर्मशास्त्रयोः नान्तरं महत् । मनुना वेदधर्मशास्त्रयोः भेदप्रदर्शनावसरे धर्मशास्त्रस्यैव स्मृतिपदवाच्यता प्रदर्शिता । तस्य धर्मशास्त्रस्य पुनः वेदस्मरणमाध्यमेन प्रतिपादितत्वात् स्मरन्ति वेदमनया इति स्मृति:, अथवा महर्षिभिः वेदार्थचिन्तनं स्मृतिरिति सिद्धमेव -
 
'''श्रुतिस्तु वेदो विज्ञेयो धर्मशास्त्रं तु वै स्मृतिः ।'''<ref>मनु. २-१०.</ref>
 
याज्ञवल्क्योक्त्यनुसार विद्यायाः चतुर्दशत्वे सिद्धे सति वेदातिरिक्ता अन्या: दशविद्याः स्मृतिरूपाः। ताः चतुर्दशविद्या: याज्ञवल्क्येनाचाराध्याये प्रतिपादिताः। ताश्च पुराणं ब्राह्मादि वक्ष्यमाणम् । न्यायः गौतमीयं, काणादं कापिलं,पातञ्जलं शास्त्रञ्चेति चतुर्विधं प्रमाणादिनिरूपणशास्त्रं गौतमादि प्रणीतम्। मीमांसा जैमिनिप्रणीता कर्ममीमांसा, शाण्डिल्यप्रणीता भक्तिमीमांसा, वादरायणप्रणीता ब्रह्ममीमांसा च। धर्मशास्त्रं च मनुयाज्ञवल्क्यादि प्रणीतम् । अङ्गानि शिक्षा, कल्पो , व्याकरणं, निरुक्तं, छन्दः, ज्योतिषमिति। एतैरुपेताश्चत्वारो वेदाः। एतासां चतुर्दशविद्यानां स्वर्गाद्यपवर्गसाधनकर्मब्रह्मज्ञानानां स्थानानि धर्मस्य च निमित्तानि। अत एतेषां धर्मस्थानत्वमित्युक्तम् -
 
'''पुराणन्यायमीमांसाधर्मशास्त्राङ्गमिश्रिताः।'''
 
'''वेदा: स्थानानि विद्यानां धर्मस्य च चतुर्दश।<ref>याज्ञ. स्मृ. १-३.</ref>'''
 
अङ्गिरास्तु शास्त्रीयज्ञानवर्जितं यत् किञ्चिदेव कर्म विचारपूर्वकं क्रियते तत्सर्वं बालकानां क्रीडेव निष्फलं भवतीति प्रतिपादयति । स्मृतिशब्दस्योक्तदश विद्यावाचकत्वे प्रमाणं श्रुतिः स्मृतीति याज्ञवल्क्यवचनमेव ।<ref>याज्ञ. स्मृ.१-७.</ref>
 
'''स्वाभिप्रायकृतं कर्म यत् किञ्चिद् ज्ञानवर्जितम् ।'''
 
'''क्रीडाकर्मेव बालानां तत्सर्वं निष्प्रयोजनम् ।।<ref>अङ्गिरास्मृ उत्त. १-१०</ref>'''
 
अत्र स्मृतिपदस्य मन्वादिप्रणीतधर्मशास्त्रमात्रपरत्वे पुराणन्यायेत्यादिना पूर्वोक्तवाक्येन सह विरोधो दुष्परिहरः स्यात्। श्रुतिस्मृतीति पञ्चानामेव धर्ममूलत्वेन प्रतिपादनादेतादृश विरोधपरिहाराय चात्र स्मृतिपदेन दशानामपि विद्यानां ग्रहणस्यावश्यमभ्युपेयत्वात्। अत एव व्याकरणस्मृतिः सांख्यस्मृतिरिति व्यवहारोऽपि संगच्छते। सङ्गच्छते च स्मृतिप्रामाण्यनिरूपणप्रकरणे व्याकरणप्रामाण्यनिरूपणं जैमिनीयम् । एवं स्मृतिपदस्य विशेषतो मन्वादिप्रणीतधर्मशास्त्रवाचकत्वमपि। मनुना स्मृतिधर्मशास्त्र योरैक्यं प्रदर्शितम् । याज्ञवल्क्यस्य चतुर्दशविद्याव्याख्यानावसरे विष्णुपुराणं धनुर्वेदायुर्वेदादीनामपि विद्यात्वं स्वीकृत्याष्टादशत्वं साधयति -
 
