"युधिष्ठिरः" इत्यस्य संस्करणे भेदः

(लघु) NehalDaveND इत्यनेन शीर्षकं परिवर्त्य धर्मराजः पृष्ठं युधिष्ठिरः प्रति स्थानान्तरितम्: स्थानान्...
पङ्क्तिः ३२:
कदाचित् आश्रमे [[द्रौपदी]] एकाकिनी आसीत् । पृष्ठतः दुर्योधनस्य आवुत्तः सिन्धुराजा [[जयद्रथ:|जयद्रथः]] तत्र आगतवान् । द्रौपद्याः अनुपमसौन्दर्यं, लावण्यं च दृष्ट्वा तस्य मनसि विकारः उत्पन्नः । यदा सः स्वस्य दुर्भावनां प्रकटितवान् तदा द्रौपदी तं तिरस्कृतवती । तदा सः तां बलात् आकृष्य स्वस्य रथे उपवेश्य ततः प्रस्थितवान् । विषयं ज्ञात्वा पाण्डवाः तम् अनुसृतवन्तः । तस्य सैन्यं पराजितवन्तः च । भीतः जयद्रथः प्राणरक्षणार्थं धावन् आसीत् । [[भीम:|भीमः]] गत्वा तं गृहीत्वा धर्मराजस्य पुरतः आनीतवान् । धर्मराजः तु सः सम्बन्धी इति मत्वा दयया तस्य मोचनं कृतवान् । एवं स्वस्य क्षमाशीलतायाः स्वभावं दर्शितवान् ।
 
महाराजः युधिष्ठिरः श्रेष्ठविद्वांसः, नीतिज्ञः, धर्मज्ञः च आसीत् । तस्मिन् अद्भुता समानता आसीत् । कदाचित् कश्चनः ब्राह्मणः कस्यचित् वृक्षस्य शाखायाम् अग्निहोत्रस्य उपयोगाय वृक्षस्य समिधाः स्थापितवान् आसीत् । कश्चनः हरिणः आगत्य स्वस्य शृङ्गेन वृक्षस्य घर्षणं कृतवान् । तदा तस्य शृङ्गे एषः समिधाग्र्न्थिः संलग्नः अभवत् । तेन विना अग्निहोत्रस्य कार्यं न चलति स्म । अतः सः ब्राह्मणः आगत्य समिधाः आनीय ददातु इति युधिष्ठिरं प्रार्थितवान् । पञ्चपाण्डावाः अपि हरिणस्य पृष्ठतः धावितवन्तः । सर्वेषु पश्यत्सु एव सः हरिणः कुत्रापि अदृश्यः अभवत् । पाण्डवाः बहुश्रान्ताः, पिपासिताः च अभवन् । धर्मराजस्य आज्ञां प्राप्य [[नकुल:|नकुलः]] जलस्य अन्वेषणं कर्तुं प्रस्थितवान् । स्वल्पे दूरे एव तेन एकः सुन्दरजलाशयः प्राप्तः । समीपं गत्वा यदा जलं पातुं यत्नं कृतवान् तदा काचन अशरीरवाणी श्रुता । ‘प्रथमं मम प्रश्नस्य उत्तरं ददातु, अनन्तरं जलं पिबतु’ इति । किन्तु पिपासितः नकुलः अशरीरवाण्याः निर्लक्ष्यं कृतवान् । जलं पीतवान् च । अनुक्षणं निर्जीवः भूत्वा भूमौ पतितवान् । ततः युधिष्ठिरः क्रमशः [[सहदेवः|सहदेवम्]], [[अर्जुनः|अर्जुनं]], भीमसेनं च प्रेषितवान् । त्रयाणामपि सा एव स्थितिः अभवत् । अन्ते धर्मराजः स्वयं जलाशयस्य समीपं गतवान् । सोऽपि अशरीरवाणीं श्रुतवान् । पतितान् अनुजान् अपि दृष्टवान् । तावता सः विशालकायं कञ्चन [[यक्षः|यक्षं]] दृष्टवान् । सः यक्षः वदति ‘मम प्रश्नानाम् उत्तरम् अदत्त्वा जलं पीत्वा भवतः अनुजाः एतादृशीं स्थितिं प्राप्तवन्तः । भवान् अपि उत्तरदानेन विना यदि जलं पिबति तर्हि मरणं प्राप्नोति’ इति । युधिष्ठिरः उत्तरं दातुं सज्जः अभवत् । यक्षस्य सर्वेभ्यः प्रश्नेभ्यः एषः समिचीनतया उत्तरं दत्त्वा तस्य समाधाननं कारितवान् । तदा प्रसन्नः यक्षः वदति यत् ’भवतः अनुजेषु भवान् यम् इच्छति तम् जीवन्तं करोमि’ इति । तदा धर्मराजः नकुलस्य पुनर्जीवनम् इष्टवान् । यदा यक्षः कारणं पृच्छति तदा एषः वदति ‘मम पितुः
 
==बाह्यसम्पर्कन्तुः==
"https://sa.wikipedia.org/wiki/युधिष्ठिरः" इत्यस्माद् प्रतिप्राप्तम्