"नेप्चून्-ग्रहः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
[[चित्रम्:Neptune.jpg|thumb| '''वरुणस्य''' चित्रम्]]
'''नेप्चून्''' (Neptune; चिह्न: [[File:Neptune symbol (fixed width).svg|16px|♆]]) कश्चन ग्रहः भवति। नेप्चून् इति निर्दिश्यमानः ग्रहः भारतीयचिन्तनाक्रमे '''वरुणः''' इति कथ्यते । १८४६ तमे वर्षे अन्विष्टः अयं ग्रहः इन्द्रः (युरेनस्) इव हरिद्वर्णीयः । अस्य ग्रहस्य द्वौ उपग्रहौ - '''ट्रैटन्''', '''नेरैड्''' च । स्वस्य परिभ्रमणाय अयं ग्रहः २६ निमेषोत्तर १८ घण्टाः स्वीकरोति । [[सूर्यः|सूर्यं]] परितः भ्रमणाय १६४.८ वर्षाणि स्वीकरोति । अयं [[सौरव्यूहः|सौरमण्डले]] अष्टमः। [[सूर्यः|सूर्यात्]] दूरे विद्यमानः ग्रहः । व्यासानुगुणम् अयं चतुर्थः महान् ग्रहः । द्रव्यराश्यनुगुणं तृतीयः महान् ग्रहः । [[भूमिः|भूमेः]] द्रव्यराशेः अपेक्षया १७ गुणितम् अधिकमस्ति अस्य द्रव्यराशिः। अयं ग्रहः सूर्यात् ३०.०७ खगोलमानदूरे अस्ति। सामान्यतः अस्य दूरं २,७९३,०००,००० विदूरम्, २८१६ मिलीयमैलुपरिमितम् अस्ति। अदूरं २७९८ मिलिय मैलुपरिमितम् अस्तीति। अस्य पथः अल्पदीर्घवृत्तो भवति। तत् पथः भू पथाय १ डिग्रि ४७ निमेषाः अभिनतः अस्ति। अयं वरुणः(नेप्चून्) लघुग्रहः न। गात्रे भूमेः अपेक्षया ७२ भागः बृहत् भवति। भारे केवलं १७ भागः आधिक्यमस्य इति।
==रचना==
अस्य ग्रहस्य रचना [[अरुणः|अरुण]](युरेनस्) ग्रहवत् अस्तीति ऊहा। (युरेनस्) [[अरुणः|अरुणग्रहवत्]] हरितनीलवर्णाभ्याम् अयं ग्रहः मिलितः अस्ति। अस्य ग्रहाय [[सूर्यः|सूर्यरश्मीः]] अतिशयतया प्रतिफलन शक्तिः अस्ति। किन्तु सूर्यात् अस्य स्थानं गणयामश्चेत् अस्य प्राप्तेः शाखप्रकाशौ न्यूनौ इति। [[भूमिः|भूमौ]] एकचदर गजविस्ताराय यावत् शाखप्रकाशौ आगच्छतः, तेषु सहस्रेषु एको भागः [[सूर्यः|सूर्यात्]] वरुणस्य एकचदरगात्रपरिमिते आगतं स्यात्। एतदपेक्षया [[सूर्यः|सूर्यगोलकः]] तत्र विद्यमान जन्तुविशेषेभ्यः नक्षत्रगात्रे दृश्यते। अस्य गोलकस्योपरि, [[भूमिः|भूमौ]] उषःकाले यावान् प्रकाशः भवति तावान् प्रकाशः [[सूर्यः|सूर्यात्]] प्रायः लभ्येत। वरुणग्रहे पूरित अनिलाः [[गुरुग्रहः|गुरुशनिग्रहयोः]] वस्तुने सदृशाः भवन्ति। मिथेन्,अमोनिया अनिलौ अस्मिन् वरुणवातावरणे अधिकतया दृश्यतः इति। उक्तान् विहाय [[भूमिः|भूमौ]] अविद्यमानाः केचन धातवः अस्मिन् सन्तीति ज्ञातमस्ति। अस्य ग्रहस्य ४१,००० कि.मि. व्यासपरिमितगोलकः भवति। अयं ग्रहः स्वपथे २९ डिग्रि अभिनतः अस्ति। १५ घण्टाः,४० निमेषाय एकवारं परिक्रमति। स्ववृत्ते एकवारं संपूर्णं परिक्रमणार्थं १९४ वर्षाणि २८० दिनानि अपेक्षन्ते। अर्थात वरुणस्य एकवर्षाय अस्माकं १९५ वर्षाणि समानानि भवन्ति। अथः तत्र विद्यमान वातावरण, शीतादीनां कल्पना अस्माकं गणनायां यान्ति इति।
"https://sa.wikipedia.org/wiki/नेप्चून्-ग्रहः" इत्यस्माद् प्रतिप्राप्तम्