'''अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः।'''
 
'''धर्मशास्त्रं पुराणञ्च विद्या ह्येताश्चतुर्दश ॥'''
 
'''आयुर्वेदो धनुर्वेदो गान्धर्वश्चेति ते त्रयः।'''
 
'''अर्थशास्त्रं चतुर्थं तु विद्या ह्यष्टादशैव ताः॥'''<ref>'''विष्णुपु.३''/''६''/''२८-२९'''</ref>
 
आयुर्वेदादीनां चतसृणां विद्यानामपि न स्मृतित्वं नापि श्रुतित्वशङ्का । यतः विद्यानामष्टादशत्वेऽपि स्वर्गापवर्गसाधनकर्मब्रह्मज्ञानैकस्थानभूतानां धर्मप्रधाना नामेव विद्यानां याज्ञवल्क्यमहर्षिणा चतुर्दशतया परिगणनम् । विष्णुपुराणे तु धर्मशास्त्रस्येतिहासः दृष्टार्थप्रधानाश्चायुर्वेदादिविद्या अपि सम्मिल्याष्टादशतया परिगणिता इत्यविरोधः। याज्ञवल्क्योक्तचतुर्दशविद्या: प्रधानत: धर्ममेव प्रतिपादयन्ति। परन्तु आयुर्वेदाद्यास्तु चतस्रोऽनुषङ्गतो धर्मं प्रतिपादयन्त्योऽपि प्राधान्यादर्थकामावेव प्रतिपादयन्ति ।
 
प्राधान्येन धर्मप्रतिपादकान्येव शास्त्राणि स्मृतिपदेनोच्यन्ते । क्वचिदव्यव हृतञ्चार्थकामप्रधानानां चरमाणां चतसृणां न स्मृतित्वम् । न हि श्रुतिभिन्नत्व मात्रं स्मृतित्वे प्रयोजकम् । काव्यादीनामपि स्मृतित्वप्रसङ्गाम्। श्रुतिस्मृतिविरोधे दृष्टलोभादिमूलकत्वे वा स्मृतेरप्रामाण्यमेव। जैमिन्यनुसारं सांख्ययोगपाञ्चरात्र पाशुपताद्यसाधारणधर्माधर्मप्रतिपादकानां तथा म्लेच्छाचारादीनां प्रतिपादकस्मृति वाक्यानामप्रमाणता सिद्ध्यत्येव । नोचेत् तेषामपि शास्त्राणां धर्मे प्रमाणत्व मागमिष्यति। तेषु धर्मनिर्णयशास्त्रत्वप्रसङ्गे धर्मशास्त्रस्यैव प्राथम्यं वरीवति । पूर्वप्रतिपादितधर्मस्यैव प्रतिपादकं शास्त्रं धर्मशास्त्रम् ।
 
वेदस्य निखिलभागस्य धर्मप्रतिपादकत्वेन तस्यैव शास्त्रत्वे प्रामाण्यम्। सर्ववेदद्रष्टुत्वेन मनुरेव प्रमाणम् । परन्त्वन्येषां वेदाङ्गानां मीमांसादीनामपि वेदैः परम्परया सम्बन्धानां न धर्मशास्त्रवत् प्रत्यक्षसम्बन्धः। पुराणानामपि वर्णनीय पुरुषप्रवृत्तिवर्णनपरतया नैकान्ततो धर्मपरतेति न तेषां प्राधान्येन धर्मशास्त्रत्वम्। मन्वादिप्रणीतान्येव शास्त्राणि धर्मशास्त्राणीति आर्यजनपरम्पराप्रसिद्धानि ।
 
