"भूकम्पविभीषिका" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
'''भूकम्पविभीषिका'''.
 
[[File:Khao Lak Tsunami 26.Dez 2004 - Polizeiboot 813.jpg|Khao Lak Tsunami 26.Dez 2004 - Polizeiboot 813]]
 
भूकम्पविभीषिका एकोत्तरद्विसहस्त्रीष्टाब्दे ( 2001 ईस्वीये वर्षे) गणतन्त्र दिवस पर्वणि यदा समग्रमपि भारतराष्ट्रं नृत्य-गीतवादित्राणाम् उल्लासे मग्नमासीत्
तदाकस्मादेव गुर्जर-राज्यं पर्याकुलं, विपर्यस्तम्, क्रन्दनविकलं विपन्नञ्च जातम् । भूकम्पस्य दारुणविभीषिका समस्तमपि गुर्जरक्षेत्र विशेषेण च कच्छजनपदं ध्वंसावशेषेषु परिवर्तितवती । भूकम्पस्य केन्द्रभूतं भुजनगरं तु मृत्तिकाक्रीडनकमिव खण्डखण्डम् जातम्। बहुभूमिकानि भवनानि क्षणेनैव धराशायीनि जातानि। उत्खाता विद्युद्दीपस्तम्भाः। विशीर्णाः गृहसोपानमार्गाः। फालद्वयेविभक्ता भूमिः । भूमिगर्भादुपरि निस्सरन्तीभिः दुर्बार जलधाराभिः महाप्लावनदृश्यम् उपस्थितम् । सहस्त्रमिता: प्राणिनस्तु क्षणेनैव मृताः। ध्वस्तभवनेषु सम्पीडिता सहस्त्रशोऽन्ये सहायतार्थ करुणकरुणं क्रन्दन्ति स्म हा दैव! क्षुत्क्षामकण्ठाः मृतप्रायाः केचन शिशवस्तु ईश्वरकृपया एव द्वित्राणि दिनानि जीवनं धारितवन्तः।इयमासीत् भैरवविभीषिका कच्छ- भूकम्पस्य पञ्चोत्तर द्विसहस्त्रीष्टाब्दे (2005) ईस्वीये वर्षे) अपि कश्मीर प्रान्ते पाकिस्तान देशे च धरायाः महत्कम्पनं जातम् ।यस्मात्कारणात् लक्षपरिमिताः जना अकालकालकवलिताः । पृथ्वी कस्मात्प्रकम्पते वैज्ञानिकाः इति विषये कथयन्ति यत् पृथिव्या अन्तर्गर्भे विद्यमानाः बृहत्य: पाषाण शिलाः यदा संघर्षणवशात् त्रुट्यन्ति तदा जायते भीषण संस्खलनम्, संस्खलनजन्यं कम्पनञ्च। तदैव भयावहकम्पनं धरायाः उपरितलमप्यागत्य महाकम्पनं जनयति येन महाविनाशदृश्यं समुत्पद्यते।
 
[[File:2005 Earthquake damage, Rawalakot.jpg|2005 Earthquake damage, Rawalakot]]
 
 
ज्वालामुखपर्वतानां विस्फोटैरपि भूकम्पो जायत इति कथयन्ति भूकम्पविशेषज्ञाः । पृथिव्याः गर्भे विद्यमानोऽग्निर्यदा खनिजमृत्तिकाशिलादिसञ्चयं क्वथयति तदा तत्सर्वमेव लावारसताम् उपेत्य दुर्वारगत्या धरा पर्वतं वा विदार्य बहिर्निष्क्रामति। धूमभस्मावृतं जायते तदा गगनम्। सेल्सियश-ताप मात्राया अष्टशताङ्कतामुपगतोऽयं लावारसो यदा नदीवेगेन प्रवहति तदा पार्श्वस्थग्रामा नगराणि वा तदुदरे क्षणेनैव समाविशन्ति ।निहन्यन्ते च विवशाः प्राणिनः । ज्वालामुहिरन्त एते पर्वता अपि भीषण भूकम्पं जनयन्ति। यद्यपि दैवः प्रकोपो भूकम्पो नाम, तस्योपशमनस्य न कोऽपि स्थिरोपायो दृश्यते । प्रकृतिसमक्षमद्यापि विज्ञानगर्वितो मानवः वामनकल्प एव तथापि भूकम्परहस्यज्ञाः कथयन्ति यत् बहुभूमिकभवननिर्माणं न करणीयम्। तटबन्धं निर्माय बृहन्मात्रं नदीज नैकस्मिन् स्थले पुज्जीकरणीयम् अन्यथा असन्तुलनवशाद् भूकम्पसम्भवति । वस्तुतः शान्तानि एव पञ्चतत्त्वानि क्षितिजलपावकसमीरगगनानि भूतलस्य योगक्षेमाभ्यां कल्पन्ते अशान्तानि खलु तान्येव महाविनाशम् उपस्थापयन्ति ।
"https://sa.wikipedia.org/wiki/भूकम्पविभीषिका" इत्यस्माद् प्रतिप्राप्तम्