"मनोविज्ञानम्" इत्यस्य संस्करणे भेदः

1
 
पङ्क्तिः १८३:
आयुर्वेदचिकित्साप्रणालीसमकक्षवेत्थं मनोवैज्ञानिकचिकित्साप्रणाली प्रचलिता सञ्जाता, या खलु प्रणाली साम्प्रतमौषधविज्ञानपरायणैः सुचिकित्सकैरपि भृशमाद्रियते। सुमहत्सु औद्योगिकसंस्थानेषु दैनन्दिनं श्रमिककार्यक्षमताकौशलस्तरक्लान्ति कारणादिसम्बन्धिन्योऽनेकविधा: समस्या: समुत्पद्यन्ते। मनोवैज्ञानिकास्तासां समाधाने प्रायश: सर्वेष्वेव देशेषु संलग्ना दरीदृश्यन्ते। युद्धबिभीषिकाऽपि प्रतिदिनं राष्ट्रेष्वविश्वास परस्परमुत्पाद्य सर्वत्र शान्तिप्रियाणां मानवानां हृदयं दहति। नैवं शक्यते युद्धविभीषिका निवारणं युद्धलिप्तराष्ट्रनागरिकाणां शिक्षायामन्तर्ग्रन्थिभेदनक्षमाद् मनोवैज्ञानिकप्रदर्शित-सुधारादृते। अपि च, मनोविज्ञानं वस्तुतन्त्रात्मकं विज्ञानम्। येऽनेन प्रदर्शितमार्गं नानसृत्य स्वैरिणो भवन्ति, तेषां स्वकीयं जीवनं द्वन्द्वोद्वेलितमसंयतं दुःखावलिप्तञ्च भवत्येव, ते समाजशरीरेऽपि कुष्ठवदेवावतिष्ठन्ते। अयन्तु समानो न्यायः सामान्यनागरिकेभ्यः समाजनेतृभ्यश्च। अत एव येषामभिलाषः स्वव्यक्तित्वोत्थानाय महत्त्वपूर्णपदलाभाय वा समाजसेवायै वा भवेत्, तेषां कृते मानवस्वभावपरिचयदक्षस्य मनोविज्ञानस्य गम्भीरमध्ययनं नितान्तम् अनिवार्यं भवतीति।
 
== सम्बद्धाः लेखाः ==
<references />
 
* [[मनोविज्ञानस्य अध्ययनविधिः]]
* [[मनोविज्ञानस्य परिभाषा]]
* [[श्रीमद्भगवद्गीता]]
* [[मनोवैज्ञानिकाः]]
* [[भारतीयमनोवैज्ञानिकाः]]
 
== उद्धरणानि ==
{{reflist|1}}
 
[[वर्गः:मनोविज्ञानम्]]
"https://sa.wikipedia.org/wiki/मनोविज्ञानम्" इत्यस्माद् प्रतिप्राप्तम्