अन्यत्रापि तैत्तिरीयारण्यक- पाणिनीयव्याकरणादिषु स्मृतिशब्देन वेदैः सह सम्बन्धितशास्त्रत्वेनैव व्याख्या विधेया। वेदानुमापकग्रन्थेषु श्रेष्ठत्वाद् धर्मशास्त्रस्यैव स्मृतित्वसिद्धिः युक्ता प्रतिभाति । यत: व्यापकार्थविशिष्टः धर्मः समग्रवेदवाङ्मयस्य विधिनियमाननुसरति। यद्यपि वेदार्थानुमापकग्रन्थत्वेन व्याकरणगृह्यसूत्रपुराणादीनां शास्त्रान्तराणामपि स्मृतिसंज्ञा यौगिकी तथापि धर्मशास्त्राणां पङ्कजादिशब्दवत् सा योगरूढा -
 
'''वृषो हि भगवान् धर्मः।<ref>मनुस्मृ. ८-१, महा. शान्ति. ३४२-९८.</ref>'''
 
'''चत्वारि शृङ्गा त्रयो अस्य पादा द्वे शीर्षे सप्त हस्तासो अस्य ।'''
 
'''त्रिधा बद्धो वृषभो रोरवीति महो देवो महँ आविवेश ।<ref>ऋक्. ४-५८-३, यजु. १७-९१..</ref>'''
 
अस्य मन्त्रस्य विशिष्टार्थः मदीयगुरुपादैः पण्डितकुलमणिमिश्रमहोदयैः धर्मशास्त्रशब्दकोषस्य प्रथमखण्डे भूमिकायां (पृ.१८.) प्रकाशितः।
 
== धर्मशास्त्रवाङ्मयस्य परिचयः ==
श्रुत्यनुमापकत्वेन प्रमाणभूतस्य धर्मशास्त्रस्य निखिला: विषया: सामान्यतः त्रिधा विभज्यन्ते । सर्व एव विषयाः धर्माधर्मावेव प्रतिपादयन्ति। स चायं धर्मः कर्तुरभिमतफलवर्षणान्मन्वादिभिः वृष इत्युच्यते । भगवान् वेदोऽपि धर्मं वृषाकृतिमाचष्टे । अस्य विलक्षणवृषभरूपस्य धर्मस्य चत्वारि शृङ्गाणि यथाक्रम धर्मस्य वेद- स्मृति- सदाचारात्मतुष्ट्यादि लक्षणानि । तस्यैव धर्मवृषस्य त्रयः पादाः। ते चाचार -व्यवहार- प्रायश्चित्त- काण्डत्रयरूपाः। अतः धर्मशास्त्रस्य विषया: आचार- व्यवहार - प्रायश्चित्तभेदैः विभज्यन्ते।
 
धर्मः श्रौतस्मार्त्तभेदेन द्विधा विभक्तः । स्मार्त्तधर्म: धर्मशास्त्रस्य विषयीभूतः। तत्रार्याणां क्रियमाणानां सकलधर्मार्जनविधयः तथाऽधर्मनिवारणाय प्रतिषेधा अपि वर्णिताः । वर्णाश्रमधर्म- षोडशसंस्कार- गार्हस्थ्यधर्म - पञ्चमहायज्ञ भक्ष्याभक्ष्यनिरूपण - द्रव्यशुद्धि - जननमरणाशौचनिरूपण - श्राद्ध- राजधर्म - ऋणादानाद्यष्टादशव्यवहारपद- आपद्धर्मप्रकरण- प्रायश्चित्तनिरूपण- कृच्छ्रचान्द्रा यण- व्रतोत्सर्ग- प्रतिष्ठा- तीर्थयात्रादय: विषया: धर्मशास्त्रे सन्निविष्टाः। अत एव धर्मस्य तत्त्वं मानवस्य समग्रजीवनमभिव्याप्योपदिष्टम् ।
 
