"विकिपीडिया:प्रयोगपृष्ठम्" इत्यस्य संस्करणे भेदः

(लघु)
सम्पादनसारांशरहितः
No edit summary
(लघु)No edit summary
[[सञ्चिका:Main-qimg-09c1e8109d0ac463ee9757f5f180418c.webp|लघुचित्रम्]]
'''अनुशासनम्'''
 
'''वैशाखी'''
अनुशासनम्, व्यवस्थाया नियमस्य च नामान्तरम् अस्ति। सर्वस्मिन् जगति वयं नियमं प्रकृतेरनुशासनं वा पश्यामः। अतः एव वैदिकमन्त्रे उच्यते ‘सत्यं बृहदृतमुग्रं दीक्षा तपः पृथिवीं धारयन्ति’ इति। यानि तत्त्वानि पृथिवीं धारयन्ति तेषु ऋतस्य नियमस्यानुशासनस्य वा महत्त्वपूर्ण स्थानमस्ति। सूर्यः नियमतः उदेति, नियमतश्चास्तमेति, नियमतः एव ऋतवो भवन्ति, नियमत एव ग्रहनक्षत्राणि निश्चित मार्गे परिभ्रमन्ति, नो चेत् सर्वत्र महान् विप्लवः स्यात्। विचार्यतां यदि स्वेच्छया रविरपि कदाचित् प्रकाशेत न वा प्रकाशेत, यदि वा नद्यः स्वेच्छया जलं वहन्तु न वा वहन्तु तदा किं भवेत्। कदाचिद् यदि बहुषु वर्षेषु एकदापि अतिवृष्टिरनावृष्टिव भवति तदा जनानां कष्टानि असह्यानि जायन्ते, यदि पुनः कश्चिदपि क्रमः कदापि न स्यात् तह का दशा जायेत इति सुखम् अनुमातुं शक्यते।
 
वैशाखी पर्व भारतस्य महापर्वसु अन्यतमम् अस्ति । अप्रैल-मासस्य त्रयोदशे (१३) चतुर्दशे (१४) वा दिनाङ्के इदं पर्व उत्तरभारतस्य राज्येषु, तत्रापि मुख्यत्वेन पञ्जाबराज्ये आचर्यते ।वैशाखी पर्वणः अपरं नाम कृषिपर्व इति । भारतस्य उत्तरीयराज्येषु यदा सस्यानि परिपक्वानि भवन्ति तदा कृषकाः उत्साहेन इमम् उत्सवम् आचरन्ति । कृषकाः उत्सवे नृत्यन्ति गायन्ति च । भगवतः स्मरणं कुर्वन्ति । अस्मिन् दिवसे मृदङ्गनादं कृत्वा कृषकाः आनन्दम् अनुभवन्ति । यस्मिन् दिने सूर्यः मेषराशिं प्रविशति तस्मिन् दिने इदं पर्व आचर्यते । पञ्जाबराज्यस्य लोकनृत्यस्य भाङ्गडा इति नाम । अतः पञ्जाबराज्ये अस्मिन् पर्वणि कृषकाः भाङ्गडा-नृत्यं कुर्वन्ति ।पञ्जाबराज्ये कृषेः विशेषं महत्वं वर्तते । तत्रत्याः कृषकाः कृषिकार्यं निष्ठापूर्वकम्, उत्साहपूर्वकं च कुर्वन्ति । ते कृषकाः कृषेः स्वेषां जीवनं चालयन्ति । पञ्जाबराज्यस्य कृषकाणां यादृशः उत्साहः आभारते तादृशः उत्साहः अन्यत्र कुत्रापि न दृश्यते । अस्मिन् पर्वणि कृषकाः प्रथमं पक्वं सस्यं भगवते अग्नये ददति । तदनन्तरं प्रसादं सर्वे जनाः गृह्णन्ति । पक्वानि सस्यानि दृष्ट्वा कृषकेषु उत्साहं प्रसन्नता च दृश्यते । यदा कृषकाः आवर्षम् उद्यमान् कुर्वन्ति तदैव वर्षान्ते सस्यानि परिपक्वानि भवन्ति । ततः परं तेषां कर्तनकार्यं कृत्वा विक्रयणार्थं प्रेषयन्ति । अन्ते सम्पूर्णवर्षस्य फलं प्राप्य विश्रान्तिम् अनुभवन्ति । वैशाखी-पर्व मूलरूपेण नूतनसस्यानाम् उत्सवः अस्ति । सस्येषु अपि विशेषतः 'रबी' इत्यस्य सस्यस्य उत्सवः । पञ्जाबराज्ये 'रबी' इत्यस्य खाद्यानि भवन्ति । तेषु चणकः, सर्षपः, एरण्डः इत्यादयः अस्यां ऋतौ उत्पाद्यन्ते ।
एवमेव व्यक्तेः समाजस्य च जीवने ऽपि अनुशासनस्य अद्वितीयं महत्त्वं वर्तते। साफल्याय उन्नतये च अनुशासनम् अनिवार्यं भवति। यदि अस्माकं जीवने को 5 पि नियमो न स्यात् तदा वास्तविकी उन्नतिः शान्तिश्च न लभ्यते। कश्चित जनः केवलं धन कामयमानः रात्रौ वा दिवा वा न कदापि स्वपिति तदा किं धनेन सः सुखी भवति? तथैव यदि, समाजे सर्वे जनाः केवलं धनसंग्रहतत्पराः स्युस्तदा कथं चलेत् जीवनयात्रा। सर्वत्र हि तदा धनार्थं संघर्षः परस्परं घातप्रतिघाताश्च स्युः। आरक्षका अपि यदि नियमं नानुतिष्ठेयुः तदा चौराः स्वतन्त्रा भूत्वा स्वकार्य विदध्युः। प्रत्येक सैनिकः प्रतिपदं यदि साकं चलति, अन्योन्यसम्बद्धः च भवति, तदैव जीयन्ते युद्धानि।
 
