"साङ्ख्यदर्शनम्" इत्यस्य संस्करणे भेदः

आचार्याः
ग्रन्थाः
पङ्क्तिः ६६:
कपिलस्य नाम्ना एकाऽन्या रचना '''तत्त्वसमाससूत्रमपि''' उपलभ्यते । तत्त्वसमासे केवलं द्वाविंशति सूत्राणि सन्ति । सांख्यसूत्रे तु सप्तत्रिंशदुत्तरपञ्चशतानि सूत्राणि षट्सु अध्यायेषु विभक्तानि सन्ति । अस्य '''प्रथमाध्याये''' सांख्यविषयस्य स्थापना विहिता । '''द्वितीयाध्याये''' प्रकृतेः कार्याणां निरूपणम् अस्ति । '''तृतीयाध्याये''' वैराग्यस्य प्रतिपादनमस्ति । '''चतुर्थाध्याये''' सांख्यतत्त्वबोधस्य उदाहरणमस्ति । '''पञ्चमाध्याये''' विमतपरिहारो वर्तते । '''षष्ठाध्याये''' सांख्यसिद्धान्तानां परिचयः प्रदत्तः ।

=== (२) '''आसुरिः (ग्रन्थः नास्ति)''' ===
अयं कपिलस्य साक्षात् शिष्यः आसीत् । अस्य काचिदपि रचना नैवोपलभ्यते किन्तु स्याद्वादमञ्जरीग्रन्थे एकः श्लोकः आसुरेर्नाम्ना उद्धृतोऽस्ति, तेन ज्ञायते यत् आसुरेः काचिद् रचनाऽवश्यमेवासीत् इति ।

=== (३) '''पञ्चशिखः (षष्टितन्त्रम्)''' ===
अयम् आसुरेः शिष्यः आसीत् । सांख्यदर्शनमयं व्यवस्थापितवान् । अस्य रचना '''षष्टितन्त्र''' नाम्ना प्रसिद्धा वर्तते । ‘षष्टितन्त्र’ नामकरणस्य सन्दर्भे विदुषाम् विचारेण अनेकानि कारणानि वर्तन्ते । महाभारतेऽपि पञ्चशिखस्य सिद्धान्तानाम् उल्लेखोऽस्ति येन षष्टितन्त्रस्य प्राचीनता परिलक्ष्यते ।

=== (४) '''विन्ध्यवासी (ग्रन्थः नास्ति)''' ===
विन्ध्यवासी सांख्यशास्त्रस्य प्रतिष्ठित आचार्य आसीत् । यद्यपि केचन विद्वास इदं प्रतिपादितवन्तो यत् विन्ध्यवासी एव [[ईश्वरकृष्णः]] आसीत् इति । किन्तु तेषामिदं मतं प्रामाणिकं नास्ति यतो हि अस्योल्लेखः भोजवृत्ति-श्लोकवार्तिक-मेधातिथिभाष्य-अभिनवभारति-इत्यादिषु ग्रन्थेषु स्पष्टरूपेण प्राप्यते । अस्य कस्याश्चिदपि रचनाया उल्लेख इतिहासे उपलब्धो नास्ति तथापि '''अतिवाहिकशरीरेण मृत्योरुपरान्तं जीवः क्वचिद् गच्छति''' अयं सिद्धान्तोऽनेन मान्यो नावर्तत ।

अस्मिन् एव कालखण्डे वार्षगण्यं, जैगीषव्यः वोढु, देवल प्रभृतीनां सांख्यविदुषामपि उल्लेखः प्राप्यते किन्तु प्रामाणिकसामग्र्याः अभावे तेषामेतिहासिकस्थानस्य निर्धारणं कठिनमस्ति । यद्यपि वार्षगण्यः पञ्चपर्वाया अविद्यायाः प्रवक्तृरूपे वाचस्पतिमिश्र उल्लिखितवान् । [[महाभारतम्|महाभारते]] असितदेवलयोः संवादेन देवलस्यापि व्यक्तित्वं सिद्ध्यति ।

=== (५) '''[[विज्ञानभिक्षुः]]'''- (साङ्ख्यप्रवचनभाष्यम्) ===
विज्ञानभिक्षुरपि ऐतिहासिकः सांख्यविद्वान् अस्ति । अस्य स्थितिकालः षोडशशताब्दी इति मन्यते । सांख्यप्रवचनभाष्यमपि अस्यैव कृतिरस्ति । योगवार्तिके ब्रह्मसूत्रे च विज्ञानामृतभाष्यमपि अस्य कृतिरूपेण उपलभ्यते । अस्य विदुषो विचारैः वेदान्तसाम्यताः सन्ति, अतः उभयविधशास्त्राणां समन्वयपरकोऽयं मन्यते ।

=== (६) '''[[ईश्वरकृष्णः]] ([[साङ्ख्यकारिका]])''' ===
ईश्वरकृष्णः [[सांख्यकारिका]]याः रचयिता भवति । ईश्वरकृष्णस्य स्थितिकालः ईस्वीपूर्व द्वितीयशताब्दी इति मन्यते । पञ्चशिखस्य पश्चात् ईश्वरकृष्ण एव सर्वसम्मतः सांख्यतत्त्ववेत्ताऽस्ति । षष्टितन्त्रस्य आधारं गृहीत्वा अनेन सांख्यकारिका विरचिता । सांख्यकारिका वर्तमाने सर्वाधिकं लोकप्रियः ग्रन्थोऽस्ति । इयमेव रचना '''कनकसप्तति सांख्यसप्तति सुवर्णसप्तति''' चापि उच्यते ।

"https://sa.wikipedia.org/wiki/साङ्ख्यदर्शनम्" इत्यस्माद् प्रतिप्राप्तम्