"सूर्यः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
[[File:Sun poster.svg|thumb|x250px|आधुनिकविज्ञानासनुसारं सूर्यस्य रचना]]
 
'''सूर्यः''' (चिह्न: [[file:Sun symbol (fixed width).svg|16px|☉]]) किञ्चन [[नक्षत्रम्|नक्षत्रं]] विद्यते । किन्तु [[ज्योतिश्शास्त्रम्|ज्योतिष्शास्त्रदृष्ट्या]] अयं कश्चन ग्रहः इति निर्दिश्यते । खगोलपदार्थेषु सूर्यः अत्यन्तं प्रमुखः अस्ति । तदीयाः किरणाः [[भूमिः|भूमेः]] उपरि अन्येषां ग्रहाणाम् उपरि प्रकाशम् उष्णतां च प्रसरन्ति । सूर्यस्य आकर्षणपरिधौ एव अन्येषां ग्रहाणां सञ्चलनं भवति । नित्यजीवनव्यवहारे तस्य प्रभावः अस्ति अनन्यः। सूर्यं विना मानवजीवनस्य कल्पना अपि अशक्या एव। सूर्यस्य व्यासः भवति ८,६५,००० मैल्-परिमितम् । [[भूमिः|भूमेः]] विस्तारस्य अपेक्षया १३,००,००० गुणितम् अधिकम् । द्रव्यराशिः [[भूमिः|भूमेः]] अपेक्षया ३,३३,००० गुणितम् अधिकम् । अणुप्रक्रियया सूर्ये शक्त्युत्पादनं भवति । सूर्ये प्रचाल्यमानया अनया क्रियया जलजनकः हीलियं-धातुरूपेण परिवर्तिताः भवन्ति इत्यतः द्रव्यराशौ प्रत्येकस्मिन् क्षणे चत्वारि-मिलियन्-टन्-परिमितः भागः न्यूनः भवति । सूर्यः यस्यां वियद्गङ्गायां परिभ्रमति तस्याः केन्द्रभागतः बहु दूरे सीमाप्रदेशे विद्यते । वियद्गङ्गायाः केन्द्रतः सूर्यः ३०,००० ज्योतिर्वर्षाणाम् अन्तरे विद्यते ।
 
 
"https://sa.wikipedia.org/wiki/सूर्यः" इत्यस्माद् प्रतिप्राप्तम्