पूर्वोक्तेषु त्रिषु काण्डेषु आचार एव वैशिष्ट्यं धारयति । मनुष्यस्य दिनचर्या, रात्रिचर्या , देशाचार- कुलाचार- जात्याचारादीनां वर्णनं, सर्वेषां वर्णानां तथा ब्रह्मचर्य-गृहस्थाश्रमयोः वर्णनं, तेषां विशेषाधिकाराश्च, सर्वे गर्भाधानाद न्त्येष्टिपर्यन्तं संस्काराः, ब्रह्मचारिनियमाः, अनध्यायाः, अभक्ष्यभक्षण, स्नातकधर्माः, गृहस्थाश्रमस्य विवाहादित: वानप्रस्थाश्रमग्रहणपर्यन्तं सर्वे नियमाः, व्रतोपवासाः, दानानि, प्रतिष्ठाः, देवपूजा - पितृपूजा - नृपूजादीनां पञ्चमहायज्ञाना मनुष्ठानविधिः, द्रव्यशुद्धिः, श्राद्धस्य भेदाः, कर्त्तव्यविधिः, निखिलनियमानां प्रतिपादनं, तीर्थस्थानमित्येते विषया: आचारकाण्डान्तर्गताः। आचाराध्याये सर्वविधधर्मोत्पादककर्मणां प्रतिपादनाद् धर्मशास्त्रे स एव मुख्यरूपं धारयति । व्यवहारभागे क्षत्रियधर्माः प्रतिपादिताः । राजगुणोपेतः क्षत्रियोऽभिषेकानन्तरं प्रजापालनं कुर्यात् । नृपतेः स एव परमो धर्मः। राज्ञः व्यवहारदर्शनविधिरत्र मुख्यतः प्रतिपादितो भवति। राज्ञः शत्रुसकाशादात्मरक्षणम्, प्रजारक्षणं, देशरक्षणं, दुर्गव्यूहादीनां रचनं, राज्यस्य षडङ्गानाममात्यदुर्गजानपदादीनां पालनं, प्राड्विवाकादीनां नियोगः , तेषां साहचर्येन व्यवहारपदानां समाधानं, विवादानां विचारः, धनस्य दायादेषु विभाजनं चेत्यादय: विषया: काण्डेऽस्मिन् प्रतिपादिताः।
 
अन्तिमभागो भवति प्रायश्चित्तकाण्डः । तत्र विशेषत: निमित्तधर्मः वर्णितः। मोक्षप्रधानयोर्वानप्रस्थसंन्यासाश्रमयोरपि तत्र योगीश्वरेण समावेशः कृतः। शौचाशौचयोवर्णनम्, पापस्य स्वरूपप्रतिपादनं,पापोत्पत्तिकारणानि, पापकर्मणां महापातक-अतिपातक-उपपातक-पातक-संकरीकरण-मलिनीकरणादिषु विभागेषु विभाजनं, तेषां पापानामपनो दनार्थं प्रायश्चित्तप्रतिपादनं, प्रायश्चित्तरूपव्रताङ्गभूत- कृच्छ्र-चान्द्रायण-प्राजापत्यादीनां वर्णनं विभागेऽस्मिन् निवेशितम् । अत: धर्मशास्त्रस्य सर्वेऽपि विषया एषु त्रिषु काण्डेषु प्रतिपाद्यन्ते। त्रिषु काण्डेषु प्रथमत: वर्णधर्म - आश्रमधर्म -वर्णाश्रमधर्माणामाचारभागे तथा गुणधर्म: व्यवहारकाण्डे, निमित्तधर्मश्च प्रायश्चित्तभागे वर्ण्यन्ते। सामान्यधर्मश्च सामान्यतः सर्वेषु भागेषु स्थानितो भवति ।
 
धर्मशास्त्रस्य वाङ्मय: मात्रायां महत्त्वं धारयति । असौ वाङ्मयः विशाल वृक्षरूपः। अस्य वाङ्मयस्येतिहासः काणेमहोदयानां मतानुसारं त्रिभिः कालैः विभज्यते । यथा -
 
१. सूत्रकालः - ख्रीष्टात् पूर्वं ५०० तः - ३०० ख्रीष्टाब्दपर्यन्तम् ।
 
२. स्मृतिकालः - ख्रीष्टात् पूर्व ५०० तः - ५०० ख्रीष्टाब्दपर्यन्तम् ।
 
३. भाष्यनिबन्धकालः - ८०० ख्रीष्टाब्दात् - १९५० ख्रीष्टाब्दपर्यन्तम् ।
 
==धर्मशास्त्रसाहित्यस्य विकासः==
"https://sa.wikipedia.org/wiki/धर्मशास्त्रम्" इत्यस्माद् प्रतिप्राप्तम्