[[सञ्चिका:Main-qimg-09c1e8109d0ac463ee9757f5f180418cCIA3.webp.jpg|लघुचित्रम्]]
अनुशासनविहीना सेना शस्त्रास्त्रसंयुता अपि असम्बद्धजनसम्म इव न कदापि विजयते, आत्मानमेव सा हन्ति। विद्यालयेऽपि यदि कश्चिद् नियमो न स्यात्, यदि कोऽप्यध्यापकः कामपि कक्षा कदापि कमपि विषयमध्यापयेत् स्वैरं तदा कश्चिदपि छात्रः किमप्यवगन्तुं न शक्नुयात्। अत एव समयविभागः क्रियते नियमपूर्वकं च अध्याप्यते येन सर्वेषां लाभः स्यात्। नियमत एव हि रेलयानानि चाल्यन्ते, अन्यथा प्रत्यहं संघट्टनदुर्घटनाः स्युः। अस्माकं शरीरेऽपि प्रकृत्या सर्वाण्यंगानि नियमपूर्वक कर्म कार्यन्ते। चिन्त्यतां यदि क्षणमपि हृदयं स्वप्यात् तदा शरीरस्य का ऽ वस्था भवेत्। समाजे ऽपि यस्य यत् कार्यं निर्धारितं तत् तेनैव कार्यं नो इतरेण। क्रीडायां प्रत्येक क्रीडकस्य स्थानं निश्चित भवति, यदि पुनरसौ स्वस्थानं परित्यज्य अन्यत् कुरुते, तदा प्रतिस्पर्धायां विजयो नावाप्यते।
 
उद्धरणम्:
अत एव समाजस्य, राष्ट्रस्य, स्वस्य चोन्नत्य अनुशासनपूर्वकं वर्तितव्यम्। वयं पश्यामो यत् अनुशासनकारणादेव अंगुलिगण्यैरपि आंग्लैः संसारे साम्राज्यं स्थापितम्। अनुशासनेनैव जापानसदृशम् लघु अपि राष्ट्रं महायुद्धविध्वंसं सोढ्वापि पुनः परमोत्कर्षशिखरमारूढम्।
https://www.timesnownews.com/spiritual/religion/article/what-is-baisakhi-festival-and-why-is-it-celebrated/576562
१३

सम्पादन

"https://sa.wikipedia.org/wiki/विशेषः:MobileDiff/467538" इत्यस्माद् प्रतिप्राप्तम्