"भारतसर्वकारः" इत्यस्य संस्करणे भेदः

No edit summary
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
No edit summary
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
 
पङ्क्तिः १:
 
 
'''भारतसर्वकारः''' ({{lang-hi|भारत सरकार}}, {{lang-en|Government of India}}), आधिकारिकरूपेण सङ्घीयशासनम् इत्युच्यते, अपि च केन्द्रीयशासनमिति ज्ञायते। इदं शासनं [[भारतम्|भारतस्य]] संविधानद्वारा संस्थापितमासीत्। अस्तीदं २८ राज्यानां सप्त सङ्घराज्यक्षेत्राणां च शासकाधिकरणम्, समाहत्य यानि भारतगणतन्त्रमिति उच्यन्ते। अस्य संस्थितिः [[नवदिल्ली]] (भारतस्य राजधानी) इत्यत्र अस्ति।
 
सर्वकारस्यास्य तु तिस्रः शाखाः: कार्यकारिणी, विधायिका न्यायपालिका च। कार्यकारिणीशाखायाः प्रमुखस्तु राष्ट्रपतिः।[[भारतस्य राष्ट्रपतिः|राष्ट्रपतिः]]। स तु राज्यस्य प्रमुखः वर्तते। राष्ट्रपतिः स्वकीय-शक्तीन् प्रत्यक्षतया अथवा अधीनाधिकारिणां माध्यमेन प्रयोजयति।<ref>Ministry of Law and Justice, Govt of India: ''Constitution of India, updated up to 94th Amendment Act'', page 26,http://lawmin.nic.in/coi/coiason29july08.pdf</ref> [[भारतीयसंसदः|संसदः]] विधायिकाशाखायां तु निम्नं सदनं [[लोकसभा|लोकसभानाम]] अपि च उच्चं सदनं [[राज्यसभा|राज्यसभानाम]] तथा च राष्ट्रपतिः वर्तन्ते। न्यायपालिकायां च [[भारतीयसर्वोच्चन्यायालयः|सर्वोच्चन्यायालयः]] शीर्षस्थः, अपि च 21 [[भारतीयउच्चन्यायालयः|उच्चन्यायालयाः]], जिल्लास्तरे च नागराः, आपराधिकाः, पारिवारिकाश्च न्यायलयाः बहवः विद्यन्ते। भारतं नाम संसारे बृहत्तमं [[प्रजातन्त्रम्|लोकतन्त्रं]] वर्तते।
 
नागरिकानां शासनार्थे मूलभूतानि नागराणि आपराधिकानि वा विधानानि संसदि एव विधिनिर्माणद्वारा स्थाप्यन्ते। कानिचित् एतादृशानि विधानानि सन्ति- सिविल् प्रोसीजर् कोड् इत्येतत्, भारतीयदण्डसंहिता, आपराधिकप्रक्रियासंहिता च। सङ्घीयेऽथ च राज्यीयेषु सर्वकारेषु कार्यकारिणी, विधायिका न्यायपालिका च शाखा वर्तते। ७३तमेन ७४तमेन च संविधानसंशोधनेन स्थानीयशासनार्थं पञ्चायतराज्यप्रणाली संस्थाबद्धीकृता।
"https://sa.wikipedia.org/wiki/भारतसर्वकारः" इत्यस्माद् प्रतिप्राप्तम्