"स्वातन्त्र्यदिनोत्सवः (भारतम्)" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ११:
|celebrations = आ[[भारतम्]]
}}
'''भारतस्वतन्त्रतादिनम्''' ({{IPA audio link|{{PAGENAME}}.wav}} {{IPAc-en|ˈ|s|v|aː|t|ə|n|t|r|j|ə|d|ɪ|n|oː|t|s|ə|v|ə|h}}) ({{lang-hi|भारतस्वतन्त्रता दिवस}}, {{lang-en|Independence Day (India)}}) 'अगस्त'-मासस्य पञ्चदशे (१५/८) दिनाङ्के राष्ट्रियोत्सवत्वेन आभारते आचर्यते । १९४७ तमस्य वर्षस्य 'अगस्त'-मासस्य पञ्चदशे दिनाङ्के [[भारत]]गणराज्यं स्वतन्त्रम् अभवत् । अतः एतद्दिनं भारतस्वातन्त्र्यदिनोत्सवत्वेन आचर्यते । तत्पूर्वं ब्रिटिश-जनाः [[भारत]]स्योपरि शासनं कुर्वन्ति स्म । १९४७ तमस्य वर्षस्य 'अगस्त'-मासस्य चतुर्दशे (१४/८/१९४७) दिनाङ्के मध्यरात्रौ द्वादशवादने आङ्ल्येयाःआङ्ग्लेयाः [[भारतगणराज्य]]स्य शासनं भारतीयेभ्यः यच्छन्तः [[भारत]]त्यागम् अकुर्वन् । [[भारतस्वतन्त्रता]]याः तत् दिनं [[भारते]] राष्ट्रियपर्वत्वेन आचर्यते ।
 
[[भारत]]देशे पूर्वं यवनाः विदेशात् आगत्य अत्र स्थित्वा प्रशासनम् अकुर्वन् । अनन्तरं पुर्तुगाल-देशीयाः, नेदरर्लैण्ड-देशीयाः, फ्रान्स-जनाः, ब्रिटिश-जनाः च आगताः । सर्वे अत्र शासनम् अकुर्वन् । तेषु प्रबलाः आङ्ग्लाः दीर्घकालपर्यन्तं प्रशासनाधिकारं प्रापन् । ततः स्वतन्त्रतां प्राप्तुं [[कर्णाटक]]राज्ये आङ्ग्लविरुद्धं युद्धं राज्ञी [[कित्तूरु चेन्नम्म]] आरभत । [[मङ्गल पाण्डेय]], [[राज्ञी लक्ष्मीबाई]], [[तात्या टोपे]] इत्यादयः युद्धं कृत्वा जनानपि प्राचोदयन् । देशे स्वाभिमानिनः राष्ट्रभक्ताः विभिन्नैः क्रान्तिमार्गैः आङ्ग्लविरुद्धं युद्धम् अकुर्वन् । [[सरदार वल्लभभाई पटेल]], [[भगत सिंह]], [[मदनलाला धिङ्ग्रा]], [[चन्द्रशेखर आजाद]], [[महात्मा गान्धी]], [[मैलार महादेव]], [[सङ्गोळ्ळि रायण्ण]], [[नाना साहेब]] इत्यादयः आङ्ग्लविरुद्धं युद्धम् अकुर्वन् । [[लाला लाजपत राय]], [[मातङ्गिनी हाजरा]], [[भगत सिंह]], [[चन्द्रशेखर आजाद]] सदृशाः वीरदेशभक्ताः स्वप्राणाहुतिम् अपि अयच्छन् । तेषाम् अन्तिमसमयेऽपि मनसि वचने च '[[भारत]] माता की जय', ‘[[वन्दे मातरम्|वन्दे मातरं]]’ जयघोषाः भवन्ति स्म । एवं [[भारतम्|भारतदेशं]] स्वतन्त्रं कर्तुं बहूनि [[भारतस्य स्वातन्त्र्यसङ्ग्रामः|स्वतन्त्रतान्दोलनानि]] अभवन् ।
"https://sa.wikipedia.org/wiki/स्वातन्त्र्यदिनोत्सवः_(भारतम्)" इत्यस्माद् प्रतिप्राप्तम्