"ज्योतिषम्" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः २०:
'''वेदस्य निर्मलं चक्षुज्योतिश्शास्त्रमनुत्तमम्॥''''
 
[[लगधः|लगध]]<nowiki/>-प्रणीतस्य वेदाङ्गज्यौतिषग्रन्थस्य श्लोकानां रहस्यं किम् इत्येतद् वस्तुतो विद्वद्धौरेयाणामपि दुर्गमम् । ग्रन्थस्यास्य अवतीर्णस्य ३४०० वर्षाणि व्यतीतानीति शङ्करबालदीक्षितस्य मतम्। [[बाल गङ्गाधर तिलक|लोकमान्यतिलक]]<nowiki/>-सुधाकरद्विवेदि-डॉ० थीवो-प्रभृतयो विद्वांसो ग्रन्थस्यास्य [https://olb88.vip/ slot] श्लोकान् व्याख्यातुं प्रायतन्त । भारतीयस्य ज्यौतिषशास्त्रस्य ग्रन्थ एष आद्यः। मन्यते यत्, न ततः प्राक् ज्यौतिषि क्वापि काचित् कृतिलिखिता प्राप्यते इति।
 
'हिस्ट्री आफ संस्कृत लिटरेचर' इत्येतन्नामके ग्रन्थे प्रो० [[मैक्समूलरः]] कथयति यद्, अङ्कशास्त्रज्ञानार्जनं यूरोपीयाः भारतीयेभ्यः कृतवन्तः, तस्मात् ते तेषां सन्त्यधर्मणाः । अन्यैश्च बहुभिः मनियरविलियम-प्रभृतिभिरिदं स्पष्टमेवाभिहितं यत्, प्रतीच्यदेशीया भारतीयेभ्यो गणितविद्यामगृह्णन्। 
पङ्क्तिः २८:
'शास्त्रमिदं भारतवर्षे, यदा ईसामसीहस्य जातस्य २७८० वर्षाणि व्यतीतान्यभूवंस्तदानीमपि प्रचलितमवाप्यत॥'
 
काउण्टजोर्णन्स्जानी-महोदयः स्वकीये 'थियोगोनी आफ दि हिन्दूज' इत्येतन्नामधेये ग्रन्थे लिखति यत्, कलियुगस्य आरम्भादेव भारतवर्षे ज्यौतिःशास्त्रस्यासीत् प्रसारः । सरहण्टर-महोदयः 'इण्डियन-गजेटियर'-मध्ये — 'अनेकेषु विषयेषु भारतीयानां ज्यौतिःशास्त्रं यवनप्रणीताज्ज्योतिःशास्त्रादुन्नततरमदृश्यत' इत्येतदुल्लिखति। कोलबूको नाम विद्वान् 'एलिफिस्टोन्स हिस्ट्री आफ इण्डिया, ग्रन्थे - 'अयनगतिमुद्दिश्य पृथिव्याः स्वपरिधौ दैनिकश्चावर्त्तनमधिकृत्य भारतीयैः यद्गणितं तदरबदेशीयगणनाशास्त्रादुच्चतरम्' इति वदति । विलसन अपि कथयति - भारतीयैः विद्वद्भिः ज्योतिर्विद्यायाम् अलौकिकी उन्नतिः कृता । भारतीयविदुषा शङ्करबालकृष्णदीक्षितेन सप्रमाणं सिद्धं कृतं यद् अस्य वेदाङ्गज्यौतिषशास्त्रस्य ई० पू० १४०० वर्षात् प्रागेवाभवत् । सुदूरात प्राचीनकालात् [https://mgmklub.co/ slot] सम्बद्धत्वेनेदं शास्त्रमतिदुरूहं दुर्बोध्यं च अभवत् ।
 
== आवश्यकता ==
"https://sa.wikipedia.org/wiki/ज्योतिषम्" इत्यस्माद् प्रतिप्राप्तम्